logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolकेदारेश्वर पूजा विधानम्Om symbol

संकल्पम् 

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपरार्धे श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतकण्डे मेरोः दक्षिणेपार्श्वे अस्मिन् वर्तमाने व्यावहारिके ##------## नामेन संवत्सरे दक्षिणायने ##------## ऋतौ ##------## मासे ##------## पक्षे ##------## वासरौ शुभनक्षत्र शुभयोग शुभकरण एवङ्गुणविशेषण विशिष्टायां अस्यां ##------## शुभतिथौ श्रीपरमेश्वर प्रीत्यर्थं मम क्षेमस्थैर्यवीर्यविजयायुरारोग्यैश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्ष चतुर्विधफलपुरुषार्थसिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं मम समस्तदुरितोपशान्त्यर्थं समस्तमङ्गल अवाप्त्यर्थं वर्षे वर्षे प्रयुक्त श्रीकेदारेश्वरदेवताप्रीत्यर्थं सम्भविता नियमेन सम्भविता प्रकारेण सम्भवद्भिः द्रव्यैः सम्भवद्भिरुपचारैश्च कल्पोक्तप्रकरणे यावत् शक्त्या ध्यानावाहनादि षोडशोपचारपूजां करिष्ये॥ 

उपचारणी

## Now do the kalasa pUja, gaNapati pUja. Keep a decorated kalashaM (water filled pot) and a grind stone (ammik kuzavi). Do the prANa pratiShTA of kedAreshvara svAmi and perform a simple pUjA with dhUpam, dIpaM and fruit offering. Meditate on Lord kedAreshvara with this shloka: ##

शूलं डमरुकञ्चैव ददानंहस्तयुग्मके केदारदेवमीशानं ध्याये त्रिपुर घातिनम् ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ ध्यायामि ॥

कैलास शिखरे रम्ये पार्वत्या सहितप्रभो ।
आगच्छ्देवदेवेश मद्भक्त्यां चन्द्रशेखर ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ आवाहयामि ॥

सुरासुरशिरोरत्न प्रदीपितपदाम्बुज केदारदेवमद्दत्त आसनं प्रतिगृह्यताम् ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ आसनं समर्पयामि ॥

गंगाधर नमस्तेस्तु त्रिलोचन वृषध्वज मौक्तिकासन संस्थाप्य केदाराय नमो नमः ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ पादयोः पाद्यं समर्पयामि ॥

अर्घ्यं गृहाणभगवन् भक्त्या दत्तं महेश्वर प्रयच्छ्मे मनस्तुष्टिं भक्तानामिष्टदायक ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ अर्घ्यं समर्पयामि ॥

मुनिभिर नारदप्रज्ञे नित्य्माख्यात वैभवं ।
केदारदेवभगवन् गृहाणाचमनं प्रभो ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ आचमनं समर्पयामि ॥

केदारदेवभगवन् सर्वलोकेश्वर प्रभो ।
मधुपर्कं प्रदास्यामि गृहाणत्वं शुभेनवै ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ मधुपर्कं समर्पयामि ॥

स्नानं पञ्चामृतं देव शीतशुद्धोदकैःअपि ।
गृहाण गौरीरमण त्वद्भक्तेन मयार्पितं ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ पञ्चामृत स्नानं समर्पयामि ॥

नदीजल समायुक्तं मयादत्तमनुत्तमं ।
स्नानं स्वीकुरु देवेश सदाशिव नमोस्तुते ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ शुद्धोदक स्नानं समर्पयामि ॥

वस्त्रयुग्मं सदाशुभ्रं मनोहरमिदं शुभं ।
ददामि देवेश भक्त्येदं प्रतिगृह्यताम् ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ वस्त्रयुग्मं समर्पयामि ॥

स्वर्ण यज्ञोपवीतंच कांचनंचोत्तरीयकं ।
रुद्राक्षमालयायुक्तं ददामि स्वीकरुप्रभो ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ यज्ञोपवीतं समर्पयामि ॥

समस्त गंध द्रव्यानां देवत्वमसिजन्मभूः ।
भक्त्या समर्पितं प्रीत्या मया गंधादि गृह्यताम् ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ श्री गंधान् समर्पयामि ॥

अक्षतो सिद्धभावेन भक्तानाम् अक्षतं पदं ।
ददासिनाथ मद्दत्तैः अक्षतैः प्रियताभवान् ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ अक्षतान् समर्पयामि ॥

