।। श्रीः ।।
श्री सभापतिकृत श्री जैमिनीय लक्षणानि कथ्यन्ते ॥
स्वरं सप्त विधः प्रोक्तमङ्गुष्ठेनाङगुळीषुच ।
कुष्ठोप्यङ्गुष्ठ तर्जन्योरग्रसंश्लेषमेव च ।। १ ।।
अङ्गुष्ठस्य स्थिर स्थानं प्रथमस्वर उच्यते ।
तर्जनीमूल संस्पर्श द्वितीय स्वर उच्यते ।। २ ।।
तृतीयो मध्यमामूलं चतुर्थास्यामथोङगुलैः ।
मन्द्रं कनिष्ठिकामूलं स्वारमाग्रा द्विमर्शनः ।। ३ ।।
एवं दक्षिण हस्ते स्युः नासिकाग्र पुरस्थिते ।
गोकर्ण सदृशे पाणौ स्वरास्सप्त च दर्शिताः ।। ४ ।।
तृतीय स्थानमारभ्यमनेक साम पर्वसु ।
तत्रैवान्तञ्च बहुलमेवं स्थानान्तरेषु च ।। ५ ।।
चतुर्थे बहुवर्णान्तं वर्णादपि परप्लुताः ।
मन्द्रे चैकाक्षरान्तान्तं द्वे ईळे बुद्धिमानपि ।। ६ ।।
एतद्वोक्तं विशेषोस्ति नीचश्चोच्चस्वरक्रमः ।
अन्त्यवर्ण मनीचञ्चेतु पूर्वस्थानेषु तस्थितम् ॥
क्वचिक्तु निधनान्त्याच्च चतुर्थ्यादिषु दर्शिताः ।
केचिक्तु पर्वमध्येच मन्द्रादि स्पर्शनं विदुः ॥ ७ ॥
केचिक्तु निधनान्त्याच्च मन्द्रे स्वारेच द्दश्यते ।
आम्नाय साम पर्वेषु नीचैरेव स्वर क्रमः ॥ ८ ॥
प्रतिक्रमेतु गमनं मन्त्रेवोच्च स्वरादिषु ।
पदमध्यावसानेयदनुस्वारादि लुप्यते ।। ९ ।।
पदान्तेतु तथा लोपमौहो उच्चस्वरादिषु ।
वीपञ्चेत्यादि दीर्धान्ते प्रत्नादिष्वपि दृश्यते ।। १० ।।
ऋगक्षरञ्च स्तोभञ्च वर्णलोपन्तु दृश्यते ।
इकारस्यान्तु लोपस्यात् जाति वर्ण परेषुहा ।। ११ ।।
द्वीतीय प्रियाश्च गन्धर्वाः तृतीयो वसवः प्रियाः ।
चतुर्थे पितरो देवाश्चैव मन्द्र स्वर प्रियाः ।। १२ ।।
स्वारो वनस्पतीनाञ्च देवताः परिकीर्तिताः ।
आरंभो नीच वर्णस्य तृतीये समता भवेत् ।। १३ ।।
तस्मिनैवाऽवसानञ्च बहूनाञ्च तथैव च ।
तासामेव मुदात्तानां तावुभौ प्रथमस्वरे ।। १४ ।।
उपेत्य बहु नीचान्तास्थिता वर्णात् परिप्लुताः ।
एकस्वान्तः क्वचिन्मन्द्रे तथा द्वित्रि स्थितोपिवा ।। १५ ।।
उच्चैरेतत् स्वरास्युश्चेत् पूर्व पर्वेत् पक्षिकाः ।
क्वचिच्चतुर्थ्या उच्चैस्यात् ततः मन्द्रः क्वचित् भवेत् ।। १६ ।।
अङ्गुष्ठे च कनिष्ठाया स्वारमाग्राद्विमर्शनः ।
प्राजातोरग्निरश्मिश्च इह प्राजा तथैव च ।। १७ ।।
जातवेराय स्फोषाय घृतन्मेगन्वमादितम् ।
त्रिधास्त्वकों इदं वामाम्यजसृञ्ज्योचराचरः ।। १८ ||
