logo

|

Home >

Scripture >

scripture >

Sanskrit

आत्मार्पणस्तुतिः (अप्पय्यदीक्षित विरचिता) उन्मत्त पञ्चाशत् - Atmarpanastutih (Appayyadiksita Viracita) Unmatta Pancasat

कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं
   यस्मादित्थं विविधरचना सृष्टिरेषा बभूव ।
भक्तिग्राह्यस्त्वमिह तदपि त्वामहं भक्तिमात्रात्
   स्तोतुं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व ॥ १ ॥

क्षित्यादीनामवयववतां निश्चितं जन्म तावत्
   तन्नास्त्येव क्वचन कलितं कर्त्रधिष्टानहीनम् ।
नाधिष्टातुं प्रभवति जडो नाप्यनीशश्चभाव-
   स्तस्मादाद्यत्वमसि जगतां नाथ जाने विधाता ॥ २ ॥

इन्द्रं मित्रं वरुणमनिलं पद्मजं विष्णुमीशं
   प्राहुस्ते ते परमशिव ते मायया मोहितास्त्वाम् ।
एतैस्सार्धं सकलमपि यच्छक्तिलेशे समाप्तं
   स त्वं देव श्रुतिषु विदितः शम्भुरित्यादिदेवः ॥ ३ ॥

आनन्दाब्धैः कमपि च घनीभावमास्थाय रूपं
   शक्त्या सार्धं परममुमया शाश्वतं भोगमिच्छन् ।
अध्वातीते शुचिदिवसकृत् कोटिदीप्रे कपर्दिन्
   आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशैः ॥ ४ ॥

त्वं वेदान्तैर्विविधमहिमा गीयसे विश्वनेत-
   स्त्वं विप्राद्यैर्वरद निखिलैरिज्यसे कर्मभिस्स्वैः ।
त्वं दृष्टनुश्रविकविषयानन्दमात्रावितृष्णै-
   रन्तर्ग्रन्थिप्रविलयकृते चिन्त्यते योगिवृन्दैः ॥ ५ ॥

ध्यायन्तस्त्वां कतिचन भवं दुस्तरं निस्तरन्ति
   त्वत्पादाब्जं विधिवदितरे नित्यमाराधयन्तः ।
अन्ये वर्णाश्रमविधिरता पालयन्तस्वदाज्ञां
   सर्वं हित्वा भवजलनिधावेष मज्जामि घोरे ॥ ६ ॥

उत्पद्यापि स्मरहर महत्युत्तमानां कुलेऽस्मि-
   न्नास्वाद्य त्वमहिमजलधेरप्यहं शीकराणून्।
त्वत्पादार्चाविमुखहृदयश्चापलादिन्द्रियाणां
   व्यग्रतुच्छेष्वहह जननं व्यर्थयाम्येष पापः ॥ ७ ॥

अर्कद्रोणप्रभृतिकुसुमैरर्चनं ते विधेयं 
   प्राप्यं तेन स्मरहर फलं मोक्षसाम्राज्यलक्ष्मीः ।
एतज्जानन्नपि शिव शिव व्यर्थयन् कालमात्म-
   न्नात्मद्रोहि करणविवशो भूयसाधःपतामि ॥ ८ ॥

किं वा कुर्वे विषमविषयस्वैरिणा वैरिणाहं
   बद्धः स्वामिन वपुषि हृदयग्रन्थिना सार्धमस्मिन ।
उक्ष्णा दर्पज्वरभरजुषा साकमेकत्र बद्धः
   श्राम्यन्वत्सः स्मरहर युगे धावता किं करोतु ॥ ९ ॥

नाहं रोद्धुं करणनिचयं दुर्नयं पारयामि
   स्मारं स्मारं जनिपथरुजं नाथ सीदामिभीत्या ।
किं वा कुर्वे किमुचितमुह क्वाद्य गच्छामि हन्त
   त्वत्पादाब्जप्रपदनमृते नैव पश्यामुपायम् ॥ १० ॥

