श्रेयांसि संदिशति कन्दलयत्यमन्द
मानन्दमस्य दलयत्यघबृन्दमात ।
धूनोति किकरयति द्रुहिणादिकांश्च
मातस्तवैष उदयो हि दये पुरारेंः ॥ १ ॥
कल्याणि शलतनयाकमनानुकम्पे
त्वं यत्रयत्र वितनोषि पदार्पणानि ।
प्रांगेव पद्मजवलोन्मथनादिलक्ष्म्यः
प्रादुर्भवन्त्यवहिताः खलु तत्रतत्र ॥ २ ॥
मन्दस्मितं मदनसुन्दरमिन्दुरेखा
सनद्धशेखरमुमा सखमुद्द्दन्ती ।
दिव्यं वपुः किमपि डक्पथगानघानां
मातमुढं हि तनुषे महतीं ढये त्वम् ॥ ३ ॥
दिव्यं वपुस्तदनुसदद्धतः पुरारेः
कांधणाजगति केचन निर्विशन्ति ।
आख्यामृतोर्मिरसिकास्त्वपरे ऽभिनन्द
न्त्यस्ताधयः शिवदयेऽम्ब तवावलम्चात् ॥ ४ ॥
आखण्डलोऽयमिति कश्चिदखण्डितश्री
वित्तेश्वरोऽयमिति विश्रुतवैभवोऽन्यः ।
धातेति कोऽपि जगतां जनकस्तवामी
कल्याण्युमेशकरुणे परिणामभेदाः ॥ ५ ॥
ईशो हरः स जगतां ननु तस्यं च त्व
मीशा परातिविनिराकृतिराकृतिस्ते ।
तन्माम कार्तिहरणं करुणे न चेत्त्वं
धत्से कथं कथय देवि तवात्मलाभः ॥ ६ ॥
दाक्षायणीसहचरे गरलप्रहेण
दत्ताभये विरचितेऽम्ब दये भवत्या ।
अश्वद्विपातिर मरेशितुरच्युतस्य
श्रीकान्तता दिविषदाममृताशिता च ॥ ७ ॥
क्रूरेण हन्त गरलेन गलेऽनलेन
फाले शिरस्यपि तरङ्गवतीझरेण ।
क्रान्तं त्वदध्वगतमातनुषे दये स्वा
धीनेश्वरा भवसि कः किमिहाभिधत्ताम् ॥ ८ ॥
काचित्त्वदीयकणिका मणिकाञ्चनाद्यै
रथैर्धिनोत्यमुमिहारुचिहेतुरन्या ।
उल्लासयत्युडुपतिश्रितमौलिसोम्नि
त्वद्धानि ते हि करुणे सरणिर्विचित्रा ॥ ९ ॥
भोषामहद्भयगिरोऽतिभयंकरत्वं
यस्याहुरुत्र इति'भीम इति प्रथा च ।
क्षिस्वेव दासयसि देवि दवे तमेनं
हा जिह्वयतदभिधास्टशि पुलकसेऽपि ॥ १० ॥
नान्यो मदस्त्यगतिकोऽगतिकस्तव स्वं
शंभोर्दथेऽषपिशुना मयि शवदास्ते ।
सर्वज्ञता विदधतीं तव दुर्लभं मां
सज्जस्व मा जननि मूरपदे तू निःस्वा ॥ ११ ॥
स्वाघीनितेन्दुमकुटासि समर्थितोप
मन्युप्रभूत्यभिमता जगति श्रुतासि ।
आयुष्मती जननि मन्तुभिरेव चासि
हा इन्त मां न करुणे कथमभ्युपैषि ॥ १२ ॥
शंभो त्वमेव शरणं मम चन्द्रचूडे
त्याद्या गिरस्तदुचितस्थितिहानितो नः ।
सत्येतरा अपि विभुर्भजनाय यद्य
गृ॒ह्णाति तद्धि करुणे चरितं भवत्याः ॥ १३ ॥
यदेशः कुप्येन्मे दुरितबिसरैर्दैन्यधुरया
तदा मे हूताविर्भवतु भवती तस्य च पुरः ।