हविरश्मि यशोक्रात्भूः पदान्येव त्रयोदश ।
आयुरायुरिति स्तोभः मध्ये मध्ये भवेत् पुरा ।। १९ ।।
अवरोहे क स्वरश्च तस्य हस्तस्य लक्षणम् ।
अनामिका मूल मर्दम् अङ्गुष्ठेन यथाक्रमम् ।। २० ।।
उद्गमे च स्वरस्तस्यानामिकाश्लेषमुक्तकः ।
यानेऽस्मिन् ट स्वरस्तस्य वदनाभि मुखः करः ।। २१ ।।
आवर्ते त स्वरस्तस्याङ्गुल्यावर्तञ्च दृश्यते ।
क्षेपणे प स्वरस्तस्यानामिका मूल मर्दनात् ।। २२ ।।
जवेनैवतु विश्लेषस्तत यो मर्शनस्वरः ।
तस्यचाङ्गुलि मर्शश्चयुगवच्चा निर्णयः ।। २३ ।।
अवरूह्य क्षेपणे गो वरुह्य मर्शनेच जः ।
उद्गत्यक्षेपणे ड श्चात्युद्गत्यमर्शनेच दः ।। २४ ।।
यात्वा संक्षेपणे ब श्च यात्वाऽभि मर्शनेच घः ।
आवर्त्य क्षेपणे झो धात्रावर्त्य मर्शनेच ढः ।। २५ ।।
क्षेपमर्शनयोरैक्यं सर्वे युग्मस्वराश्चये ।
ते सर्वेभीष्टदाः सामवेदिनामहतामिह || २६ ।।
अवरोहोद्गमौ यानावर्त क्षेपण मर्शने ।
अवरूह्योत् गत्य यात्वाऽवर्तक्षेपण मर्शने ।
मर्दान्वङ्गुलि मर्देच केवलोक्तानमेवच ।
मध्यमानामिकायश्चप्यवरोहं यथाक्रमम् ।। २७ ।।
कनिष्ठिकानामिकायश्चोद्गमेच यथाक्रमं ।
कुष्ठः प्रदेशिनीमर्शं कनिष्ठामर्शनं तथा ।। २८ ।।
एते षोडश वर्णाश्च युग्मस्वरमितीरिताः ।
कश्चटास्तपयाश्चैव भखधाफप्लङणाच ।
कृसत्ररश्च क्रमात् ज्ञेयास्वरवर्णाश्चषोडशाः ।। २९ ।।
क्षेप मर्शनयोरैक्यं मर्दान्वङ्गुलि मर्दने ।
उच्चैर्नीचैरूपकृत्योक्ताने केवलञ्चतत् ।। ३० ।।
एकैकतो मध्यमादयाववरोहोद्गमौ क्रमात् ।
कनिष्ठायास्समुद्गत्य यात्वान्वङ्गुलि मर्दने ।। ३१ ।।
अवरूह्योद्गमेयानावर्तौकुष्ठोभी मर्शने ।
प्रदेशिन्याः कनिष्ठायाः इत्यङगुष्ठे: करे क्रियाः ॥ ३२ ॥
वर्गादयाया स्त्रीतयाश्च वर्गतुर्या उपादिमाः ।
प्लणाज्ञोनलवहळकृसत्र इति क्रमात् ।। ३३ ।।
पुरुषो हि व्रजेन्नारीं ननारी पुरुषं व्रजेतू ।
तथाङ्गुलीषु सर्वासु नयेदङ्गुष्ठमेवतु ।। ३४ ।।
नासिकायास्तु पर्वेग्रे हस्तंगोकर्ण वर्द्धरेत् ।
निवेश्य दृष्टिं हस्ताग्रे वेदार्थमनुचिन्तयेत् ॥ ३५ ।।
ष कारस्यान्तु पूर्वेषां वर्णानामवसानकृत् ।
अपरेषान्तु वर्णानां श कार स्त्ववसानकृत् ।। ३६ ।।
अथात्र स्वर मात्राणां प्रकारं दर्शयामहे ।
गन्धर्वाणां वैणिकानां स्वर्गलोक निवासिनाम् ।। ३७ ।।
बहूनां गान मार्गाणां उपदेशादनन्तरम् ।
