॥ श्री हरदत्तचार्यकृता पञ्चरत्नमालिका ||
गायत्री वल्लभत्वात् दशरथतनय स्थापिताराधितत्वात्
शौरे: कैलासयात्राव्रतमुदितयांऽभीष्ट सन्तानदानात् ।
नेत्रेणस्वेन साकं दशशतकमलैः विष्णुनापूजितत्वात्
तस्मै चक्रप्रदानादपि च पशुपतिः सर्वदेव प्रकृष्टः ॥ १ ॥
कन्दर्पध्वंसकत्वात् गरलकवळनात् कालगर्वापहत्वात्
दैतेयावासभूतत्रिपुर विदळनात् दक्षयागे जयित्वात् ।
पार्थस्य खानदानात् नरहरि विजयात् माधवे स्त्री शरीरे
शास्तुस्संपातकत्वादपि च पशुपतिः सर्व देवप्रकृष्टः ॥२ ॥
वाराणस्यां पाराशरि नियमि भुजस्तंभनात् प्राक्पुराणां
प्रध्वंशे केशवेनाश्रितवृषवपुषा धारित क्ष्मातलत्वात् ।
अस्तोकै ब्रह्मशीषै रनिशगलकृतालंक्रिया भूषितत्वात्
दानात्प्रज्ञान मुक्त्योरपि च पशुपतिः सर्वदेवप्रकृष्टः ॥३ ॥
भूमौ लोकैरनेकैः सततविरचिताराघितत्वादमीषाम्
अटैश्वर्य प्रदानात् दशविधवपुषा केशवेनाश्रितत्वात् ।
हंसक्रोडाङ्गधारि द्रुहिण मुरहरान्विष्ट शीर्षांघ्रिकत्वात्
जन्म ध्वंसा द्यभावात् अपि च पशुपतिः सर्वदेवप्रकृष्ठः ॥
वैशिष्टये योनि पीठायितमुररिपु श्लिष्टभावेन शंभोः
सस्त्रीकार्द्ध प्रतीकायित हरिवपुषाऽलिंगतत्वेन यद्वा ।
अप्राधान्यात् विशिष्टाद्वय समधिंगमे दानवानामरातेः
शंभोरुत्कृष्ट भावादपि च पशुपतिः सर्वदेव प्रकृष्टः ॥५ ॥