मदीयांहः संहत्यपलपनरंहः प्रथयति
त्वदाविर्भावेऽसावलमिह दये कि कलयितुम् ॥ १४ ॥
महेशे संक्रुद्धे मदघविदि मह्यं श्रितजन -
श्रमाक्षान्त्री देवि त्वमयि सहसाविर्भव दये ।
मदीयांहः संहत्यपलपनरंहः प्रथयति
त्वदाविर्भावेऽसावलमिह दये कि कलयितुम् ॥ १५ ॥
त्वया भाव्यं मातर्मयि शशिकलोतंसकरुणे
प्रणम्य त्वां याचे कति कति भवत्या न हि भृताः ।
जगत्येको वर्ने क्वचिदपि गति कांचिदपि न
न्वपश्य नैवेदं सहशमगतीनां तव गतेः ॥ १६ ॥
तवाध्वन्या धन्यास्तव हि भवनादन्तकरियों
र्यदेण्वेकेनैन शिरसि धनुषा घातमदयम् ।
तथान्येन ग्राणां किरणमपरेणासिलतया
दयेऽनैषीन्मूर्धप्रविदलनमप्यम्ब भवती ॥ १७ ॥
प्रियोऽर्थोऽयं शंभो : प्रसदनविधेयाधिगम इं
त्यथ द्वेष्योऽयं तत्प्रसदनविधेयक्ष तिरिति ।
परोऽयं तंत्रायोदय इति च तद्धीकृदखिलं
न मे तद्धीमैवं मयि विमुखता ते शिवदये ॥ १८ ॥
क्षिपन्कामिन्याविष्यनवधि मिथोवैशसधुरा
दुरापेज्वेष्वक्षप्रकरम घिबालेयवदनम् ।
मधुस्यन्दि द्राक्षाफलकुलमिवायुर्वितथ्य
न्कियत्कालं सींदान्ययि मयि कदा स्याः शिवदये ॥ १९ ॥
कदा गौरीनेत्राञ्चलसमुदितानङ्गचकिता
न्कटाक्षांस्तांस्तच्च स्मितमधरबिम्बे कृतपदम् ।
मुखं शंभोस्त चोन्मुदितशरदिन्दुप्रियसख
पुरस्तादादध्याः पुरभिदनुकम्पे जननि मे ॥ २० ॥
असावर्थः श्रेयानयमितर इत्यच्छमतिदाः
प्रजानां शर्माप्तावसुखविरहे च प्रतिभुवः ।
विभान्ति श्वासा यद्विधुशकलमौलेभगवत
स्तदेतत्कल्याण्यास्तव विलसितं किं न करुणे ॥ २१ ॥
स्मराराते शंभो पुरहर शिवोमाधव हरे
मुरारे गोविन्दामरवर मुकुन्देत्यविरतैः ।
शिवाख्यापीयूषोर्मिभिरयि दये मां कबलितं
कदा वो कुर्वीरंस्तव गुणझरा मज्जितहराः ॥ २२ ॥
समुन्मींलज्ज्वाला ज्वलनकलितस्यान्तिकगतो
यथा तद्वद्दाराद्यभिरतिहतस्यान्तिकगतः ।
असावीष्टे नोज्जीवितुमहह का तस्य तु कथा
किमन्यज्जींवा तुस्त्वमसि जगतोऽस्येशकरुणे ॥ २३ ॥
मयीशानं वामाशयमतितरां मज्जयतु ते
कदा पूरः स्वैरं कबलिततटो देवि करुणे ।
तथा द्रागुत्कर्षन्विघटितविघातव्यतिकरः
कदेशप्रेमाख्ये महति च पदे स्थापयतु माम् ॥ २४ ॥
प्रियो द्वेष्योऽप्यधस्तुदति मम बुद्धि तदितरे -
ऽप्यमी स्वैरं निघ्नन्त्यहह गिरेिशालिङ्गनमुखे ।
प्रसक्ति : का वा स्याद्भगवति नमस्तेऽर्हसि न मा.