यदुक्तं नारदीयायां शिक्षायां मानुषोचितम् ।। ३८ ।।
द्वा त्रिंशत्स्वर संसक्ते वर्णाः कैश्चिदुदाहृताः ।
स्वर संज्ञाश्च तावत्यो हस्त चेष्टाश्च तत् समाः ।। ३९ ।।
तत्रायुग्माः षोडशैव प्रथक् धर्म युतामताः ।
तद्योगादन्यथा सिद्धायुग्मास्तैषोडश स्वराः ।। ४० ।।
वर्ण संक्षेप मात्रेण तेषां साफल्यमीक्षितम् ।
अयुग्मानां प्रथक् भावान् संक्षिप्योद्बोधयामहे ।। ४१ ।।
सन्निकृष्टा भृशं ह्रस्वाः प्रोक्ताः चकित संज्ञया ।
आवर्तान्वङ्गुलि क्षेपाश्चतुः चकितिनोन्ततः ।। ४२।।
यानोक्तानौ त्रिचकितौ शेषा विचकितास्वराः ।
अनामिकोद्गमस्यापि केचित्रिचकितं विदुः ।। ४३ ॥
विनातु चकितं विदयान्मात्रैषां यावतीर्यते ।
आवर्तात्वङगुलि क्षेप मर्दानां षडुदाक्तकाः ।। ४४ ।।
नीचैरुच्चैस्त्रि मात्रौ ताववरोहोद्गमौ क्रमात् ।
अन्ति मे चकिते नीचैः क्षेपणान्वङ्ङ्गुलिस्वरौ ।। ४५ ।।
अन्वङ्गुलि स्वरस्तत्र समस्त्रिस्थान घट्टनः ।
उच्चैनींचै स्त्रि स्त्रिमात्रनुलोमविलोमतः ।। ४६ ||
श्रुति भेदान्मध्यमावरोहात् यास्ते चतुस्वराः ।
तारषण्मात्रवान् कुष्ठः यानस्यादेक मात्रकः ।। ४७ ||
नीचैरुच्चै स्त्रि मात्रो मध्यतश्चैक मात्रकः ।
उक्तानस्सप्त मात्रस्यात् प्रायशश्चोद्गमोक्तरः ।। ४८ ।।
त्रिमात्राः परतस्सर्वे मर्शनाये त्वधः पुनः ।
द्विः चतुः पञ्च षण्मात्राः कनिष्ठा देशिनीतरे ।। ४९ ।।
अनेक स्वर संयोगे स्वर मात्रान्नलोपयेत् ।
मध्यमानादयावरोहौ द्व्यक्षरौ व्यापिनि क्वचिन् ।॥ ५० ॥
मर्दस्वरस्त्वनित्यं स्यात् अनेकाक्षर संगतः ।
इतरेतुस्वरास्सर्वे प्रतिवर्णव्यवस्थिताः ।। ५१ ।।
इति संक्षेपतः प्रोक्तस्वराणामिह निर्णयः ।
गायेन्मध्य मया श्रुत्यानातिद्रुतविलंपितम् ॥ ५२ ॥
अवरोहा उद्गमाश्च कुष्ठोत्सनाविति क्रमात् ।
ष शौ क्रमादूर्ण शेषे पूर्वतः परतः स्वरात् ।। ५३ ।।
अचलं नचलं हस्तं नासाग्राभिमुखं धरेत् ।। ५४ ।।
स्वर संज्ञान रूपेण पर्वस्वङ्गुष्ठचेष्टितम् ।
रेफ: पदस्य संज्ञानां पदानां सदृशन्तु सै।
वत् साम्ये प्र प्रति स्तोभे मस्साम स्तोत्रियोन्तयोः ।। ५५ ।।
आम्नाय स्वर गानानि ऋषिच्छन्दोस्य देवताः ।
भक्तिव विनियोगश्च ततो ब्राह्मण इक्ष्यते ।। ५६ ।।
गीतैर्वर्ण विकारैश्च स्तोभैः नानाविधः स्वरैः ।
