logo

|

Home >

Scripture >

scripture >

Sanskrit

बिल्वाष्टकम् - Bilvaashtakam

Bilvaashtakam


 

त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् । 
त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम् ॥१॥ 

 

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमळैः शुभैः । 
शिवपूजां करिष्यामि ह्येकबिल्वम् शिवार्पणम् ॥२॥ 

 

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । 
शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वम् शिवार्पणम् ॥३॥ 

 

शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् । 
सोमयज्ञमहापुण्यम् ह्येकबिल्वम् शिवार्पणम् ॥४॥ 

 

दन्तिकोटिसहस्राणि अश्वमेधशतानि च । 
कोटिकन्यामहादानम् ह्येकबिल्वम् शिवार्पणम् ॥५॥ 

 

लक्ष्म्याःस्तनत उत्पन्नं महादेवस्य च प्रियम् । 
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वम् शिवार्पणम् ॥६॥ 

 

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । 
अघोरपापसंहारम् ह्येकबिल्वम् शिवार्पणम् ॥७॥ 

 

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । 
अग्रतः शिवरूपाय ह्येकबिल्वम् शिवार्पणम् ॥८॥ 

 

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ । 
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥९॥ 

 

इति बिल्वाष्टकं संपूर्णम् ॥

 

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shr

चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnam

aparaadhabhanjanastotram