मियहूरीकर्तु गिरिशकरुणेऽनन्यशरणम् ॥ २५ ॥
दये शंभोस्तद्भक्त्यमृतलहरीं तावकझराः
कदेहो पानेष्यन्त्यलमपनयन्तः प्रतिहतः ।
तथा चात्मा मेऽसावतिशिशिरितो हास्यति कदा
मनोजायुन्मो रुद्ग्रहनदहनोत्थं परिभवम् ॥ २६ ॥
महेशस्य प्रज्ञासमुचितविधानक्षमतया
ममाप्येनोराशेरपि समवमर्श सति न मे |
समाश्वासस्याशा निजलहरिभिस्तं ननु विभुं
वितन्वाना ममं विहरसि यदि त्वं न करुणे ॥ २७ ॥
दशायामेतस्यामपि शिवदये ते विमुखता
मयीत्थं चेन्मनो महति विपदब्धावहमसौ ।
अकीर्त्यब्धौ ममा स्वमपि मम यत्किंचन भव-
त्वपि खोद्धारे वा भवतु भवती प्रोद्यमवती ॥ २८ ॥
कमलभवपद वा कैंटभारिश्रियं वा
मदनभिदनुकम्पे मड्क्षु दातुं क्षमा त्वम् ।
किमु न दिशसि वीतक्लेशिकामासिका मे
कथन शिवशिवेत्याख्यानधारैकतानाम् ॥ २९ ॥
हितम हितमवैतु वर्तितुं चानुरूपं
न पुनरलमबोधानीशताभ्यां हतोऽहम् ।
प्रमथपतिदयेऽये पालयेस्त्वं कथं मां
कथमिव न च ते स्यात्ख्यातिभो न जाने ॥ ३० ॥
तव भवति निवासस्तारकाधीशमौलिः
सच मदघभवोग्रामर्वपय कुळात्मा ।
समय तमनुकम्पे लद्रसौघाबसेकै
मम तदलमयित्वं नावने मेऽर्थनोया ॥ ३१ ॥
अभिलपतु शिवाख्यामाहरेत्यादिदम्भा
दपि सकृदयमेत्तस्याखिलार्ति हरिष्ये ।
इति सततविनिद्रामिन्दुमौलेर्दये य
द्यहमिव न जडः कोऽनन्यधीर्नाश्रयेत्त्वाम् ॥ ३२ ॥
चरति समनुरुन्धन्प्रेरणाधोरणीं ते
ऽ निलगतिमिव तूंलो होष दोषं कुतोऽस्मिन् ।
गणयसि परतन्त्रे मन्त्रियोगादव द्रा
गमुमिति करुणे तं त्वादिशेशं मदर्थे || ३३ ॥
मदघविततिरन्तःसत्त्वमाविश्य शंभोः
प्रविघटयति योगं तस्य ते चानुकम्पे ।
उदपि निरुपमा महैन्यसंपत्तिरेषा
प्रतिभवति पुनर्वा निर्भराश्लेषसंधौ ॥ ३४ ॥
दलयतु दिगिभौघो दन्तकाण्डैः कठोरै-
दहतु दहनमाला दारयत्वस्त्रजालम् ।
अपि धुरि परिवृण्वन्त्वव्धयो नैनमातिः
स्पृशति शिवदये यः स्पृश्यते तेऽनिलेन ॥ ३५ ॥
अधिजटमसुरारात्यापगा क्वापि लीना
मनस्त्रिज विनिहन्तुर्मज्जितोऽयं झरैस्ते ।
कबलयति निमङ्क्तुः सा श्रमं त्वं त्वमङ्क्तुः
कथमिव न दये ते स्वर्धुनीतो विशेषः || ३६ ||
प्रभवति न हि दातुं भद्रमीशो विना त्वा
मलमपि तददातुं नाम्ञ सत्यां भवत्याम् ।
वितरति च शुचं त्वद्विप्रकर्षे सतीशः
कथयितुमनुकम्पे कस्तवालं. प्रभावम् ॥ ३७ ॥
मदनशतमनोज्ञं मञ्जुहासाननाब्जं
शरदुडुपतिगौरं साम्बमर्धेन्दुचूडम् |
द्रविणमयि मदीय दृक्पथे धत्व मे त