ऋग्यदा विक्रयां याति तदा सामेति कीर्त्यते ।। ५७।।
मात्रा वृद्धिस्तु वर्णानां गीतमित्यभिधीयते ।
ऋगक्षरेभ्यो या बाह्याः शब्दास्तेस्तोभ संज्ञिकाः ।। ५८ ।।
ऋग्विहीनच्छन्न गानं लेशं स्तोभमृचासह ।
आविर्गानं स्तोभहीनं एवं गान त्रयं विदुः ।। ५९ ।।
प्रस्तावस्यादथोत् गीथः प्रतिहार उपद्रवः ।
निघनञ्ज विभक्तीनां नामधेयं क्रमाद्विदुः ।। ६० ।।
लघिमान् द्राधिमान् लोभः परोक्षोक्षर विक्रिया ।
चकितं भूतमुद्विग्नमव्यक्त मनुनासिकम् ।। ६१ ।।
काकस्वरं गतरसं यथा स्थान विवर्जिम् ।
विस्वरं विरसञ्चैव विकलिष्टं विरमाहतम् ।। ६२ ।।
व्याकूलन्तालुहीनञ्च गीति दोषाश्चतुर्दश ।
एतान् दोषान्वर्जयित्वा गानकाले विचक्षणः ।। ६३ ।।
स्वस्थः प्रशान्तो निर्भीतः वर्णानुच्चारयेद्बुधः ।
गोकर्ण सदृशे पाणौ स्वरान् सप्तप्रदर्शयन् ।
कुष्ठादयाः मन्द्र पर्यन्ता स्वराः सप्त प्रदर्शितः ।। ६४ ।।
कुष्ठ: प्रथमः द्वितीयः तृतीयः चतुर्थः मन्द्रः ।
स्वारः अतिस्वारमिति केचिद्राणायिनीयाः कौथिमाश्च
अथातो गीते षड्वर्तिनि सामेति जैमिनिः ।। ६५ ।।
हस्त हीनन्तु योधीते स्वर वर्ण विवर्जितम् ।
ऋग्यजुस्सामभिः दण्डोवियोनिमभिगच्छति ।। ६६ ।।
हस्तेन वेदं योधीते स्वर वर्णाथ संयुतं ।
ऋग्यजुस्सामभिः पूतो ब्रह्मलोके महीयते ।। ६७।।
आग्नेयस्य शतं साम द्वयशीत्यधिकमीरितम् ।
ऐन्द्रस्य षट् शतं चैक चत्वारिंशत् प्रकीर्तितम् ।। ६८ ।।
पवमानस्य सामात्र नवाधिक चतुश्शतं ।
आरणस्येक नवति द्विशतात् परमिष्यते ।। ६९ ।।
त्रयोविंशच्छिरः पञ्चशतोत्तर सहस्त्रकम् ।
प्रकृतेस्साम विज्ञेयं साम सागर पारगैः ।। ७० ।।
एकचत्वारिंशदुक्तरोल्लसत् षट शतं मतम् ।
द्वादशाहस्यवै सामह्यभ्यूहस्य ततः परम् ।। ७१ ।।
एक त्रिंशच्छिरस्साम शतमेकाह संज्ञिनः ।
नवत्युत्तर पञ्चाशच्छतं साम विनिश्चितम् ।। ७२ ।।
अहीनस्य च चत्वारिंशच्छिरस्क चतुश्शतम् ।
आहत्योहस्य सामानि दयधिकाष्ट शतोक्ताम् ।। ७३ ।।
सहस्रमिति निर्णीतं प्रसंख्याय यथामति ।
रहस्यस्यतु षट्पञ्चाशच्छिरस्क शतत्रयम् ।। ७४ ।।
प्रकृत्यूह रहस्यानां सामान्याहत्य संख्यया ।
एकाशीत्युत्तरोत् भासि षट्च्छताधिकमिष्यते || ७५ ।।
त्रिसहस्त्रं जैमिनीय शाखायां वेद वित्तमै:
साम लक्षण समाप्तः ।।
श्री जैमिन्याचार्याय नमः ॥
श्री तलवकार गुरवे नमः ॥