logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवपञ्चाक्षर नक्षत्रमाला स्तोत्रम् - Shivapanchakshara Nakshatramala Stotram

Shivapanchakshara Nakshatramala Stotram


श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय 
धामलेशधूतकोकबन्धवे नमः शिवाय । 
नामशेषितानमद्भवान्धवे नमः शिवाय
पामरेतरप्रधानवन्धवे नमः शिवाय ॥१॥ 

 

कालभीतविप्रबालपाल ते नमः शिवाय 
शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । 
मूलकारणाय कालकाल ते नमः शिवाय 
पालयाधुना दयाळवाल ते नमः शिवाय ॥ २॥ 

 

इष्टवस्तुमुख्यदानहेतवे नमः शिवाय 
दुष्टदैत्यवंशधूमकेतवे नमः शिवाय । 
सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय 
अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥३॥  

 

आपदद्रिभेदटङ्कहस्त ते नमः शिवाय 
पापहारि दिव्यसिन्धुमस्त ते नमः शिवाय । 
पापहारिणे लसन्नमस्तते नमः शिवाय 
शापदोषखण्डनप्रशस्त ते नमः शिवाय॥४॥ 

 

व्योमकेश दिव्यभव्यरूप ते नमः शिवाय 
हेममेदिनीधरेन्द्रचाप ते नमः शिवाय । 
नाममात्रदग्धसर्वपाप ते नमः शिवाय 
कामनैकतानहृद्दुराप ते नमः शिवाय ॥५॥ 

 

ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय 
जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय 
जिह्मकालदेहदत्तपद्धते नमः शिवाय ॥६॥ 

 

कामनाशनाय शुद्धकर्मणे नमः शिवाय 
सामगानजायमानशर्मणे नमः शिवाय । 
हेमकान्तिचाकचक्यवर्मणे नमः शिवाय 
सामजासुराङ्गलब्धचर्मणे नमः शिवाय ॥७॥ 

 

जन्ममृत्युघोरदुःखहारिणे नमः शिवाय  
चिन्मयैकरूपदेहधारिणे नमः शिवाय । 
मन्मनोरथावपूर्तिकारिणे नमः शिवाय 
सन्मनोगताय कामवैरिणे नमः शिवाय ॥८॥ 

 

यक्षराजबन्धवे दयाळवे नमः शिवाय 
दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय। 
पक्षिराजवाहहृच्छयालवे नमः शिवाय 
अक्षिफालवेदपूततालवे नमः शिवाय ॥९॥ 

 

दक्षहस्तनिष्ठजातवेदसे नमः शिवाय 
ह्यक्षरात्मने नमद्विडौजसे नमः शिवाय । 
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय 
उक्षराजवाह ते सतां गते नमः शिवाय ॥१०॥ 

 

राजताचलेन्द्रसानुवासिने नमः शिवाय 
राजमाननित्यमन्दहासिने नमः शिवाय । 
राजकोरकावतंसभासिने नमः शिवाय 
राजराजमित्रता प्रकाशिने नमः शिवाय ॥११॥ 

 

दीनमानबालिकामधेनवे नमः शिवाय 
सूनवाणदाहकृत्कृशानवे नमः शिवाय । 
स्वानुरागभक्तरत्न सानवे नमः शिवाय 
दानवान्धकारचण्डभानवे नमः शिवाय ॥१२॥ 

 

सर्वमङ्गळाकुचाग्रशायिने नमः शिवाय 
सर्वदेवतागणातिशायिने नमः शिवाय । 
पूर्वदेवनाशसंविधायिने नमः शिवाय 
सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥१३॥ 

 

स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय 
माकरन्दसारवर्षिभाषिणे नमः शिवाय । 
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय 
नैकजन्मपापजालशोषिणे नमः शिवाय ॥१४॥ 

 

सर्वजीवरक्षणैकशीलिने नमः शिवाय 
पार्वतीप्रियाय भक्तपालिने नमः शिवाय । 
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय 
शर्वरीशधारिणे कपालिने नमः शिवाय ॥१५॥ 

 

पाहि मामुमामनोज्ञदेह ते नमः शिवाय 
देहि मे वरं सिताद्रिगेह ते नमः शिवाय । 
मोहितर्षिकामिनीसमूह ते नमः शिवाय 
स्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥१६॥ 

 

मङ्गळप्रदाय गोतुरङ्ग ते नमः शिवाय 
गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय । 
सङ्गरप्रवृत्तवैरिभङ्ग ते नमः  शिवाय 
अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥१७॥ 

 

ईतितक्षणप्रदानहेतवे नमः शिवाय 
आहिताग्निपालकोक्षकेतवे नमः शिवाय । 
देहकान्तिधूतरौप्यधातवे नमः शिवाय 
गेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥१८॥ 

 

त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय 
दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय । 
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय 
रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥१९॥ 

 

न्यङ्कुपाणये शिवङ्कराय ते नमः शिवाय 
सङ्कटाब्धितीर्णकिङ्कराय ते नमः शिवाय । 
पङ्कभीषिताभयङ्कराय ते नमः शिवाय 
पङ्कजाननाय शङ्कराय ते नमः शिवाय ॥२०॥

 

कर्मपाशनाश नीलकण्ठ ते नमः शिवाय 
शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय । 
निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय 
कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥२१॥ 

 

विष्टपाधिपाय नम्रविष्णवे नमः शिवाय 
शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय । 
इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय 
कष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥२२॥ 

 

अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय 
सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय । 
स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय 
विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥२३॥ 

 

सेवकाय मे मृड प्रसीद ते नमः शिवाय 
भावलभ्य तावकप्रसाद ते नमः शिवाय । 
पावकाक्ष देवपूज्यपाद ते नमः शिवाय 
तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥२४॥ 

 

भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय 
शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय । 
भक्तसङ्कटापहारयोगिने नमः शिवाय 
युक्तसन्मनः सरोजयोगिने नमः शिवाय ॥२५॥ 

 

अन्तकान्तकाय पापहारिणे नमः शिवाय 
शन्तमाय दन्तिचर्मधारिणे नमः शिवाय । 
सन्तताश्रितव्यथाविदारिणे नमः शिवाय 
जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥२६॥ 

 

शूलिने नमो नमः कपालिने नमः शिवाय 
पालिने विरिञ्चितुण्डमालिने नमः शिवाय । 
लीलिने विशेषरुण्डमालिने नमः शिवाय 
शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥२७॥ 

 

शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणिघटिताम् । 
नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः ॥२८॥ 

 

इति श्रीमत्परमहंसपरिब्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम् ॥

Related Content

शिवपंचाक्षरस्तोत्रम् - Shivapanchakshara Stotram

शिवपञ्चाक्षर नक्षत्रमाला स्तोत्रम - Shivapanchakshara Naksha

शिवपञ्चाक्षर स्तोत्रम - Shivapanchakshara Stotram

शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम - Shiva panchakshara nakshat

श्रीचिदम्बर नटेश्वर पञ्चाक्षरी त्रिशती नामावलिः - Sri Chidam