तव खलु वशवतीत्यर्थयेऽहं दये त्वाम् ॥ ३८ ॥
त्वमसि मदवनार्थ नार्थनीया दये य
स्तव भवति निवासो दुःसहं तस्य शंभोः ।
प्रशमय तममर्षोष्मातिरेकं भ्रमाग :
प्रभवमयि भवत्या निशरैस्तन्ममालम् ॥ ३९ ॥
पशुरिव परिभूतोरश्नुवानोऽपि शश्व-
द्विषयविसरमेतं हातुमप्यप्रगल्भः ।
विष इव विमुखस्ते वेश्मनोशे तथाहं
कथमिव करुणेऽङ्गीकारपात्रं तवाहम् ॥ ४० ॥
अवितरि पुरहन्तर्यस्य सर्वस्य जन्तो
मम गतिरबलाद्या नन्वमी सोऽहमेषाम् ।
इति कुमतिहतस्तं चिन्तये हन्त नेश
स तु कथमनुकम्पे स्यान्मयि त्वद्विषेयः ॥ ४१ ॥
विसृमरदहनाचिर्विप्लुतोऽह्नाय शीतं
जलमिव करुणे संत्यक्तसर्वः कदाहम् ।
तव पदमुहुराडुत्तंसमानन्दसिन्धुं
श्रमहरमवगाहे दत्तहस्तो भवत्या ॥ ४२ ॥
मकुटगविधुनि त्वन्मन्दिरे स्थित्यलाभः
स्थितिरियमितरव्यासङ्गदावानले च ।
फलमहह दयेऽदः कस्य पापस्य वा द्रा-
तन्दिद मुदसनीयं दौःस्थ्यमम्ब त्वया मे ॥ ४३ ॥
तनुकरणकदम्बं दक्षमेवं मनस्त्व
द्ब्रहचणमनुकम्पे नन्वदाः शंकराख्ये ।
प्रदिशसि मम किं न त्यन्निवेशे प्रवेश
प्रददति भुवने किं प्राणशून्याय कन्याम् ॥ ४४ ॥
सगरलमधिकण्ठं सानलं फालदेशे
सदनमहिपरीतं सवतस्तेऽनुकम्पे |
तदिदमुपगता ये तानिमांस्तन्वती त्वं
विहरसि जितमृत्यून्वीक्षितानप्यमीभिः ॥ ४५ ॥
न वितर पदमैन्द्रं न श्रियं वैधसीं वा
श्रितभुजगकुलेऽपि क्ष्वेलखेलगलेऽपि ।
मम घटय दये त्वन्मन्दिरे संप्रवेशं
विगलितविविधव्यासङ्गमेतन्ममालम् ॥ ४६ ॥
तव समुदयरोधं तत्परोऽसौ विधत्ते
स्वकचरितमहिम्ना खात्मघाती तमेनम् ।
भगवति ननु भर्तु भ्राम्यसीश नुकम्पे
तव परहितनिष्ठा तादृशी स्तौतु कस्त्वाम् ॥ ४७ ॥
कियदिव विमुखत्वं चित्सुखात्मभ्युमेशे
रतिरपि कियती मेऽन्यत्र धिष्मां ममास्यं ।
असदपि न दये त्वं हास्यसि त्राणमद्धा
तव क इह निरोद्धा दासयन्त्यास्तमीशम् ॥ ४८ ॥
अश्रुदूमगदूदवा -
गविरल पुल काढ्या भवे भक्तया ।
कति न रमन्ते मां शिव-
करुणे कुरु तदनुगं ममैतदलम् ॥ ४९ ॥
करुणे तरुणेन्दुधर -
स्त्वद्वशवतीति तव निशम्य यशः ।
तस्मावलम्बमीहे
तबूटने प्रतिभुषा त्वया भाव्यम् ॥ ५० ॥
जनिमृतिदहनाचिः शान्तिदिव्यामृतौघे
जननि शशिविभूषे त्यगृहे संप्रवेशम् ।
विघटयदनुकम्पे विघ्नवृन्दं विभिन्द
न्मयि पततु कदा त्वन्निर्झरः श्रान्तिहारी ॥ ५१ ॥
त्वमभिज्ञशिखामणौ महेशे
भजवत्यकुशमन्तुसंततीनाम् ।
यदपह्नुतिपण्डिता दये त
निरवयं तव वेभि साहसिक्यम् ॥ ५२ ॥
