मातामहमहाशैलं महस्तदपितामहम् ।
कारणं जगतां वन्दे कण्ठादुपरि वारणम् ॥
ओं श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । सभ्यान्नमस्कृत्यानुशां कुर्यात् । ओन्नमस्सदसे सर्वेभ्यो ब्राह्मणेभ्यो नमः । सप्रथसभां मे गोपाय उपासताम् | ये अर्वाङ्तवा पुराणे - प्रीणाति । अनुशा । अशेषे हे परिषत् - स्वीकृत्य | - नक्षत्रे - राशौ जातस्य शर्मण : मम सकुटुम्बस्य जन्माभ्यासात् जम्मप्रभृति एतत् क्षणपर्यन्तं बाल्ये वयसि कौमारे यौवने वार्धके च जाग्रत्स्वप्नसुषुप्त्यवस्थासु कामक्रोधलोभमोहमदमात्सर्यादिभिर्मनोव्यापारैः, श्रवणसंपर्शन दर्शनरसनघ्राणनैः श्रोत्रत्वक्चक्षुः जिहानासिकाख्यज्ञानेन्द्रिय व्यापारैः वचनादानविहरणोत्सर्गानन्दनैः वाक्पाणिपाद पायूपस्थाण्य कर्मेन्द्रिवव्यापारश्च संभावितानां, ब्रह्महत्या सुरापानस्वर्णस्तेय गुरुतल्पगमनतत्संसर्गाख्यपञ्चमहापातकानां, गर्भहननगोवधशि वलिंगचालनादीनां अतिपातकानां, गुर्वधि-क्षेप-वेदनिंदा-नराश्व-रजत-भूमि वज्रमणि स्त्री-गो शतपल ताम्म्रनिक्षेपहरणादीनां समपातकानां, मातृपितृगुरुत्याग-तटाकारामविक्रय आत्मार्थपाकक्रियारम्भ-सदापरान्नभोजन-असच्छास्त्राभ्यास परवृत्तिच्छेदनादीनां उपपातकानां, खराश्व, उष्ट्र – मृग – इभ – अजावि – मीन - सर्प - महिषवधादीनां सङ्कली-करणानां, कृमि कीटपक्षिजलचरवध-फलकाष्ठ कुसुमस्तेया-दौनां मलिनीकरणानां, निन्दितधनादान – कुसीदजीवन - असत्य भाषणादीनां अपात्रीकरणानां, मद्याद्यनाघ्रेयपदार्थाघ्राण - जिह्मत्वादीनां जातिभ्रंशकराणां, नग्नस्नान - जनकादिएक - वचनान्तयुष्मच्छन्दप्रयोग - अस्नातभोजनादीनां प्रकीर्णकानां, एवं नवानां नवविधानां ज्ञानतः अज्ञानतश्च सकृत् असकृद्वा कृतानां सर्वेषां पापानां अपनोदनाथं,
मम सकुटुम्बस्य जन्मनक्षत्र नामनक्षत्र जन्मनामराशि - जम्मानुजन्मत्रिजन्म होराद्रेकाण नवांश द्वादशांश त्रिंशांश - पष्टवंश भावांश अष्टकवर्ग चक्रवशात् सांघातिक सामुदायिक - त्रह उपप्रह भावग्रह अरिष्टप्रह मारकप्रह कूरप्रह क्षान्तिप्रह - क्षणिकप्रह संयोगवीक्षण अर्धपाद दृष्टिलत्तावधवैनाशिक - प्रत्यरव्यय षड्वर्गजरूपदेहभावजवशात् धून रिफ्फारिष्ट अष्टम - मारक नीचस्थानस्थितानां मान्दिधूमकेत्वादि उपग्रहसहितानां आदित्यादीनां नवानां ग्रहाणां मध्ये ये ये दुस्थानाधिपत्य दुष्ट - प्रहयोगादिप्रयुक्तपापदुष्टाः, ये च निसर्गतः पापाः, तेषा - मानुकूल्यसिद्धयर्थं, शरीरवाक्कुटुम्बसुखबुद्धिकामायुर्भाग्य – धर्मकर्मायादिशुभस्था नस्थितानां निसर्गतः शुभराजयोगादि - फलप्रदानां शुभानां ग्रहाणां अत्यन्तातिशयितशुभफलप्रदातृ - त्वसिद्धयर्थ, प्रारब्धकर्मवशावश्यानुभाव्यतया प्राप्तानां परकृतक्रियमाणकरिष्य माणसकल मन्त्र तन्त्र यन्त्रविषचूर्णाभि - चारकृत्याऽअनादिप्रेरिताध्यात्मिकाधिभौत्तिकाधिदैविकतर्कि - तापत्प्रदव्याधीनां आत्मात्मीयपीडाचिन्तनदर्शनादिजनिता - धीनां च निवृत्तिद्वारा क्षिप्रारोग्यमनःप्रसादकुटुम्बवृद्धि – परमस्वास्थ्यादिसिद्धयथं,
श्रुतिस्मृतीतिहास पुराणप्रसिद्धानां किंजप्येनामृतत्वं ब्रही" ति मोक्षसाधनजप्यप्रक्षे" एतानि हवा अमृतस्य नाम- घेयानि, पतैईवा अमृतो भवति" इति प्राधान्येन मोक्ष- साधनत्वेन जाबालोपनिषत्प्रतिपादितानां "शतशाखागतं साक्षाच्छत रुद्रीय मुत्तमम् । तस्मात्तज्जपमात्रेण सर्वपापैः प्रमुच्यते ॥” इति स्कान्दान्तर्गत सूतसंहितावच नावगत सर्व- पापापनोदकत्वानां "एकशतं यजुःशाखाः, तासु रुद्रोपनिष- दाम्नायते " इति सर्वशाखाविराजमानत्वेन भट्टमास्करादिभिः संस्तुतानां पूर्वोकजाबालोपनिषद् प्रश्नप्रलिक्चनाम्यां मोक्ष- साधनजप्योपनिषदन्तरापेक्षया अत्यन्तोत्तमत्वेनावतान " तदा प्राह महादेवः राजानं प्रीतमानसः । इमानि मे रहस्यानि नामानि श्रृणु चानघ । सर्ववेदेषु गीतानि संसार- शमनाकि च । नमस्कुरुष्व सततमेभिर्नामपदैः शुचिः ॥ अध्याय शतरुद्रीय यजुषां सारमुत्तमम् । जयस्वानन्य चेतको मन्येवासकमावसः । ब्रह्मचारी मिताहारो ब्रह्मनिष्ठस्समाहितः । जपेदामरणाद्धं स याति परमां गतिम् ॥” इति सर्वसंसार- दुःखमोचकपरमशिव नामानि कुरुम्बा करम्बितत्वेन ताडशनमः- कारकरवितत्वेन च परमगतिप्राचकत्वादस्य रुद्राध्यायस्य न केवलं यजुस्सारत्वं अपि तु सर्ववेदोतमत्वमिति कर्म - पुराणोद्घोषितानां, "यः शतरुद्रीयधौते, स अग्निपूतो भवति, सुरापानात्पूतो भवति, ब्रह्महत्यायाः पूतो भवति, सुवर्ण स्तेयात्पूतो भवति, तस्मादविमुक्तमाश्रितो भवति, अत्याश्रमी सर्वदा सकृद्वा जपेत्, अनेन ज्ञानमाप्नोति संसारार्णवनाशनम्" ति कवल्योपनिषदि ब्रह्महत्यादिमहापातक - कृत्यवदा चरिता कृत्यादिसर्वपापनि बर्हणत्वेन, संसारार्णवनाशनात्मशानप्रधान साधनत्वेन च निर्दिष्टानां, "सर्गात्पुरा निरालोके यदेत निष्कलं परम् | चिदानन्दमयं ज्योतिरस आत्मा केवलः शिवः ॥ स एवादौ रजोरूपं सृष्ट्वा ब्रह्माणमात्मनः | सृष्टिकर्मनियुक्ताय तस्मै वेदांश्च दत्तवान् ॥ पुनश्च जगतामीश आत्मतत्वैकसंग्रहम् । सर्वोपनिषदां सारं रुद्राध्यायं च दत्तवान् । स एष मुनिभिः पूर्वौ मंरीव्यत्रिपुरोगमैः । सह देवैर्घृतस्लेभ्यः तच्छिण्या जगृहु : शतम् । एष वः परमो मन्त्रः एष वः परमं तपः । रुद्राध्याय जपः पुंसां परं कैवल्यसाधनम् | ये महापातकैर्युक्ता उपपात किनश्च ये | रुद्राध्यायजपात्सद्यः तेऽपि यान्ति परां गतिम् ॥” इति सृष्ट्यादौ श्रीपरमेश्वर मुखारविन्द निर्गतत्वेन, ब्रह्ममरीज्य त्रिप्रमुखमुनिवरपरं परागतत्वेन, परममन्त्रत्वेन, परमतपस्त्वेन, सर्वोपनिषत्सारत्वेन च ब्रह्मोत्तरखण्ड घण्टाघोषितानां, "रुद्राध्याये भुवं प्राप्ते साक्षात्कैवल्यसाधने । भीताः प्रदुद्रुवुः सर्वे ते वै पातकनायकाः ॥ यमे विज्ञापयामासुस्सह तैश्योपपात कैः । नरकस्य विवृद्धयर्थ साधिकारास्त्वया कृताः ॥ अधुनावर्तितुं लोके न शक्ताः स्म स्वयं प्रभो । रुद्रजाप्यप्रभावेन निर्दग्धाश्चैव विद्रुताः । प्रामे प्रामे नदीतीरे पुण्येष्वायतनेषु च । रुद्र जाप्येन पर्याप्त कथं परिचरेमंहि । प्रायश्चित्तसहस्रं वा गणयामो न किञ्चन ॥ रुद्रजाप्यं क्षणेनापि सोढुं शक्ता वयं न च । महापातक मुख्यानामस्माकं सोपजीविनाम् । रुद्र जाप्यं परं घोरं रुद्रजाप्यं महद्विषम् । "इति निखिलपातक प्रायश्चित्तत्वेन, स्वलोकपरिपूरणकामयमप्रेरितमहापातकोप पातकरूपकिङ्करपलायनात्मकपरि भवजनकत्वेन, यमभटासहा वेदनोत्पादकत्वेन, इतर निखिलप्रायश्चित्तादण्यत्युत्त मत्वेन च तत्रैव ब्रह्मोत्तरखण्डे उपवर्णीतानां,
“वेदमे कगुणं जप्त्वा तद्द्वैव विशुद्धयति । रुद्रैकादशिनीं जप्त्वा तत्क्षणादेव शुद्धयति । वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा । शिवे रुद्रजपात् प्रीते प्रीता एवास्य देवताः । अतो रुद्रजपादेव भुक्तिमुक्ती प्रसिद्धयतः । "इति सूतसंहिता वचनेन, "शतरुद्रानं जपेद्यस्तु ध्यायमानो महेश्वरम् । यश्च सागर पर्यन्तां सशैलवनकाननाम् । दद्यात्काञ्चनसंयुक्तां भूमि मोषधिसंयुताम् । तस्मादण्यधिकं तस्य सदुद्रजपाद्भवेत्" । इत्यादि शैवपुराणवचनेन, "सर्वोपनिषदां सारो रुद्राध्यायः समर्थितः । भोगार्थिनो मुमुक्षोर्वा प्रायश्चित्तार्थितोपि वा । रुद्रोपनिषदं मुक्त्वा गतिरन्या न विद्यते ॥ प्रयतः प्रातरुत्थाय यदधीते विशांपते । प्राञ्जलिः शतरुद्रीय नास्य किञ्चन दुर्लभम् ।" इत्यादि महाभारतवचनेन च सर्वकिल्बिषमोचकत्वेन, जपक्षण एव शुद्धिजनकत्वेन, समस्तदेवताप्रीति निष्पादकत्वेन, भुक्तिमुक्तिप्रसाधकत्वेन, अखण्ड भूमण्डलदान पुण्याधिकपुण्यप्रदत्वेन, दुर्लभसमस्तवस्तुप्रापकत्वेन च निर्णीतानां, आदितो नमस्कारान्तन्तोनमस्कार उभयतो नमस्काररूप एकोनसप्तत्युत्तरशत संख्याक महामन्त्रात्मकानं,
आपस्तम्बसूत्रकारपठितवशसंयुक्तकल्पेषु महानिचयनाङ्ग होमे विनियुक्ता नामपि जाबाल मान्धात शौनक सायणाचार्य वसिष्ठ याज्ञवल्क्याव्यङ्गिरः प्रमुखैर्विरचितेषु अयशसंयुक्तकल्पे ध्वपि धर्मार्थकाममोक्षादिसमस्तैहिका मुष्मिक पुरुषार्थसाधकत्वेन प्रख्यापितानां, महाभारतस्कान्दवाय्वादिमहापुराणेषु पुत्रपशुविद्यैश्वयंप्रदस्वेन मुहुर्मुहुरुद्घोषितानां तैत्तिरीयकृष्ण वजुर्वेदशास्त्रामध्यमता ग्निकाण्डमध्यवर्तिनां चतुर्वेदसारभूतानां श्रीमत्पञ्चाक्षर महामन्त्रगर्भितानां श्रीरुद्रमन्त्राणां
