logo

|

Home >

Scripture >

scripture >

Sanskrit

भेदभङ्गाभिधानस्तोत्रम् - Bhedabhanggaabhidhaana Stotram

 

Bhedabhanggaabhidhaana Stotram


चतुर्वाहनाभ्यम्बुजाद्भूतवन्तं भवन्तं भवच्छेदकर्तारमुग्रम् । 
मुखानां चतुष्कं दधानं प्रधानं शिवं सृष्टिकर्तारमीशानमीडे ॥१॥ 

 

उमाङ्कश्रितं स्वं करं चोत्क्षिपन्तं गिरीशोत्तमाङ्गस्थचन्द्रं दिधीर्षुम् । 
मुहुर्गर्जितं सस्मितं सर्वपूज्यं शिवं विघ्नहर्तारमीशानमीडे ॥२॥ 

 

सुमेरोः समन्तात्सदैवाशु यन्तं सहस्रोस्रभासा नभो भासयन्तम् । 
जगद्भद्रहेतोर्धृतानेकरूपं शिवं व्याधिहर्तारमीशानमीडे ॥३॥ 

 

रमाजानकीरुक्मिणीजाम्बवत्याद्यनेकस्वशक्तिस्फुरद्वामभागम् । 
हृषीकेशरामाघशित्र्वादिसंज्ञं शिवं सर्वदातारमीशानमीडे ॥ ४॥ 

 

धनाध्यक्षरूपेण ऋक्थान्यवन्तं कुबेरालकेशादिनामौघवन्तम् । 
पुलस्त्यान्वयोत्पत्तिभाजं विराजं शिवं द्रव्यदातारमीशानमीडे ॥५॥ 

 

प्रशस्तारुविद्यानिधानं सुधानं स्वभूस्वापपर्यङ्कतां सन्दधानम् । 
अनन्तावतारच्छलेनाधिशीष शिवं भूमिधर्तारमीशानमीडे ॥६॥ 

 

अनेकक्रियारूपनामप्रकाशैर्निजं देवतापञ्चकं दर्शयन्तम् । 
तथैवावतारान् दशान्यांश्च लोके नटं वाखिलं दैवतं ज्योतिरीडे ॥७॥ 

 

श्रुतेर्नेह नानेति शब्दप्रमाणैर्मुनिम्यस्तदर्थावयवैः पुराणैः । 
निजामेकतां द्योतयन्तां सुधीम्यः सदासच्चिदात्मानमीशानमीडे ॥८॥ 

 

अजस्रेश्वराराधने दत्तचेता महात्माच्युताद्याश्रमान्तः परिव्राट् । 
अकार्षीदिदं भेदभङ्गाभिधानं मुदे स्तोत्रमन्तर्भिदाभङ्गभाजाम् ॥९॥ 

 

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदच्युताश्रमविरचितं भेदभङ्गाभिधानस्तोत्रं समाप्तम् ॥ 

Related Content

Bhedabhanggaabhidhaana Stotram

भेदभङ्गाभिधानस्तोत्रम - Bhedabhanggaabhidhaana Stotram

ভেদভঙ্গাভিধানস্তোত্রম - Bhedabhanggaabhidhaana Stotram

ਭੇਦਭਙ੍ਗਾਭਿਧਾਨਸ੍ਤੋਤ੍ਰਮ - Bhedabhanggaabhidhaana Stotram

ભેદભઙ્ગાભિધાનસ્તોત્રમ - Bhedabhanggaabhidhaana Stotram