उल्लंघ्याज्ञामुडुपतिकलाचूड ते विश्ववन्द्य
   त्यक्ताचारः पशुवदधुना मुक्तलज्जश्चरामि ।
एवं नानाविधभवततिप्राप्तदीर्घापराधः
   क्लेशाम्भोधिं कथमहमृते त्वत्प्रसादात् तरेयम् ॥ ११ ॥

क्षाम्यस्येव त्वमहि करुणासागरः कृत्स्नमागः
   संसारोत्थं गिरिश सभयप्रार्थनादैन्यमात्रात् ।
यद्यप्येवं प्रतिकलमहं व्यक्तमागस्सहस्रं 
   कुर्वन् मूकः कथमिव तथा निस्त्रपः प्रार्थयेयम् ॥ १२ ॥

सर्वं क्षेप्तुं प्रभवति जनः संसृतिप्राप्तमाग-
   श्चेतः श्वासप्रशमसमये त्वत्पदाब्जे निधाय ।
तस्मिन् काले यदि मम मनो नाथ दोषत्रयार्तं 
   प्रज्ञाहीनं पुरहर भवेत् तत्कथं मे घटेत ॥ १३ ॥

प्राणोत्क्रान्तिव्यतिकरदलत्सन्धिबन्धे शरीरे
   प्रेमावेशप्रसरदमिताक्रन्दिते बन्धुवर्गे ।
अन्तः प्रज्ञामपि शिव भजन्नन्तरायैरनन्तै
   राविद्धोऽहं त्वयि कथमिमामर्पयिष्यामि बुद्धिम् ॥ १४ ॥

अद्यैव त्वत्पदनलिनयोरर्पयाम्यन्तरात्म-
   -न्नात्मानं मे सह परिकरैरद्रिकन्याधिनाथ ।
नाहं बोद्धुं शिव तव पदं न क्रिया योगचर्याः
   कर्तुं शक्नोम्यनितरगतिः केवलं त्वां प्रपद्ये ॥ १५ ॥

यः स्रष्टारं निखिलजगतां निर्ममे पूर्वमीश-
   स्तस्मै वेदानदित सकलान् यश्च साकं पुरणै: ।
तं त्वामाद्यं गुरुमहमसावात्मबुद्धिप्रकाशं 
   संसारार्तः शरणमधुना पार्वतीशं प्रपद्ये ॥ १६ ॥

ब्रह्मादीन् यः स्मरहर पशून् मोहपाशेन बद्ध्वा
   सर्वानेकश्चिदचिदधिकः कारयित्वात्मकृत्यम् ।
यश्चैतेषु स्वपदशरणान् विद्यया मोचयित्वा
   सान्द्रानन्दं गमयति परं धाम तं त्वां प्रपद्ये ॥ १७ ॥

भक्ताग्र्याणां कथमपि परैर्योऽचिकित्स्याममर्त्यै:
   संसाराख्यां शमयति रुजं स्वात्मबोधौषधेन ।
तं सर्वाधीश्वर भवमहादीर्घतीव्रामयेन
   क्लिष्टोऽहं त्वां वरद शरणं यामि सम्सारवैध्यम् ॥ १८ ॥

ध्यातो यत्नाद् विजितकरणैर्योगिभिर्यो विमृग्यः
   तेभ्यः प्राणोत्क्रमणसमये संनिधायात्मनैव ।
तद्व्याचष्टे भवभयहरं तारकं ब्रह्म देवः
   तं सेवेऽहं गिरिश सततं ब्रह्मविद्यागुरुं त्वाम् ॥ १९ ॥

दासोऽस्मीति त्वयि शिव मया नित्यसिद्धं निवेद्यं
   जानास्येतत्त्वमपि यदहं निर्गतिः संभ्रमामि ।
नास्त्येवान्यन्मम किमपि ते नाथ विज्ञापनीयं
   कारुण्यान्मे शरणवरणं दीनवृत्तेर्गृहाण ॥ २० ॥