करुणे कथये किमाज्ञया ते
धनुधावत्यहह स्मरन्ति ये तान् ।
मकुटव्य तिष मिचन्द्ररेखं
मदनध्वंसि मदीयभागधेयम् ॥ ५३ ॥
हरिणार्मकमानने तरक्षों
रिव कान्तादिमुखे भयानके माम् ।
विनिपात्य शिवो विलोकमानः
करुणे किं न कदर्थ्यते भवत्या ॥ ५४ ॥
करुणे तरुणेन्दुधारिणो म
करणे शंस तवाम्ब को विलम्बः ।
गणितोऽयमहं किलाखिलाङ्गि
ष्वयि किं तेषु न मामलेखयस्त्वम् ॥ ५५ ॥
अघवानिति मय्यसंगृहीते
सकलाघापहजातुनामवादः ।
अपि दोनजनावितेति कीर्यो
रवसादं करुणेऽभिषेहि शंभोः ॥ ५६ ॥
मम शंभुदये त्वदर्हताया
महमन्यन्न विलोकयाम्युपायम् ।
मम चोदितयार्तिभिस्त्वयैव
श्रयणीया तदुपायता ब्रुवे किम् ॥ ५७ ॥
पुरभित्करुणे पुरन्दराद्यै
स्त्वमुपास्या सुलभा न नस्तथापि ।
प्रचकास्ति परातिदुर्लभत्व
त्पददर्शी ननु दीनताश्रयो नः ॥ ५८ ॥
भवतीशदये पयोदमाला
भवतीत्रानलशान्तिदाश्रितेषु ।
तमसामवसादिकाः शिवेक्षा-
तटितश्चित्रमचञ्चलाः प्रसूते ॥ ५९ ॥
करुणे शिवचन्द्रचन्द्रिकासौ
भवती सन्मणिसौधसंसदीव |
प्रसृतापि मयीह तुच्छकुडये
तिमिरं लुम्पतु तावता क्षतिः का ॥ ६० ॥
कुतुकपरवशैरुमा कटाक्षैः
कुवलयभाजि नवोडुपावतंसे ।
जननि तव झरे निमममस्त
ज्वरभरमारचयेर्दये कदा माम् ॥ ६१ ॥
बत सहविहरहरस्मितानां
परिचरणाधिकृता रविन्दभासाम् ।
भगवति करुणे त्वयेरितानां
पथि किमसान्यहमीशत्रोक्षितानाम् ॥ ६२ ||
सर्वज्ञत्वादिगुणाः
स्वात्मत्राणैकलम्पटा बहवः ।
शर्वस्य शंकराख्या-
निर्वहणं तदये त्वदायत्तम् ॥ ६३ ॥
श्रीकण्ठाय क्ष्वेलं
रोचितवत्या दये ननु भवत्या
मामकमन्तुकदम्बे
केवलमम्बेह वद विलम्बः कः ॥ ६४ ॥
शिव इति तद्भक्तिरिति
स्मृतिरस्य च सेति सार्तिहन्त्रीति ।
इयदवगमय्य शेषे
विरतिरियं शिवदये न ते सहशी ॥ ६५ ।।
अब्जनयितुमच्युतयितु-
मपि शिवयितुमलमुमेशकरुणे त्वम् ।
अलमसि शिवरसिकाना-
मक्षिपथे किं न मां प्रवर्तयितुम् ॥ ६६ ॥
विजयस्व सिध्यतात्तव
विधुशेख रविप्रलम्भनैपुण्यम् ।
मन्मन्तुभिरुन्मिषतु च
मातः करुणे पिचण्डिलत्वं ते ॥ ६७ ॥
करुणे यदि मन्मन्तून
कबलयसि न विप्रलब्धगिरिशा त्वम् ।
का मम गतिस्तवापि च
का गतिरागमिरेव जीवन्थ्याः ॥ ६८ ॥
करुणे त्वदध्वगानां
कामाया य द्विषस्तदुन्मथने ।
गिरिशं त्वयेरयन्त्या
कृतोऽस्य भीमोग्रनामसंसर्गः ॥ ६९ ॥
शर्वं प्रति मन्मन्तुषु
सर्वज्ञतया निवेद्यमानेषु ।
आधूय ताममुं डढ-
मालिङ्गय दये नयाशु परवशताम् ॥ ७० ॥
अहह गिरिशैकताना
