एकं ब्रह्माद्वितीयं च परिपूर्णं परात्परम्।
इति यो गीयते वेदैः तं वन्दे सोमसुन्दरम्॥ १ ॥
ज्ञातृ-ज्ञान-ज्ञेयरूपं विश्वं व्याप्य व्यवस्थितम्।
स्वयं सर्वैरदृश्यो यः तं वन्दे सोमसुन्दरम्॥ २ ॥
अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः।
ददाति च फलं तेषां तं वन्दे सोमसुन्दरम्॥ ४ ॥
यं विदित्वा बुधास्सर्वे कर्म-बन्ध-विवर्जिताः।
लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम्॥ ५ ॥
देवदेवं यमाराध्य मृकण्डुतनयो मुनिः।
नित्यत्वमगमत्सद्यः तं वन्दे सोमसुन्दरम्॥ ६ ॥
निज-नेत्राम्बुज-कृत-पूजया परितोष्य यम्।
श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम्॥ ७ ॥
येन सृष्टं जगत्सर्वं रक्षितं संहृतं क्रमात्।
सत्यं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम्॥ ८ ॥
यस्मै वेदाश्च चत्वारो नमस्यन्ति वपुर्धराः।
ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम्॥ ९ ॥
यस्मात्परं चापरं च किञ्चिद्वस्तु न विद्यते।
ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम्॥ १० ॥
यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः।
सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम्॥ ११ ॥
यस्य दर्शन मात्रेण ब्रह्महत्यादि पातकम्।
अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम्॥ १२ ॥
उत्तमाङ्गं च चरणं विधिना विष्णुनाऽपि च।
न दृश्यते यस्य यत्नात् तं वन्दे सोमसुन्दरम्॥ १३ ॥
त्वया नीपारण्यनाथ त्वदन्यान्
समानाहुर्दैवतान् पापिनस्ते।
तदा शम्भो त्वत्समं दैवतं स्याद्-
यदा योगो वाजिनो रासभस्य॥ १४ ॥
अणोरणुस्त्वं महतो महांस्त्वं
सर्वात्मभावात्परिपूर्ण एकः।
त्वयैव शम्भो महिमा त्वदीयो
विज्ञायते वक्तुमिमं क्षम: कः॥ १५ ॥
(इति स्तुत्वा महादेवं भक्त्या परवशो वृषा।
दण्डवत्सन्निधौ तस्य प्रणमाम महीतले॥ १६)