कल्याणाचल -कोदण्ड-कान्तदो-र्दण्डमण्डितम्।
कलम्बीकृतकंसारिं कलयेऽट्टालसुन्दरम्॥ १ ॥
कालकूटप्रभा-जाल-कलङ्कीकृत-कन्धरम्।
कलाधर-कलामौलिं कलयेऽट्टालसुन्दरम्॥ २ ॥
कालकालं कलातीतं कलावन्तञ्च निष्कलम्।
कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम्॥ ३ ॥
कान्तार्धकमनीयाङ्गं करुणामृतसागरम्।
कलि-कल्मष-दोषघ्नं कलयेऽट्टालसुन्दरम्॥ ४ ॥
कदम्बकाननाधीशं काङ्क्षितार्थ-सुरद्रुमम्।
कामशासनमीशानं कलयेऽट्टालसुन्दरम्॥ ५ ॥
सृष्टानि मायया तेन ब्रह्माण्डानि बहूनि च।
रक्षितानि हृतान्यन्ते कलयेऽट्टालसुन्दरम्॥ ६ ॥
स्वभक्तजन-सन्ताप-पापापद्भङ्ग-तत्परम्।
कारणं सर्वजगतां कलयेऽट्टालसुन्दरम्॥ ७ ॥
कुलशेखरवंशोत्थ-भूपानां कुलदैवतम्।
परिपूर्णचिदानन्दं कलयेऽट्टालसुन्दरम्॥ ८ ॥
अट्टालवीरक-श्रीशम्भोरष्टकं परमिष्टदम्।
पठतां शृण्वतां सद्यः तनोति परमां श्रियम्॥ ९ ॥