नमश्शब्दमात्रे सदातुष्टदेवं
नतानामुनीनां हृदिस्थंगिरीशम् ।
नरेन्द्राधिपत्यं ददन्तंवहन्तं
नमश्शिवायेति पदाभिधंस्तुवे ।। १ ।।
महादेवमीशं महावाक्यगेहं
महात्मानमेकं महत्तत्वमूर्तिम्
महारुद्रयज्ञैः सदास्तूयमानं
नमश्शिवायेति पदाभिधंहुवे ॥ २ ॥
शिवंशान्तमूर्ति शिष्टैकपूजितं
श्रितांघ्रिस्वभक्तान् सदैवाभिरक्षम्
श्रियंसंदधानं शिलारूपमाद्यं
नमश्शिवायेति पदाभिधंनमे ॥ ३ ॥
वाग्देवतास्तोत्र तृप्तंश्रुतेगिरां
पारेवसन्तंयोगि हृष्ध्येयमूर्तिम् ।
वकारादिबीजं अमृतस्वरूपं
नमशिवायेति पदाभिधंश्रुवे ॥ ४ ॥
यंदेवदेवं नमश्शब्दपूर्व
शिवायेतिमन्तं तच्छिवाकारमेति ।
चिदानन्दनृत्यं सुधाधातृशक्ति
नमश्शिवायेति पदाभिधंभजे ॥ ५ ॥