ब्रह्मोपेन्द्रप्रभृतिभिरपि स्वेप्सितप्रार्थनाय
   स्वामिन्नग्रे चिरमवसरस्तोषयद्भिः प्रतीक्ष्यः ।
द्रागेव त्वां यदिह शरणं प्रार्थये कीटकल्पः
   तद्विश्वाधीश्वर तव कृपामेव विश्वस्य दीने ॥ २१ ॥

कर्मज्ञानप्रचयमखिलं दुष्करं नाथ पश्यन्
   पापासक्तं हृदयमपि चापारयन्सन्निरोद्धुम् ।
संसाराख्ये पुरहर महत्यन्धकूपे विषीदन्
   हस्तालम्बप्रपदनमिदं प्राप्य ते निर्भयोऽस्मि ॥ २२ ॥

त्वामेवैकं हतजनिपथे पान्थमस्मिन्प्रपञ्चे
   मत्वा जन्मप्रचयजलधेः बिभ्यतः पारशून्यात् ।
यत्ते धन्याः सुरवर मुखं दक्षिणं संश्रयन्ति
   क्लिष्टं घोरे चिरमिह भवे तेन मां पाहि नित्यम् ॥ २३ ॥

एकोऽसि त्वं शिव जनिमतामीश्वरो बन्धमुक्त्योः
   क्लेशाङ्गारावलिषु लुठतः का गतिस्त्वां विना मे ।
तस्मादस्मिन्निह पशुपते घोरजन्मप्रवाहे
   खिन्नं दैन्याकरमतिभयं मां भजस्व प्रपन्नम् ॥ २४ ॥

यो देवानां प्रथममशुभद्रावको भक्तिभाजां 
   पूर्वं विश्वाधिक शतधृतिं जायमानं महर्षिः ।
दृष्ट्यापश्यत् सकलजगतिसृष्टिसामर्थ्यदात्र्या
   स त्वं ग्रन्थिप्रविलयकृते विद्यया योजयास्मान् ॥ २५ ॥

यद्याकाशं शुभद मनुजाश्चर्मवद्वेष्टयेयुः
   दुःखस्यान्तं तदपि पुरुषस्त्वामविज्ञाय नैति ।
विज्ञानं च त्वयि शिव ऋते त्वत्प्रसादान्न लभ्यं
   तद्दुःखार्तः कमिह शरणं यामि देवं त्वदन्यम् ॥ २६ ॥

किं गूढार्थैरकृतकवचोगुम्फनैः किं पुराणैः
   तन्त्राद्यैर्वा पुरुषमतिभिर्दुर्निरूप्यैकमत्यैः ।
किं वा शास्त्रैरफलकलहोल्लासमात्रप्रधानैः
   विद्या विद्येश्वर कृतधियां केवलं त्वत्प्रसादात् ॥ २७ ॥

पापिष्टोऽहं विषयचपलः सन्ततद्रोहशाली
   कार्पण्यैकस्थिरनिवसतिः पुण्यगन्धानभिज्ञः ।
यद्यष्येवं तदपि शरणं त्वत्पदाब्जं प्रपन्नं
   नैनं दीनं स्मरहर तवोपेक्षितुं नाथ युक्तम् ॥ २८ ॥

आलोच्यैवं यदि मयि भवान् नाथ दोषाननन्तान्
   अस्मत्पादाश्रयणपदवीं नार्हतीति क्षिपेन्माम् ।
अद्यैवेमं शरणविरहाद्विद्धि भीत्यैव नष्टं
   ग्रामो गृह्णत्यहिततनयं किं नु मात्रा निरस्तम् ॥ २९ ॥

क्षन्तव्यं वा निखिलमपि मे भूतभावि व्यलीकं
   दुर्व्यापारप्रवणमथवा शिक्षणीयं मनो मे ।
न त्वेवार्त्या निरतिशयया त्वत्पदाब्जं प्रपन्नं
   त्वद्विन्यस्ताखिलभरममुं युक्तमीश प्रहातुम् ॥ ३० ॥