त्रेधाविभागद्वय, षोढाविभाग, षोडशधाविभाग, अष्टा चत्वारिंशद्धाविभाग, एकोनससत्यधिकशतधा विभागात्मकेषु पक्षेषु अष्टाचत्वारिंशद्धाविभागपक्षमाश्रित्य दशांश होमविधा नेन एभिर्ब्राह्मणैस्सहाचार्यमुखेन महार्णवोक्तरीत्या प्राध्यो दोच्याङ्ग गोदान नान्दीश्राद्ध वैष्णवश्राद्ध दशदानादिमिः सह वसोर्धारासहित श्रीरुद्रैकादशिन्याख्य मङ्गलप्रद महाप्रायश्चित्त कर्म कर्तुं योग्यतासिद्धिमनुग्रहाण ॥
विघ्नेश्वरपूजां कृत्वा – शुभे शोभने - श्रीरुद्रकादशि न्याख्य महाप्रायश्चित्तं करिष्ये इति अनुशावत् संकल्प्य; विघ्नेश्वरमुद्रास्य; ग्रहप्रीतिं कृत्वा: सर्वोपकरणशुद्धथथे पुण्याहं वाचयित्वा, प्राच्याङ्गगोदानं कुर्यात् । गां वत्सं च पूजयित्वा ब्राह्मणं संपूज्य, हिरण्यगर्भमर्भस्थं - प्रयच मे, “यशसाधनभूता या विश्वस्याघप्रणाशिनी । विश्वरूपधरो देव : प्रीयतामनया गवा ॥ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । तस्माद्स्याः प्रदानेन अतः शातिं प्रयच्छ मे ॥ मया करिष्यमाणस्य रुद्रकादशिम्याख्य महाप्रायश्चित्तकर्मणः पूर्वाङ्ग तथा इमां गां सवत्सां सदक्षिणाकां सताम्बूलां आदित्यात्मक श्रीरुद्रप्रीति कामयमानः श्रीरुद्रस्वरूपाय ब्राह्मणाय तुभ्यमहं सम्प्रददे । नमः न मम; इति गां दत्वा,
नान्दीश्राद्धं कुर्यात् । अद्य पूर्वोक्त – शुभतिथौ श्री- । परमेश्वरप्रीत्यर्थे मया संकल्पितरुद्रैकादशिन्याख्य महाप्राय- श्चित्तकर्माङ्गं पितॄणामक्षय्यतृप्त्यर्थं आभ्युदयिकं हिरण्यरूपे- णाद्य करिष्ये । तदङ्गं स्वस्तिपुण्याहवाचनं च करिष्ये । नान्दी- श्राद्धमामरूपेण हिरण्यरूपेण वा कुर्यात् ।
अथ वैष्णवश्राद्धम् । "विष्णूदेशेन त्रिभ्योधिकान् युग्मान् ब्राह्मणान् भोजयेत् । भोजनासंभवे भोजनपर्याप्तिमाम- मात्र हिरण्यं वा दद्यात् " इति महार्णवे । हिरण्यगर्भ प्रयच्छ मे - मया संकल्पितरुद्रैकादशिन्य ख्य महाप्रायश्चित्त- फर्मणः प्राच्याङ्गत्वेन विहिते अस्मिन् वैष्णवश्राद्धे केशवादीनां द्वादशानां विष्णूनां प्रीत्यर्थं इमानि हिरण्यानि नानागोत्रेभ्यः ब्राह्मणेभ्यः सम्प्रददे - कृष्णपक्षे संकर्षणादीनामिति वक्तव्यम् । शुक्लपक्षे केशवादीनामिति ।
अथाचार्य ऋत्विजश्च वृणुयात् । एकादश रुद्रप्रतिमा पूजार्थं एकादश ऋत्विजः, साम्बशिवपञ्चायतन पूजार्थ एकं ऋत्विजं आहत्य द्वादश ऋत्विजो वृणुयात् । एकादशरुद्राणी सहितैकादशरुद्राणां नामानि: -
धीर्वृत्तिरुशनोमा च नियुत्सर्पिरिलांबिका ।
इरावतीसुधादीक्षा रुद्राण्यो रुद्रवल्लभाः ॥
महादेवरिशवो रुद्रश्शङ्करो नीललोहितः ।
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥
आदित्यात्मकरुद्रश्च रुद्रा एकादश स्मृताः ।
1) धीदेव्याख्यरुद्राणीसमेत महादेवरुद्रप्रतिमापूजा -
जपहोम कर्मणि ऋत्विजं त्वां वृणे ।
2) वृत्तिदेव्याख्यरुद्राणीसमेतशिवरुद्रप्रतिमा …. वृणे ।
3) उशनादेव्याख्यरुद्राणीसमेत महारुद्रप्रतिमा ... वृणे ।
4) उमादेव्याख्यरुद्राणीसमेतशङ्कररुद्रप्रतिमा... वृणे ।
5) नियुद्देव्याख्यरुद्राणी समेतनीललोहितरुद्र प्रतिमा... वृणे ।
6) सर्पिर्देव्याख्यरुद्राणी समेतेशान रुद्रप्रतिमा ... वृणे ।
7) इलादेव्याख्यरुद्राणीसमेत्तचिजयरुद्रप्रतिमा…. वृणे ।
8) अम्बिकादेव्याख्यरुद्राणीसमेत भीमरुद्रप्रतिमा वृणे ।
9) इरावतीदेव्याख्यरुद्राणीसमेत देव देवरुद्रप्रतिमा.... वृणे ।
10) सुधादेव्याख्यरुद्राणीसमेतभवोद्भव रुद्रप्रतिमा वृणे ।
11) दीक्षादेव्याख्यरुद्राणीसमेतादित्यात्मक रुद्रप्रतिमा.... वृणे ।
12) श्रीसाम्बशिवपञ्चायतनपूजाकर्मणि हवने च ऋत्विजं त्वां … वृणे ॥
सर्वेभ्यो ब्राह्मणेभ्यो नमः । "सर्वे स्वकर्मकुशलाः सर्वे श्रीरुद्ररूपिणः । सश्रद्धं कर्म निर्वर्त्य कृतार्थं कुरुतादरात् ॥" इति ऋत्विजः संप्रार्थ्य संभारानाहरेत् ।