कल्पवृक्ष प्रसूनैस्त्वं पूर्वैरभ्यचितस्सुरैः ।
कुंकुमैः पार्थिवैरेभिरितानीमर्चदाम्मया ॥
केदारेश्वर स्वामिने नमः । पूजयामि ॥ पुष्पाणि पूजयामि ॥

ततः इन्द्रादि अष्टदिग्पाल पूजां कुर्यात् ॥
इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरुृतये नमः ।
वरुणाय नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः ।
शिवस्य दक्षिणभागे ब्रह्मणे नमः । उत्तरभागे विष्णवे नमः ।
मध्ये केदारेश्वराय नमः ॥

अथ अंग पूजा ॥

महेश्वराय नमः । पादौ पूजयामि । 
ईश्वराय नमः । जंघे पूजयामि । 
कामरूपाय नमः । जानुनी पूजयामि । 
हराय नमः । ऊरू पूजयामि । 
त्रिपुरान्तकाय नमः । गुह्यं पूजयामि । 
भवाय नमः । कटिं पूजयामि । 
गंगाधराय नमः । नाभिं पूजयामि । 
महादेवाय नमः । उदरं पूजयामि । 
पिनाकिने नमः । हस्तान् पूजयामि । 
शिवाय नमः । भुजौ पूजयामि । 
शितिकण्ठाय नमः । कण्ठं पूजयामि । 
विरूपाक्षाय नमः । मुखं पूजयामि । 
त्रिनेत्राय नमः । नेत्राणि पूजयामि । 
रुद्राय नमः । ललाटं पूजयामि । 
शर्वाय नमः । शिरः पूजयामि । 
चन्द्रमौल्ये नमः । मौलिं पूजयामि । 
पशुपतये नमः । सर्वाण्यंगानि पूजयामि ॥      

## Perform the shiva aShTottara sata or sahasra nAmAvaLi pUja. Then Perform the pUjA for the holy threads - sUtragra.nthi pUjA ## 

सूत्रग्रन्थि पूजा

शिवाय नमः । प्रथमग्रन्थिं पूजयामि ।
शान्ताय नमः । द्वितीयग्रन्थिं पूजयामि ।
महादेवाय नमः । तृतीयग्रन्थिं पूजयामि ।
वृषभद्वजाय नमः । चतुर्थग्रन्थिं पूजयामि ।
गौरीशाय नमः । पञ्चमग्रन्थिं पूजयामि ।
रुद्राय नमः । षष्ठग्रन्थिं पूजयामि ।
पशुपतये नमः । सप्तमग्रन्थिं पूजयामि ।
भीमाय नमः । अष्टमग्रन्थिं पूजयामि ।
त्र्यम्बकाय नमः । नवमग्रन्थिं पूजयामि ।
नीललोहिताय नमः । दशमग्रन्थिं पूजयामि ।
हराय नमः । एकादशग्रन्थिं पूजयामि ।
स्मरहराय नमः । द्वादशग्रन्थिं पूजयामि ।
भर्गाय नमः । त्रयोदशग्रन्थिं पूजयामि ।
शम्भवे नमः । चतुर्दशग्रन्थिं पूजयामि ।
शर्वाय नमः । पञ्चदशग्रन्थिं पूजयामि ।
सदाशिवाय नमः । षोडशग्रन्थिं पूजयामि ।
ईश्वराय नमः । सप्तदशग्रन्थिं पूजयामि ।
उग्राय पूजयामि । अष्टादशग्रन्थिं पूजयामि ।
श्रीकण्ठाय नमः । एकोनविंशतिग्रन्थिं पूजयामि ।
नीलकण्ठाय नमः । विंशतिग्रन्थिं पूजयामि ।
मृत्युञ्जयाय नमः । एकविंशतिग्रन्थिं पूजयामि ।

धूपदीप नैवेद्यानि ।

दशाङ्गं धूपमुख्यञ्च ह्यङ्कार विनिवेशितम् ।
धूपं सुगन्धैरुत्पन्नं त्वं प्रीणयतु शङ्करः ॥
केदारेश्वरस्वामिने नमः । पूजयामि ॥ धूपमाघ्रापयामि ॥