सर्वज्ञस्त्वं निरुपधिकृपासागरः पूर्णशक्तिः
   कस्मादेनं न गणयसि मामापदब्धौ निमग्नम् ।
एकं पापात्मकमपि रुजा सर्वतोऽत्यन्तदीनं
   जन्तुं यद्युद्धरसि शिव कस्तावतातिप्रसङ्गः ॥ ३१ ॥

अत्यन्तार्तिव्यथितमगतिं देवा मामुद्धरेति
   क्षुण्णो मार्गस्तव शिव पुरा केन वाऽनाथनाथ ।
कामालम्बे बत तदधिकां प्रार्थनारीतिमन्यां
   त्रायस्वैनं सपदि  कृपया वस्तुतत्त्वं विचिन्त्य ॥ ३२ ॥

एतावन्तं भ्रमणनिचयं प्रापितोऽयं वराकः
   श्रान्तः स्वामिन्नगतिरधुना मोचनीयस्त्वयाहम् ।
कृत्याकृत्यव्यपगतमतिर्दीनशाखामृगोऽयं
   संताड्यैनं दशनविवृतिं पश्यतस्ते फलं किम् ॥ ३३ ॥

माता तातः सुत इति समाबध्य मां मोहपशै
   रापात्यैवं भवजलनिधौ हा किमीश त्वयाऽऽप्तम् ।
एतावन्तं समयमियतीमार्तिमापादितेऽस्मिन्
   कल्याणी ते किमिति न कृपा कापि मे भाग्यरेखा ॥ ३४ ॥

भुङ्क्षे गुप्तं बत सुखनिधिं तात साधारणं त्वं
   भिक्षावृत्तिं परमभिनयन्मायया मां विभज्य ।
मर्यादायाः सकलजगतां नायकः स्थापकस्त्वं
   युक्तं किं तद्वद विभजनं योजयस्वात्मना माम् ॥ ३५ ॥

न त्वा जन्मप्रलयजलधेरुद्धरामीति चेद्धीः
   आस्तां तन्मे भवतु च जनिर्यत्र कुत्रापि जातौ ।
त्वद्भक्तानामनितरसुखैः पादधूलीकिशोरैः
   आरब्धं मे भवतु भगवन् भावि सर्वं शरीरम् ॥ ३६ ॥

कीटा नागास्तरव इति किं न सन्ति स्थलेषु
   त्वत्पादाम्भोरुहपरिमलोद्वाहिमन्दानिलेषु ।
तेष्वेकं वा सृज पुनरिमं नाथ दीनार्तिहारिन्
   आतोषान्मां मृड भवमहाङ्गारनद्यां लुठन्तम् ॥ ३७ ॥

काले कण्ठस्फुरदसुकलालेशसत्तावलोक-
   व्याग्रेदग्रव्यसनरुदितस्निग्धरुद्धोपकण्ठे ।
अन्तस्तोदैरवधिरहितामार्तिमापाद्यमानेऽ-
   प्यङ्घ्रिद्वन्द्वे तव निविशतामन्तरात्मन्ममात्मा ॥ ३८ ॥

अन्तर्बाष्पाकुलितनयनानन्तरङ्गानपश्यन्
   अग्रे घोषं रुदितबहुलं कातरानमशृण्वन् ।
अत्युत्क्रान्तिश्रममगणयन्नन्तकाले कपर्दिन्
   अङ्घ्रिद्वन्द्वे तव निविशतामन्तरात्मन्ममात्मा ॥ ३९ ॥

चारुस्मेराननसरसिजं चन्द्ररेखावतंसं
   फुल्लन्मल्लीकुसुमकलिकादामसौभाग्यचोरम् ।
अन्तः पश्याम्यचलसुतया रत्नपीठे निषण्णं
   लोकातीतं सततशुभदं रूपमप्राकृतं ते ॥ ४० ॥