विनष्टश्रीपुनःप्राप्तिहेतुचितरङ्गवल्लीसमलंकृतं, विधि- विधानातिक्रमस ञ्जातकोपपरिवार देवताप्रसादक कदलीस्तम्भो- भयसंवृतं, त्वगस्थिरो मरुधिरादिगतसकल रोगाभिशामंक- क्रमुकपूगपरिबृंहितं चिन्तितैहिकामुष्मिक फलप्रापक नारिकेल- फलपरिकर्मितं, भूम्यादिवरभूतवेतलादिपीडानिवार कवितान- शोभितं, मनुष्यतिर्यगाद्याधिपत्यप्रापकविचित्र वेदिकास मल- कृतं मनृपं निर्माय तन्मध्ये गोचर्ममात्रं भारद्वयत्रीहौन्, तदुपरि तदर्धतण्डुलान्, प्रस्थद्वयमाषान् पादप्रस्थतिलांच निक्षिप्य, "ब्रह्मजज्ञान" मित्यादिमन्त्रैः प्रागुत्तरापवर्ग तिस्र- स्तिस्रो रेखा विलिख्य, प्रागग्रान् दर्भानास्तीर्य, कलशानव्रणान् तन्तुवेष्टितान् प्राच्यां श्रीन् प्रतीच्यां त्रीन्, अवाच्यां द्वौ उदीच्यां द्वौ, मध्ये एकमिति क्रमेण स्थापयित्वा गन्ध- कुङ्कुमाक्षतपुष्पवस्त्रादिभिरलंकृत्य, " ब्रह्मजज्ञानं ", देवीः", "आपो वै " प्रणयति" इत्यादिमन्त्रैः अद्भिः कलाशान् पूरयित्वा, "इमम्मे गङ्गे - अर्णवः " इत्यभिमन्त्रय, " देवोवस्सविता " इत्युत्पूय, "सहि रत्नानी " ति रत्न निधाय, कूर्चा: 'वृक्षराज - "नारिकेल -" इति सूक्तवाक्यैः पञ्चत्वक पञ्चपल्लवकूर्च (उदशिख) नारिकेलांश्च निधाय, सर्वेषु कलशेषु वरुणमावाह्य, षोडशोपचारैस्सपूज्य, ऋत्विग्भिरसद मद्दाभ्यासजपं कुर्यात् ।
अथ प्रतिमापूजा । कलशशङ्कपीठपूजाः कृत्वा प्रतिमासु देवता आवाह्य आसनाचुपचारैः पूजयेत् ।
ध्यानश्लोकाः -
1) अप्राकृतशरीरं तमतिमन्मथ सुन्दरम् ।
धृतरीतिघनीभूतसच्चिदानन्दविग्रहम् ॥
2) सर्व लक्षणसंपनं सर्वावयवशोभनम् ।
सर्वातिशयसंयुक्तं सर्वा भरणभूषितम् ॥
3) शुद्धस्फटिकभाशुभ्रं तटिलिङ्गजटा घरम् ।
द्रत्नमकुटं सौम्यं चन्द्रशेखरमीश्वरम् ॥
4) कुन्दमन्दस्मित - स्मेरपञ्चवक्त्रं महेश्वरम् ।
प्रतिवक्त्रस्फुटनेत्रत्रयं दशभुजं शिवम् ॥
5) रत्नकुण्डलभृत्कर्ण कण्ठकालिमभूषणम् ।
दक्षिणे शूलवज्रादिपरश्वभयमुद्रिकाः ॥
6) घामके दधतं नागपाशघण्टानलांकुशान् ।
दिव्यगोरोचनागन्धमाल्यहार घरांबरम् ॥
7) वन्दारुसर्वश्रीदानकल्पवृक्षमुमापतिम् |
पद्मासनस्थं पार्श्वस्थनन्दनं चिन्तयेद्विभुम् ॥
8) ध्यायेन्निरा मयं वस्तु सृष्टिस्थितिलयाधिपम् ।
निर्गुण निष्कलं शान्त मनोवाचा मगोचरम् ॥
9) शुद्धस्फटिकसंकाशं जटामकुट
शोभितम् । श्वेतभूतित्रिपुण्ड्रेण ललाटेन विराजितम् ॥
10) व्याघ्रचर्मपरीताङ्गं नागाभरणभूषितम् ।
गङ्गाधरं दश भुजं त्रिणेत्रं पञ्चवक्त्रकम् ॥
11) अङ्का धिरोपितस्कन्धहेरम्ब वृषवाहनम् ।
वामाने संस्थितां गौरी सर्वाभरणभूषिताम् ॥
12) सुवर्णरत्नखचितमकुटेन विराजिताम् । ललाटपट्ट
संराजत्संलग्नतिलकाञ्चिताम् ॥
13) राजीवायतनेलां तां ताटङ्काभरणोज्वलाम् ।
ताम्बूलचर्वणरतां रक्तजिह्वाविरा जिताम् ॥
14) शुद्धमौक्तिकसच्छाय द्विजपंक्तिविराजिताम् ।
मुखदर्पणवृत्ताभदुकां पाटलाधराम् ॥
15) पताकाभरणो पेतां मुक्ताहारोपशोभिताम् ।
रत्नकङ्कण के यूर विलसत्कर शोभिताम् ॥
16) कौसुम्भवस्त्रसंराजत्ररत्नकाञ्चीविराजि ताम् ।
कदलीललितस्तम्भसन्निभोरुद्वयान्विताम् ॥
17) श्रिया विराजितपदां भक्तताणपरायणाम् ।
भास्वदुत्पलपत्राभां नीलकुञ्चितमूर्धजाम् ॥
18) मल्लिकामालतीदिव्यपुष्पमंजुल कुन्तलाम् ।
रत्नकोटीरभादीप्तां फालचन्द्रविशेषिकाम् ॥
19) सलीलञ्जदलश्रीभृन्नासाकल्पस्फुरन्मुखोम् ।
रत्नताटङ्क कर्णान्तनेत्रां बिम्बरदच्छदाम् ॥
20) रत्नत्रैवेयहारथीकट काङ्गदमेखलाम् ।
अतिवृत्तधनोत्तुङ्गस्निग्धपीनपयोधराम् ॥
21) तनुमध्यां पृथुश्रोर्णी पीतसूक्ष्मतरांबराम् ।
दक्षपाणि लसत्स्वर्णपझलीलायुकप्रियाम् ॥
22) दण्डवम्भ्यस्तवामश्री पाणिरम्यां शिवप्रियाम् ।
स्निग्धरम्भोरुकां कामतूणीरजय जङ्किकाम् ॥
23) शिवसिझासनासीनां हंसकाढयपदाम्बु जाम् ।
सर्वतोनुगुणाकारां किञ्चिल्लजानताननाम् ॥
24) पाश विच्छेदिनीं साक्षात्सच्चिदानन्दरूपिणीम् ।
सदाशिवपतत्नीन्द्र बाहदुणिमातरम् ॥
25) समस्तगौरीलक्ष्म्यादिशक्तिचक्रस्य नायिकाम् ।
अन्योन्याश्लिष्टहृद्द्बाहु गौरीशङ्करसंशितम् ॥
इति प्रतिमासु तत्तद्देवतां ध्यायेत् ॥ अथ प्राणप्रतिष्ठां कुर्यात् ।