मभिलषितस्थितिमनातवति मयि ताम् ।
आर्तिषु मज्जति वर्तितु
मर्हसि न स्तब्धमेवमशद ये ॥ ७१ ॥
नागांसि यन्महान्त्यपि
गण्यन्ते गुणकणो बहु क्रियते ।
गिरिशेन तदनुगैरपि
तगिरिशे त्वन्निवेशतः करुणे ॥ ७२ ॥
मतिबागपदेऽनन्ते
महेश्वरे मनननमनपूजामिः ।
आगोभिरभावि गुणै
रनुकम्पे तस्य तव परिष्वङ्गात् ॥ ७३ ॥
अवरुन्धत्या करुणे
हरं त्वया तस्य मामकस्वान्तम् ।
गेहूं क्रियतामय मे
साहंक्रियताज्वरं जिहर्षिसि चेत् ॥ ७४ ||
कामारिणाऽनिविष्टे
कामादिभिरशरणस्त्वहं करुणे ।
ताब्ये किल कि न त्वं
तज्ज्ञपयसि तच किं न वारयसि ॥ ७५ ॥
अन्तकहरं पदं तव
हन्त दये घ्रातुमप्यनई माम् ।
अकरोहुविधिरस्तु त
दपनयने तव विलम्बनं नार्हम् ॥ ७६ ॥
दृष्टे मया त्वदोकसि
शानया सर्वमङ्गलाष्टे ।
करुणे का तब हानिः
कतिकति तद्दर्शिनस्त्वया न कृताः ॥ ७७ ॥
दुग्धार्थिनो मुनिशिशो
दुग्धाम्बुनिधिर्वशं नीतः ।
जलघिरपरस्य हस्ते
जलकणतां शिवदये न तेऽस्ति भरः ॥ ७८ ।।
अवतंसितेन्दुकन्दल
माज्नावशवर्तिपवनतपनादिमू ।
कलये दये तव शरं
कर्मपरब्रह्मगन्धिनिःश्वांसम् ॥ ७९ ॥
करुणेऽङ्गीकुर्या मां
कदाम्ब तमुमासखं चिदाकारम् ।
ग्रलहस्तितविषयान्तर
मासीन मन्मतौ कदा कुर्याः ॥ ८० ॥
भयविरहमन्तकात्त्वं
प्रदिश परस्येव न मम किंतु भयम् ।
येन शिवेऽभिरतः स्यां
शिवानुकम्पे प्रसीद तदलं मे ॥ ८१ ॥
गौरीस स्खमुडुगौरं
कंदर्पसहस्रसुन्दराकारम् ।
नीलग्रीवमुदारं
निषेहि मन्मनसि तव दये पूरम् ॥ ८२ ॥
क्रन्देयं बत कं प्रतीह बलिना कामेन कामान्तकः
कामं पश्यति पीड्यमानमपि मां कालेन कालान्तकः ।
त्वं चेत्तस्य विभोर्भवतकृतपरिष्वर पार्द ये
मामामोदयसे क्षतिस्तव तु का कि स्याच्च मेऽसौ दशा ॥ ८३ ॥
निद्रालस्यभरो वपुष्यतिजरा दुःसङ्ग ईर्ष्यामति
यंत्र क्वापि हि कैम्धिदित्थमशुमैविध्नैः परीतस्य मे ।
ईशानेऽभिरतिश्च निर्वृतिकथा क्वेशानुकम्पे कदा
दीनान्वेषिणि मां त्वदभ्युपगमो दोनाग्रगण्यं स्पृशेत् ॥ ८४ ॥
तरणे भवस्य शरणैषिणा मया
दुरितानि दन्त चरितान्यलं दये ।
उचितानि नव रुचितानि मानसे
लपितानि चव कुपिताकृतीनि मे ॥ ८५ ॥
शमनावलेपदमनावहाम्ब किं -
न्वपुषन्न खिन्नवपुषं मृकण्डुजम् ।
भवती मदीयभवतीव्रतापह
तरुणेन्दुचूडकरुणे न किं भवेत् || ८६ ॥
उचितं तवोपरचितं दये न कि
प्रबलापराधकबलार्पणं मया ।
अयि शर्वमम्ब मयि शर्मंदं न किं
वितनोषि शंस बत नो यशोऽस्त्यतः ॥ ८७ ॥
गरले हरस्य तरलेतरां रुचिं
