logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolमहाबलेशाष्टकम् - वृद्ध नृसिंहभारती विरचितम्Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


विशालकरुणं विभुं तरुणचन्द्र सद्भूषणं धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम् । मनोरथविवर्धनं दुरितवर्गविध्वंसनं महाबलशिवं भजे महितसर्वकल्याणदम् ॥ १॥ समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं भवार्णवविशोषणं विहितभक्तसन्तोषणम् । चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं नमामि गिरिजापतिं नलिननेत्रमित्रं परम् ॥ २॥ पराभवविवर्जितं जय जयेति देवैर्नुतं नमामि जगतां गुरुं जननमृत्युदूरं हरम् । जनार्दनसहोदरीनयनपद्मभानूपमं पुराणपुरुषार्चितं शरणलोकसंरक्षकम् ॥ ३॥ दुराचरणभीषणं दुरितवर्गसंहारिणं महागिरिवराश्रयं मुनिवरेण्यसंसेवितम् । हिरण्यनिधिदायकं करुणयैव संरक्षकं कलाधरसुशेखरं नमत नित्यकल्याणदम् ॥ ४॥ महागदविदारणं मदनगर्वविश्लोषणं भवं त्रिपुरघातिनं ह्यनलनेत्रमिन्द्रार्चितम् । गिरीन्द्रतनयासखं सकलसौख्यसन्दायकं महाबलमुपास्महे निगमगम्यरूपं शिवम् ॥ ५॥ शिलीन्द्रकुसुमप्रियं वरशिरीषमाल्यान्वितं सुबिल्वदलपूजितं वनजदिव्यपुष्पप्रियम् । विरिञ्चिहरिसन्नुतं भजत पञ्चवक्त्रं प्रभुं प्रपञ्च परिपालकं वरचिरन्तनाभ्यर्चितम् ॥ ६॥ चिरन्तरवचोनुतं ह्यघचयस्य विध्वंसकं ममाशु कविताप्रदं करिमुखस्य तातं विभुम् । कवीन्द्र परिसन्नुतं नमत नीलकण्ठं वरं वरप्रदमहाबलं सुगुणकृष्णभूपावनम् ॥ ७॥ मनोरथविदायकं मनुकुलेशसम्पूजितं ह्युमार्धसुकलेवरं विधृतदिव्यगङ्गापगम् । वृषेन्द्रवरवाहनं सुरवरेन्द्र सन्तोषणं जगद्भरणमीश्वरं तरुणचन्द्रमौलिं भजे ॥ ८॥ महाबलनुतिं जना वचसि धारयन्त्यन्वहं नृकेसरिगिरेरितां सकलसौख्यसम्पत्प्रदाम् । सुसन्ततिविधायिनीं शुभकदम्ब संवर्धिनीं भजन्ति शुभमेव ते शिवपदाब्जभक्ता भुवि ॥ ९॥ इति श्री-वृद्ध-नृसिंहभारती विरचितम् श्री-महाबलेशाष्टकं सम्पूर्णम् ॥

Related Content

श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 1 - 10

श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 11 - 20

श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 21 - 30

श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 31 - 40

श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 41 - 50