1) अथावाहनम् "त्र्यम्बकं यजामहे - अमृतात्", "गौरीमिमाय व्योमन्", नमस्ते रुद्रमन्यवे - नमः", "औं ह्रीं नमश्शिवाय,", "सद्योजातं प्रपद्यामि ओं भूर्भुवस्सुवरों, अस्यां प्रतिमायां तत्तद्देवता आवाहयामि । इत्यावाह्य । "आवाहितो भव " इत्यादि निवेदनान्तं कुर्यात् ।
2) आसनम् - मुक्तावैडूर्य खचितं जाम्बूनदपरिष्कृतम् । सिंहासनं मया दत्तं अस्मिन् साम्ब स्थिरो भव ॥ "यात इषुश्शिवतमा शिवं मृडय ", औं ह्रीं नमश्शिवाय, " सद्यो
जाताय वै नमो नमः", आसनं समर्पयामि ।
3) पाद्यम् - कैलासवासिन् देवेश सदाशिव नमोऽस्तु ते । पाद्यं गृहाण भगवन् भक्त्या दत्तं मया प्रभो ॥ "याते रुद्र शिवा अभिचाकशीहि ", ओं ह्रीं नमश्शिवाय, "भवे भवे नातिभवे भवस्व मां" पाद्यं समर्पयामि ।
4) अर्ध्यम् – कैलासशिखरे रम्ये मण्टपेऽखिलदैवतैः । सुपूजित गृहाणा भक्त्या दत्तं मया प्रभो ॥ "यामिषुं गिरिशन्त हस्ते. - जगत् ", ओं ह्रीं नमश्शिवाय," भवोद्भवाय नमः" अध्यं समर्पबामि ।
5) आचमनीयम् - नमस्तुभ्यं त्रिनेत्राय सृष्टिस्थित्यन्त कारिणे । गृहाणाचमनीयं ते मया दत्तं कृपानिधे ॥ "शिवेन वचसा त्वा असत् ", ओं ह्रीं नमः शिवाय, "वामदेवाय नमः, आचमनीयं समर्पयामि ।
6) मधुपर्क - दधिक्षीरफलैर्युक्तं मध्वाज्येन समन्वि - तम् । मधुपर्क गृहाणेमं मया दतं शिव प्रभो ॥ "अध्यवोच दधिवक्ता यातुधान्यः", औं ह्रीं नमः शिवाय, "ज्येष्ठाय नमः" मधुपर्क समर्पयामि ।
(पञ्चगव्यम्- पञ्चगव्याभिषेकं ते करिष्यामि गवां पते । अङ्गीकुरुष्वाम्बया त्वं तेनाहमभिषेचये ॥ पञ्चगव्यं समर्प यामि । पञ्चामृतं महादेव शर्करासहितं प्रभो । गृहाण पार्वतीनाथ मया दत्तं शिवप्रद ॥ पञ्चामृतं समर्पयामि । शुद्धैर्गोद कैर्दिव्यैस्तीर्थानीतैस्सुशीतलैः । अभिषेकं करिष्यामि अभिषेकप्रियाव्यय ॥ गङ्गोदकस्नानं समर्पयामि । कटुली पनसद्राक्षाचूतमुख्यफलादिभिः । अभिषिञ्चामि देवेश तुष्टो भव फलप्रद ॥ फलाभिषेकं समर्पयामि । गोघृतक्षीरदधिभि
रिक्षुमाक्षिकपञ्चकैः । अभिषिञ्चामि गौरीश प्रीतो भव शिवायुत ॥ क्षीराभिषेकं समर्पयामि ।)
7) स्नानम् - बालेन्दुशोभितजटतीर्थरूप चिदात्मक । पाहि मां कृपया साम्ब सदाशिववपुर्धर ॥ "असौ यस्ताम्रः ईमहे ", ओं ह्रीं नमः शिवाय, "श्रेष्ठाय नमः" स्नानं समर्पयामि । स्नानानन्तरं आचमनीयं समर्पयामि ।
8) वस्त्रम् - दुकूलयुगलं स्वच्छं स्वर्णतन्तुविनिर्मितम् । दिगम्बर स्वपैयामि गृहाण परया मुद्रा ॥ "असौ यो वसर्पति - मृडयाति नः", ओं ह्रीं नमः शिवाय, "रुद्राय नमः", वस्त्रं समर्पयामि ।
9) उपवीतम् - काञ्चनं ब्रह्मसूत्रं च राजतं चोपवीत कम् । तन्तुना निर्मितं चापि उपवीतं गृहाण भोः ॥ "नमो अस्तु नीलग्रीवाय नमः"औं ह्रीं नमः शिवाय, "कालया नमः"
उपवीतं समर्पयामि ।
10) गन्धः - श्रीगन्धं कुङ्कुमैर्मिश्रं कर्पूरेण मनोहरम् । अन्यैरसुगन्धिभिर्युक्तं संगृहाण महेश्वर ॥ । "प्रमुञ्च धन्वनस्त्वं भगवो वप ", ओं ह्रीं नमः शिवाय, "कलविकरणाय नमः" गन्धान्धारयामि ।
अक्षतान् धवलान् दिव्यान् शालेयांस्तिलतण्डुलान् । अष्टमूर्ते महादेव मया दत्तान् गृहाण भोः ॥ अक्षतान् समर्प यामि । केयूरकटकाद्यैश्च कटिसूत्रांगुलीयकैः । नूपुरैः पाद योश्चैव गृहाणाभरणानि भो ॥ आभरणं समर्पयामि ।
11) पुष्पमाला - माल्यानि च सुगन्धीनि नीलोत्पल कृतानि च । मयाऽऽहृतानि पुष्पाणि स्वीकुरुष्व दयानिधे ॥ "अवतत्यधनुः भव", ओं ह्रीं नमः शिवाय, "बलवि
करणाय नमः", पुष्पमालां समर्पयामि ।
अथाङ्गपूजा -
ओं हराय नमः - पादौ पूजयामि
ओ शङ्कराय नमः - गुल्फौ पूजयामि
ओ शम्भवे नमः - जंघे पूजयामि
ओं शिवाय नमः - जानुनी पूजयामि
ओं अनघाय नमः - ऊरू पूजयामि
ओं प्रजापतये नमः - गुह्यं पूजयामि
ओं हिरण्यरेतसे नमः - कटिं पूजयामि
ओं विश्वगर्भाय नमः - नाभिं पूजयामि
ओं जगत्कुक्षये नमः - कुक्षि पूजयामि
ओ विशालाय नमः - उरः पूजयामि
ओं परमात्मने नमः - हृदयं पूजयामि
ओ दीर्घबाहवे नमः - बाहून पूजयामि
ओं नीलकण्ठाय नमः - कण्ठं पूजयामि
ओं नागाभरणाय नमः - कर्णौ पूजयामि
ओं त्रिपुरसंहर्त्रे नमः - मुखं पूजयामि
ओं इन्द्वग्निनेत्राय नमः - नेत्राणि पूजयामि
ओं विशालफालाय नमः - ललाटं पूजयामि
ओ जटाधराय नमः - शिरः पूजयाम्रि.
