logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवाथर्व शीर्षम् - Shivaatharvasheersham

Shivaatharvasheersham


ऒं देवा ह वै स्वर्गलोकमायंस्ते रुद्रमपृच्छन् को भवानिति । 
सोऽब्रवीदहमेकः प्रथममासीद्वर्तामि च 
भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति । 

 

सोऽन्तरादन्तरं प्राविशद्दिशश्चान्तरं प्राविशत् । 
सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा ब्रह्माहं प्राञ्चः 
प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोऽहममधश्चोर्ध्वश्चाहं 
दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं 
सावित्र्यहं गायत्र्यहं त्रिष्टुबूजगत्यनुष्टुप् चाऽहं 
छन्दोऽहं सत्योऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं 
गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं 
ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमास्वरों नम इति ॥ 

 

य इदमथर्वशिरो ब्राह्मणोऽधीते । 
अश्रोत्रियः श्रोत्रियो भवति । 
अनुपनीत उपनीतो भवति । 
सोऽग्निपूतो भवति । 
स वायुपूतो भवति । 
स सूर्यपूतो भवति । 
स सोमपूतो भवति । 
स सत्यपूतो  भवति । 
स सर्वैर्वेदैर्ज्ञातो भवति । 
सर्वैर्वेदैरनुध्यातो भवति । 
स सर्वेषु तीर्थेषु स्नातो भवति । 
तेन सर्वैः ऋतुभिरिष्टं भवति । 

 

गायत्र्याः  षष्ठिसहस्राणि जप्तानि भवन्ति । 
प्रणवानामयुतं जप्तं भवति । 

 

स चक्षुषः पङ्क्तिं पुनाति । 
आसप्तमात् पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः 

 

सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति । 
द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति । 

 

तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यं । 

इत्यथर्ववेदे शिवाथार्वशीर्षं संपूर्णम् ॥

Related Content

Shivaatharvasheersham

शिवाथर्व शीर्षम - Shivaatharvasheersham

শিৱাথর্ৱ শীর্ষম - Shivaatharvasheersham

ਸ਼ਿਵਾਥਰ੍ਵ ਸ਼ੀਰ੍ਸ਼ਮ - Shivaatharvasheersham

શિવાથર્વ શીર્ષમ - Shivaatharvasheersham