logo

|

Home >

Scripture >

scripture >

Sanskrit

शङ्कराष्टकम् - Shankaraashtakam

Shankaraashtakam


शीर्षजटागणभारं गरळाहारं समस्तसंहारम् ॥ 
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥१॥ 

 

चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् ॥ 
कृतनरमस्तकमलं कालं कालस्य कोमलं वन्दे ॥२॥ 

 

कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ॥ 
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥३॥ 

 

कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ॥ 
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥४॥ 

 

त्रिपुरादिकदनुजान्तं सदैव संशान्तम् ॥ 
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ॥५॥ 

 

सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम् ॥ 
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥६॥ 

 

करतलकलितपिनाकं विगतजराकंसुकर्मणां पाकम् ॥ 
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥७॥ 

 

भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् ॥ 
प्रथमसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥८॥ 

 

यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ॥ 
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥९॥ 

 

इति ब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं संपूर्णम् ॥

Related Content

shangkaraaShTakam

Shankaraashtakam

शङ्कराष्टकम - Shankara Ashtakam

शङ्कराष्टकम - Shankaraashtakam

शङ्कराष्टकम् - Shankara Ashtakam