ओं महादेवाय नमः - सर्वाण्यङ्गानि पूजयामि ।
12) धूपः - दशाश्व पटीरैश्च एलागुग्गुलुभिर्युतः । कालागरुयुतो देव धूपोऽयं प्रतिगृह्यताम् ॥ "विज्यं धनुः - निषङ्गथि:", ओं ह्रीं नमः शिवाय, बलाय नमः" धूप माघ्रापयामि । आचमनीयं समर्पयामि ।
13) दीपः - सच्चिदानन्दरूपाय चित्परंज्योतिषे नमः । बालाप्रमात्र हृद्दीपस्वरूपाय नमो नमः ॥ "यातेहेतिः परिब्भुज": ओं ह्रीं नमः शिवाय, बलप्रमथनाय नमः" दीपं दर्शयामि । आचमनीयं समर्पयामि |
14) नैवेद्यम् - षड्लैश्च समायुक्तं नानाभक्ष्यससम्वि तम् । नैवेद्यं ते मया दतं गृहाण परमेश्वर. "नमस्ते अस्त्वायुधाय - धन्वने", ओं ह्रीं नमः शिवाय, "सर्वभूत दमनाय नमः", नैवेद्यं समर्पयामि | आचमनीय समर्पयामि ।
15) ताम्बूलम् - पूगीफलैस्स कर्पूरैर्नागवल्लीदलैर्युतम् । एला चूर्णयुतं देव ताम्बूलं प्रतिगृह्यताम् || "परिते धन्वने निधेहितम्", ओं ह्रीं नमः शिवाय, "मनोन्मनाय नमः" कर्पूरताम्बूलं समर्पयामि ।
16) नीराजनम् – नीराजनं महादेव कोटिसूर्यप्रकाशक । अहं भक्त्या प्रदास्यामि स्वीकुरुष्व दयानिधे ॥ "नमस्ते अस्तु - श्रीमन्महादेवाय नमः", ओं ह्रीं नमः शिवाय,
"सोमो वा एतस्य" कर्पूरनीराजनं दर्शयामि । "भवाय देवाय नमः "इत्यादिभिः "महतो देवस्य पत्न्यै नमः" इत्यन्तैः अर्चनं कुर्यात् । भवं देवं तर्पयामीत्यादि महतो देवस्य पत्नीं तर्पयामीत्यन्तं तर्पणं कुर्यात् । अनन्तरं यजमानेन ऋत्विग्भिश्च सह आचार्य : "शिवाय नमः" इत्याद्यष्टोत्तरशतनामभिः, रुद्रमन्त्रत्रिशत्या च बिल्वपत्रादिभिरभ्यर्य, "द्वापे अन्ध स्पते" इत्यनुवाकेन सानुषङ्गैः त्रयोदशनम स्कारान् कुर्यात् । अथ यजमानः अग्ना विष्णू इत्यादिभिरेकादशभिरनुवाकैः उपस्थाय "अधोरेभ्यः", "तत्पुरुषाय", "ईशानः" इत्यनु - वाकत्रयं जपेत् । अनन्तरं प्रार्थनां कुर्यात् । मया पापानि यानीह कृतानि परमेश्वर | परिहार्य दयासिन्धो रक्ष मां त्वत्प्रदक्षिणात् ॥ ज्ञानतोऽज्ञानतो वापि कृतान्येनांसि शङ्कर । मया तान्यधुनेशान नाशय त्वत्प्रदक्षिणान् ॥ इति प्रदक्षिण कृत्वा, यस्याज्ञया जगत्स्रष्टा विरिञ्चिः पालको हरिः । सहर्ता कालरुद्राख्यः नमस्तस्मै पिनाकिने ॥ सर्वदेवसमाराध्य सर्व देवाभिवन्दित । नमामि गवतीशं त्वां भूयो भूयो नमाम्यहम् ॥ इति नमस्कृत्य, सर्वज्ञ करुणासिन्धो सर्वसंपत्प्रदायक । देहि मे परमेशान ममाभीष्टं महाप्रभो ॥ भवसागर मनानां सन्तारण विचक्षण । भुक्ताभीष्टप्रदाशेषजगत्कारण शङ्कर ॥ सम्यग्पूजा विधानेन त्वामुद्दिश्य कृतेन मे । तुष्टो भूत्वाद्य संसारसागरान्मां समुद्धर ॥ यशो देहि श्रियं देहि मुक्किं देहि दयानिधे । आयुरारोग्यमखिलं विभवं देहि मे प्रभो ॥ आरोग्यं पार्वती नाथ बलं सौभाग्यमेव च । देहि भक्तिं त्वयीशान सर्वाभीष्ट च देहि मे ॥ निरामयमुमाकान्त निराबाधं निरन्तरम् । कृत्वा विवेकमधुना देहि मे करुणानिधे ॥ इह भोगान् समस्तांश्च दत्वान्ते मोक्षदो भव । मृत्युञ्जयाय रुद्राय नीलकण्ठाय शंभवे ॥ अमृतेशाय साम्बाय महादेवाय ते नमः । सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते । अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व करुणानिधे ॥ इनि संप्रार्थ्य, अनन्तरं ऋग्विग्भिस्सह श्रीरुद्र प्रश्न मेकादशवारमावर्तयेत् ।
अध्यप्रदानश्लोकाः
1) आदित्यात्मक संदेश जगत्प्रेरक धूर्जटे ।
गृहाणा मया दत्तं दीक्षांदेव्या सह प्रभो ॥
दीक्षादेवीसहितादित्यात्मक रुद्राय नमः इदमध्य॑म् ।
2) महादेव महानन्द धीदेव्यासहितानघ ।
इदमध्ये प्रदास्यामि सर्वशपापनुत्तये ॥
धीदेवीसमेत महादेवरुद्राय नमः इदमध्यम् ।