स्वप्ने वापि स्वरसविकसद्दिव्यपङ्केरुहाभं
   पश्येयं किं तव पशुपते पादयुग्मं कदाचित् ।
क्वाहं पापः क्व तव चरणालोकभाग्यं तथापि
   प्रत्याशां मे घटयति पुनर्विश्रुता तेऽनुकम्पा ॥ ४१ ॥

भिक्षावृत्तिं चर पितृवने भूतसङ्घैर्भ्रमेदं
   विज्ञातं ते चरितमखिलं विप्रलिप्सोः कपालिन् ।
आवैकुण्ठद्रुहिणमखिलप्राणिनामीश्वरस्त्वं
   नाथ स्वप्नेऽप्यहमिह न ते पादपद्मं त्यजामि ॥ ४२ ॥

आलेपनं भसितमावसथः श्मशानम्
   अस्थीनि ते सततमाभरणानि सन्तु ।
निह्नोतुमीश निखिलश्रुतिसारसिद्धम्
   ऐश्वर्यमम्बुजभवोऽपि च न क्षमस्ते ॥ ४३ ॥

विहर पित्रुवने वा विश्वपारे पुरे वा
   रजतगिरितटे वा रत्नसानुस्थले वा ।
दिश भवदुपकण्ठं देहि मे भृत्यभावं
   परमशिव तव श्रीपादुकावाहकानाम् ॥ ४४ ॥

विविधमपि गुणौघं वेदयन्त्यर्थवादाः
   परिमितविभवानां पामराणां सुराणाम् ।
तनुहिमकरमौले तावता तत्परत्वे
   कति कति जगदीशाः कल्पिता नो भवेयुः ॥ ४५ ॥

बलमबलममीषां बल्बजानां विचिन्त्यं
   कथमपि शिव कालक्षेपमात्रप्रधानैः ।
निखिलमपि रहस्यं नाथ निष्कृष्य साक्षात्
   सरसिजभवमुख्यैः साधितं नः प्रमाणम् ॥ ४६ ॥

न किन्चिन्मेनेऽतः समभिलषणीयं त्रिभुवने
   सुखं वा दुःखं वा मम भवतु यद्भावि भगवन् ।
समुन्मीलत्पाथोरुहकुहरसौभाग्यमुषि ते
   पदद्वन्द्वे चेतः परिचयमुपेयान्मम सदा ॥ ४७  ॥

उदरभरणमात्रं साध्यमुद्दिश्य नीचे-
   ष्वसकृदुपनिबद्धामाहितोच्छिष्टभावाम् ।
अहमिह नुतिभङ्गीमर्पयित्वोपहारं
   तव चरणसरोजे तात जातोऽपराधी ॥ ४८ ॥

सर्वं सदाशिव सहस्व ममापराधं
   मग्नं समुद्धर महत्यमुमापदब्धौ ।
सर्वात्मना तव पादाम्बुजमेव दीनः
   स्वामिन्ननन्यशरणः शरणं प्रपद्ये ॥ ४९ ॥

आत्मार्पणस्तुतिरियं भगवन्निबद्धा
   यद्यप्यनन्यमनसा न मया तथापि ।
वाचापि केवलमयं शरणं वृणीते
   दीनो वराक इति रक्ष कृपानिधे माम् ॥ ५० ॥

आत्मार्पणस्तुतिः समाप्ता ॥

Related Content

वैद्यनाथाष्टकम् - Vaidyanathashtakam

श्रीरुद्राष्टकम् - Rudrashtakam

श्री मार्गसहायलिङ्ग स्तुतिः- Margasahayalingastuti of Appayy

दारिद्र्य दहन शिव स्तोत्रम् - Daridrya Dahana Shiva Stotram

द्वादश ज्योतिर्लिङ्ग स्मरणम् - Dvadasha Jyotirlinga Smaranam