योगिनां हृदये नैव ज्ञानदीपाङ्कुरोत्क्षितः ।
बाह्यदीपो मयादत्तो गृह्यतां भक्तगौरवात् ॥
केदारेश्वरस्वामिने नमः । पूजयामि ॥ दीपं दर्शयामि ॥

त्रैलोक्यमपि नैवेद्यं तव तृप्तिः सदाभवेत् ।
नैवेद्यं भक्तवात्सल्यात् गृह्यतां त्र्यम्बकत्वया ॥
केदारेश्वरस्वामिने नमः । पूजयामि ॥
नानाविधफलानि भक्ष्यभोज्यनिवेदनं निवेदयामि ॥

नित्यानन्दस्वरूपस्त्वं योगिहृत्कमलेस्थितः ।
गृहीतं भक्तया मयादत्तं ताम्बूलं प्रतिगृह्यताम् ॥
केदारेश्वरस्वामिने नमः । पूजयामि ॥ ताम्बूलं समर्पयामि ॥

अर्घ्यं गृहाण भगवन् भक्त्यादत्तं महेश्वर ।
प्रयच्छ मे मनस्तुष्टिं भक्तानामिष्टदायक ॥
केदारेश्वरस्वामिने नमः । पूजयामि ॥ पुनार्घ्यं समर्पयामि ॥

कर्पूरचन्द्रशङ्काशं ज्योतिः सूर्यं विवोदितम् ।
भक्त्या दर्शयामि कर्पूरनीराजनमिदं शिव ॥
केदारेश्वरस्वामिने नमः । कर्पूरनीराजनं दर्शयामि ॥

भूतेश भवनेशेश सर्वदेवादिपूजित ।
प्रदक्षिणं करोमित्वां व्रतं मे सफलं कुरु ॥
केदारेश्वरस्वामिने नमः । पूजयामि ॥ प्रदक्षिणां समर्पयामि ॥

हरशम्भो महादेव विश्वेशामरवल्लभ ।
शिवशङ्कर सर्वात्मन् नीलकण्ठ नमोऽस्तुते ॥

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं ।
शूलं वज्रं च खड्गं परशुमभयतं दक्षिणाङ्गे वहन्तं ॥
नागं पाशं च खण्डं डमरुकसहितं चाङ्कुशं वामभागे ।
नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
केदारेश्वरस्वामिने नमः । पूजयामि ॥ नमस्कारान् समर्पयामि ॥

अभीष्टसिद्धिं कुरु मे शिवाव्यय महेश्वर ।
भक्तानामिष्टतानर्थं मूर्तीकृतकलेपरम् ॥
इति प्रार्थना ॥


## For the concluding day perform the following to complete the Kedara Gauri Vratam. ##
केदार देवदेवेश भगवन् अम्बिकापते ।
एकविंशतिदिनेतस्मिन् सूत्रं गृह्णाम्यहम् प्रभो ॥

सूत्रग्रहणम् ॥

## (Take the holy thread of this vratam) (Chant the following mantra while tying the thread. Receive the thread from priest or elderly people along with axata and their blessings. Tie it keeping fruit or coconut in hand) ##

आयुश्च विद्यांच दत्तां च सुखं च सौभाग्यवृत्तं गुरुदेवदेव संसार घोरंबु नित्तौ निमग्नं माम् रक्ष केदार नमोऽस्तुते ॥

दोरबन्धनं ॥

केदार प्रतिगृह्णातु केदरोवै ततादिच ॥
केदारस्तारको पाएयं केदाराय नमो पूजयामि ॥

प्रतिमा दानं ॥

केदारप्रतिमा यस्मात् राज्य सौभाग्यवर्धनी ।
तस्मादस्य प्रदानेन ममास्तु श्रीरसंचलाः ॥
इति प्रतिमादान मंत्रः ॥

## (donate the pradhima) (Now the kedAra vrata story could be listened to. While listening keep the axata in hand. Finally submit the axata on the Lord and salute.) ##

इति केदारपूजाविधानं संपूर्णम् ॥
 

 

See Also:
1. केदार (गौरी) व्रत का महत्व — दीपावली (दिवाली)
2. shiva sahasra nAmAvaLi
3. kEdAram padhikam - sambandhar
4. kEdAram padhikam - sundarar
5. Kedhareshvara Vrata Puja Mantra / Procedure
6. கேதார விரத பூஜை

Related Content

Kedhareshvara Vrata Puja Mantra / Procedure