3) शिवाय परिपूर्णाय सर्वरोगनिवृत्तये ।
वृत्तिदेवीसमेताय तुभ्यमध्यं ददाम्यहम् ॥
वृत्तिदेवीसमेतशिवरुद्राय नमः इद मर्थ्यम् ।
4) रुद्राय च नमस्तुभ्यमुशनापतये नमः ।
प्रती दार्घ्यं प्रदास्यामि सर्वशत्रुनिवृत्तये ॥
उशना देवीसमेत महादेव रुद्राय नमः इदमर्ध्यम् ।
5) शङ्कराय नमस्तुभ्यं उमादेवी युताय च ।
दुदाम्ययं प्रसादाय व्याधिपीडानिवृत्तये ॥
उमा देवीसमेतशङ्कररुद्राय नमः इदमर्थ्यम् ।
6) नीललोहित विश्वेश नियुद्देवीयुतप्रभो ।
इदमयं गृहाण त्वं दुष्टग्रहनिवृत्तये ॥
नियुद्देवीसमेतनीललोहिताय नमः इदमर्थ्यम् ।
7) ईशान सर्वविद्यानां सर्पिर्देवीपते प्रभो ।
गृहाणार्ध्य नमस्तेऽस्तु सर्व विद्याफलप्रद ॥
सर्पिर्देवीसमेतेशानाय नमः इदमर्ध्यम् ।
8) विजयाय नमस्तुभ्यं विश्वेशेलापते विभो ।
मया दत्तं गृहाणायं सर्वकामसमृद्धये ॥
इलादेवीसमेत विजय रुद्राय नमः इदमर्थ्यम् ।
9) भीमरूपाय पापानां अभीमाय महात्मनाम् ।
अम्बिकापतये तुभ्यं ददद्भ्यर्ध्य भयशान्तये ॥
अम्बिकादेवी समेतभीमाय नमः इदमर्थ्यम् ।
10) देवदेव महादेव प्रपन्नार्ति हराव्यय ।
इरावतीप्राणनाथ ददेऽयं पुत्रवृद्धये ॥
इरावतीदेवी समेतदेवदेवाय नमः इदमर्ध्यम् ।
11) भवोद्भव नमस्तेऽस्तु सुधयासहितानघ ।
भक्त्याहं प्रददाम्यर्घ्यं सदा मङ्गलभावन ॥
सुधादेवीसमेतभवोद्भवाय नमः इदमर्थ्यम् ।
12) बाण रावणचण्ड द्यैः साम्नोद्गीत नमोऽस्तु ते ।
कात्यायनीपते तुभ्यं ददाम्ययं गृहाण भोः ॥
सामगानप्रियसाम्बशिवाय नम बृहमध्यम् ॥
प्रथमवाररुद्रजपान्ते अद्यपूर्वोक - शुभतिथौ – कर्मणि प्रथमवाररुद्र जपान्ते अर्ध्यप्रदानं फलदानं च करिष्ये इति संकल्प्य, अध्यं फलदानं च कृत्वा, अनेन प्रथमवाररुद्र ज़पेनार्ध्यप्रदानेन च आदित्यात्मकश्रीरुद्रः प्रीयताम् । एवं सर्वास्वप्यावृत्तिषु कुर्यात् ॥
अथ होमविधिः
अथाचार्य कुम्मानां ईशान दिग्भागे यथाशास्त्रं कुण्ड निर्माय स्थण्डिलं वा परिकल्प्य उल्लेखनादि, स्वगृह्योक्त विधिना मुखान्तं कृत्वा तस्मिनन्झौ आदित्यात्मक रुद्रमाबाह्य "नमस्ते रुद्रमन्यवे" इत्यादिभिः मन्त्रैः पर्ववत्पूजां कुर्यात् । अथ चरु अपयित्वा, "अभिधार्य" इत्यादि कृत्वा, अवदानधर्मेणावदाय "असौ यस्ताघ्र "इति पुरोनुवाक्यामनुष्य, "असौ योष - संपति" इति याज्यया जुहोति । आदित्यात्मकरुद्रायेदं न मम इति त्यागः । अथ ऋस्विग्भिस्सह वृक्ष्यमाणप्रकारेणाज्याहुतीः जुहुयात् ।
अष्टाचत्वारिंशद्धा विभागपक्षः
"नमस्ते रुद्रप्रन्यव" इति प्रथमानुवाकगतपञ्चदशमि ऋमि पञ्चदशाहुतयः । (15)
"नमो हिरण्यबाहवे" इत्यादिभिरष्टमिनुवाक : अष्ट हुतयः । (8)
"द्रापे अन्धसस्पते" इत्यनुवाकगतद्वादशमिः ऋग्भिः द्वादशाहुतयः । (12)
"सहस्राणी" त्यनुवाकगत त्रयोदश मिः मन्त्रैः प्रयोदशा हुतयः । (13)
आइत्याष्टाचत्वारिंशदाहुतयः ।
अथाचार्य: "मस्ते रुद्रमन्यवै" इत्याद्यया ऋचा "नमो रुद्रेभ्यः ये दिवि" इत्यन्तिमैन यजुषा च द्वे आहुती जुहुयात् । "अन्नाविष्णू" इत्यादि चमकप्रश्ने प्रत्यनुवाक मेकैका माहुति जुहुयात् । अग्नाविष्णुभ्यामिदं न मम ॥
ततो वसोर्धारा - अथाचार्य एव वसोर्धारी जुहुयात् । "अग्नाविष्णू" इत्याद्यया ऋचा चतुगृहीतेन हुत्वा, पात्र प्रयोगकाले सादितामौदुम्ब दीर्घा सुचं अगौ प्रतितथ्य दर्भेस्समृज्य, पुनः प्रतितव्य, प्रोक्ष्य, निधाय, दर्भानद्भिः संस्पृश्य, मसौ प्रहृत्य, तामेव सत्रमादाय, तस्यामाज्यं निनीय तिष्ठन् उरस्समधारयन् अविच्छित्रया आज्यधारया" "वाजका मे" इत्यारभ्य, "भुषनवाधिपतिश्च स्वाहा" अत्यन्त पटन बसोधरां जुहुयात् । अग्नाधिष्णुभ्यामिदं न मम । वसोधन काले सामगाः वैष्णव- रौद्र रेन्द्र से श्वानर ज्येंद्रलाम. नि गायेयुः । आचार्याय गां दक्षिण व दद्यात् । अथावार्थः स्विटकृज्जया दिकं समाप्य "मानो महान्तं","मानस्तीक" इति द्वाभ्यां बलिं दत्वा अग्युपस्थानं कुर्यात् । ऋम्बिंग्मिरसह पुनःपूजां कृत्या, देवता उदास्य, वैदिकमः त्रैः यजमानं सपरिवार प्रोक्ष्य मन्त्रोदक प्राशयेत् ।
