साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्ब स्तौमि सुरासुरोरग गणाः साम्बेन सन्तारिताः ।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्य अनुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १ ॥
विष्ण्वाद्याश्च पुरलयं सुरगणाः जेतुं न शक्तास्स्वयं
यं शंभुं प्रणता वयंतु पशवोऽस्माकं त्वमेवेश्वरः ।
तेनास्मिन्शरणागतान्पशुपते पाहीत्यवोचं द्रुतं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥
यस्येषुः कमलेक्षणः पशुपतेरब्जोद्भवस्सारथि
स्य ज्याफणिनासिनोरथपदे यस्येन्दुसूर्यावुभौ ।
मेरुर्यस्य शरासनं रथवरो भूमिस्तु यस्याभवत्
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥
यद्भक्तो मृगुरिन्दिरापतिमहो शापस्थ लक्ष्यं भृशं
कृत्वा स्वां दयितां मृतां स्वमनुभिश्शैवैरयुङ्तासुभिः ।
यं ताराधिपचूडमागमशिरो विश्वाधिकं गायते
तस्मिन्मे हृदयं सुखेन रमताः साम्बे परब्रह्मणि ॥ ४ ॥
गोविन्दादधिकं न दैवतमिति प्रोचार्य हस्तावुभौ
उद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां पुरः ।
यस्यस्तम्भिवपाणिरानतिकृता नन्दीश्वरेणाऽभवत्
तस्मिन्मे हृदयं सुखेन रमतां साम्बे पराब्रह्मणि ॥ ५ ॥
विष्णुस्थावरजङ्गमात्मकजगत्स्वामी विरिश्चाधिको
यद्भकेन सहासुरेश्वररिपुर्युद्धं दधीचेन सः ।'
कृत्वा शीघ्रमहो द्विजादपजयं तस्माद्द्वतोभूभृशं
तस्मिन्मे हृदयं सुखेन रमता साम्बे परब्रह्मणि ॥ ६ ॥
कादीनाञ्च भयंकरः स्वमहसा व कृत्यैर्भृशं
कोपान्धो जितदानवो नरहरिर्यस्यांशभूतेन सः ।
लोकेशश्शरमेण शिक्षितमदोभूल्लीलयाऽर्धक्षणात्
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७ ॥
विष्वक्सेनमपीन्दिरापतिसमं तं रक्तमिक्षाच्छलात्
संहत्याथ सभैरवश्शाशिधरो यस्यांशभूतो जटी |
ब्रह्मायामरशिक्षकस्य बलिनो विष्णोर्मदञ्चारत
तस्मिन्ये हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८ ॥
येनापादितमङ्गजाङ्गमसितं दिव्याङ्गरागैस्समं
येनस्वीकृतमब्जसंभवशिरस्सौवर्णपात्रैस्समम् ।
येनाङ्गीकृतमच्युतस्यनयनं पूजारविन्दैस्समम्
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९ ॥
विष्णुब्रह्मसुराधिपप्रभृतयस्सर्वेपि देवा भृशं
संमृताजलघेर्विषात्परिभव प्राप्तायमेत्येश्वरं ।
खखस्थाननियोजिता गतशुचः स्वस्था बभूवुढा :
तस्मिन्मे हृदयं सुस्बेन रमतां साम्बे परब्रह्मणि ।। १० ।।
यस्त्रिगुणान्विातमधुमिच्छ्रलायुधेभ्यरिशवो
दत्वैतानथ तान् गृहीतुमनयोश्शक्त्या पुनहींनयोः ।
ताभ्यां साकमहो गुणत्रयभृते रुद्राय साम्यं ददौ
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ११ ॥