भवतीं दयेऽर्पितवती न मेंऽहसि ।
उदितादरात्र विदिता करालता
मुहिता न सा किमहितावहा तव ॥ ८८ ॥
कलिनामुनातिबलिना कदर्थितः
स्वहिते क्षमो न विहितेऽस्मि मादृशाम् ।
अवने श्रमस्तु तव नेशितुर्द ये
जगति त्वयैव सगतिस्तदस्म्यहम् ॥ ८९ ॥
वलभेदना दिसुलभेतरं हरं
स्मरतो दलाम्बु किरतोऽपि निर्वसोः ।
नयसे वश कलयसेऽद्भुतं दये
ऽहमसावपीह किमसानि ते पदम् ॥ ९० ॥
स्मरणं प्रणामकरणं तथाभिधा
गदनं च जातुचिदनक्वैरिणः ।
परमं भवार्तिहरमम्ब देहिनां
त्वदये गतिस्तव दये गरीयसी ॥ ९१ ॥
भवतापभीतमवताखिलं जनं
पुरमर्दनेन परमज्यते यशः ।
घनमम्ब यद्भुवनमङ्गलं दये
तदये श्रमच्छिदुदये त्वदाश्रयात् ॥ ९२ ॥
भुवने तवाम्ब नवने पटुर्द ये
परमत्र को नु झरमज्जितः स ते ।
शितमन्तूरौलशतमन्तकान्तको-
ऽखिलवेदिता न किल वेदितुं क्षमः ॥ ९३ ॥
मनसेह सर्वमनसेव यद्वहे
हरमेकमेव न रमे हि विस्मरन् ।
तदिमं त्वमेव हृदि मन्तुमाशु मे
करुणे यतस्व तरुणेन्दु शेखरम् ॥ ९४ ॥
किमतो ममाम्ब विमतो भवार्णव
स्तुदतीह मां न नुदतीदृशं शुचम्
गिरिजापतेरुपरि जातु मे दये
हृदयं कुरुष्व सदयं च तं च माम् ॥ ९५ ।।
चरणं नतार्तिहरणं विभोर्दये
नृतमो भजेत कतमो विना त्वया ।
तदमुं तवाम्ब पदमुन्नतं नय
प्रभवे मदथिंविभवेऽर्थिनी भव ॥ ९६ ॥
कमलासनश्ध कमलापतिश्च ते
कल्याप्नुतां हि तुलया विहीनताम् ।
स्वकरावलम्बसुकरामृतश्रियं
कुरु मे कुलेशितुरुमेशितुर्दये ॥ ९७ ॥
अपराधजालमपरा नुदेत का
भवर्ती विनोद्धृतवर्ती जगद्दये ।
जननीं प्रमोदजननीमृते शिशोः
शमलं प्रमार्जितुमलं परा तुका ॥ ९८ ॥
उमापतिरमापती मम शिव जहीतां मनो
न जातु करुणे यथा कुरु तथैव बुद्धि दृढाम् ।
तथैव रसनाममूं शिवशिवेति बागुद्धरां
न चैतदुभयं विना किमपि मेऽभिलाषास्पदम् ॥ ९९ ॥
प्रसोद करुणेऽधुना मनसि मे शिवं स्थापया-
नपायिनमुमासखं कुरु च मध्यनुग्राहकस् ।
तथा निशमिहासनं शिवपदस्य जिह्वाञ्चले
ददख मम काङ्क्षितद्वयमिदं त्वदेकायनम् ॥ १०० ॥
कालेऽन्तिमे शिवदये मम ते प्रसादा-
देतावदेव हृदये दृढमाविरस्तु ।
यद्व्यक्षरं शिवशिवेति तवास्पदीगं
मोक्षप्रदं भुवनमङ्गलनामधेयम् ॥ १०१ ॥
एवं दयास्तवमिमं पठतां हि भक्त्या
रोग्यापुरच्छ शिव भक्तिधनर्द्धिविद्याः ।
अग्रयान्सुतानपि यशश्च विमुक्तिमन्ते
श्रीपार्वतीशकरुणा दिशति प्रहृष्टा ॥ १०२ ।।
इति श्री श्रीधरवेंकटेश (अय्यावाळ्) विरचितम्
दयाशतकम् संपूर्णम् ॥