अथ यजमान आज्यावलोकनं निरीक्षिताज्यदामं च कुर्यात् । तत आचर्येण त्र.त्विग्मियामिपिको व्यजमानः शुक्रवत्र पुण्ड्रा विधारणं कृत्वा आईवस्त्र शनं कलश वस्त्र प्रतिमा दानं उत्तराङ्गगोदान, वैष्णवश्राद्ध, पञ्चदान, दशान भूरिदान फलहान दिकं च यथाशक्ति कुर्यात् । आचार्याय गोमिथुनं दत्वां, आशित्रो वाचयित्वा, ब्राह्मगान् भोजयित्वा बन्धुभि रिट्रादिभिश्व सह स्वयं भुखोत ॥ एवं कृते सर्वारिषशान्तिः भवति । सर्वान् कामानवाप्नोति । सर्वेभ्यः पापेभ्यः विमुच्यते ॥
इति श्रीरु काशिनी प्रयोगः समाप्तः ॥
"सहस्र णि सहस्रशः" इत्यनुवाकेन त्रयोदश नमस्काराः कार्या इत्युक्तम् । अयमन्त्र विभागप्रकारः -
1) सहस्राणि – भूम्यां । तेषां - तन्मसि ।
2) अस्मिन्महत्यर्णवे … …. … ।
3) नीलग्रीवाश्शितिकण्ठाः … …. … ।
4) नीलग्रीवाः शितिकण्ठा दिवम् … …. … ।
5) यें वृक्षेषु सस्पिञ्जरा … …. … ।
6) ये भूतानामधिपतय … …. … ।
7) ये अन्नेषु विविध्यन्ति … …. … ।
8) ये पथां पथिरक्षय … …. … ।
9) ये तीर्थानि प्रचरन्ति … …. … ।
10) य एतावन्तश्च … …. … ।
11) नमो रुद्रेभ्यों ये पृथिव्यां येषामन्नभिषवस्तेभ्यो
दशप्राची … …. … दधामि ।
12) नमो रुद्रेभ्यो येन्तरिक्षेः येषां वात इषवस्तेभ्यो दशप्राची..... दधामि ।
13) नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राची........ दधामि ।
श्रीरुद्रहोमे षट्पक्षाः प्रकीर्तिताः - तेषामयं प्रकार:
1) त्रेधाविभागपक्षः अन प्रकारद्वयमस्ति ।
1) एकः – (1) आद्यैश्चतुर्भिरनुवाकैः एका आहुतिः ।
(2) अपरैश्चतुर्भिरनुवाकैः द्वितीया आहुतिः ।
(3) शेषैस्तृभिरनुवाकैस्तृतीया अतिः ।।
2) अपरः (1) - "नमस्ते रुद्र" इत्यारभ्य "सभापतिभ्यश्च वो
पतिभ्यश्च वो नमः" इत्यन्तमेका आहुतिः ।
(2) "नमो अश्वेभ्यः" इत्यारभ्य "नमः पार्याय
चावार्याय च" इत्यन्त द्वितीया आहुतिः ।
(3) "नमः प्रतरणाय च" इत्यारभ्य समाप्ति
पर्यन्तं तृतीया आहुतिः ।
3) षोढाविभागपक्षः (6)
(1) "नमस्ते रुद्र" इत्यारभ्य "सभापतिभ्यश्च वो नमः" इत्यन्तं प्रथमा आहुतिः ।
(2) "नमो अश्वेभ्य" इत्यारभ्य "नमः पार्याय चावार्याय च"
इत्यन्तं द्वितीया आहुतिः ।
(3) "नमः प्रतरणाय च" इत्यारभ्य" तेषाँ सहस्र- योजनेवधन्वानि तन्मसि"
इत्यन्तं तृतीया ।
(4, 5, 6) "नमो रुरुभ्यो ये पृथिव्यां" इत्यारभ्य
"जम्भे दधामि" इति अनुषङ्गेण तिस्र आहुतयः ।
4) षोढशधाविभागपक्षः - (16)
(1) "नमस्ते रुद्र" इत्यारभ्य "नमस्तक्षभ्यः" इत्यन्तं प्रथमा ।
(2) "रथकारेभ्य" इत्यारभ्य "नमः स्वायुधाय च" इत्यन्तं द्वितीया ।
(3) "सुधन्वने च" इत्यारभ्य "पराची नामुखाकृधि" इत्यन्तं तृतीया ।
(4 - 16) पूर्वोकप्रकारेण "सहस्राणि सहस्रशः"
इत्यनुवाकं त्रयोदशधा विभज्य त्रयोदश आहुतयः ।
5) अष्टाचत्वारिंशद्धाविभागपक्षः - (48)
अयं पक्षः होमकाले प्रदर्शितः ।
6) एकोनसप्तत्युत्तरशतधा विभागपक्षः – (169)
(1) "नमस्ते" इति प्रथमानुवाकगतपञ्चदश ऋग्भिः पञ्चदशाहुतयः । (15)
(2) "नमो हिरण्यबाहवे" इत्यारभ्य "देवानां हृदयेभ्यः स्वाहा" इत्यन्त प्रतिवाक्यं होमे क्रियमाणे एकोनत्रिंशदुत्तर शताहुतयः । (129)
(3) "द्वापे अन्धसः" इत्यनुवाकेन द्वादशाहुतयः । (12)
(4) "सहस्राणि" इत्यनुवाकेन प्रयोदशाहुतयः । (13)