logo

|

Home >

Scripture >

scripture >

Sanskrit

विश्वेश्वरलहरी - Vishveshvaralahari

Vishveshvaralahari

सिद्धिबुद्धिपतिं वन्दे श्रीगणादीश्वरं मुदा ।
तस्य यो वन्दनं कुर्यात् स धीनां योगमिन्वति ॥१॥

वन्दे काशीपतिं काशी जाता यत्कृपया पुरी ।
प्रकाशनार्थं भक्तानां होतारं रत्नधातमम् ॥२॥

भक्तावनं करोमीति मा गर्वं वह शङ्कर ।
तेभ्यः स्वपूजाग्रहणात्तवेतत्सत्यमङ्गिरः ॥३॥

मुधा लक्ष्मीं कामयन्ते चञ्चलां सकला जनाः ।
काशीरूपां कामयेऽहं लक्ष्मीमनपगामिनीम् ॥४॥

प्राप्नुवन्तु जना लक्ष्मीं मदान्धनृपसेवनात् ।
लभे विश्वेशसेवातो गामश्वं पुरुषानहम् ॥५॥

न मत्कुटुंबरक्षार्थं माहूयामि श्रियं बुधाः ।
विश्वेश्वराराधनार्थं श्रियं देवीमुपह्वये ॥६॥

आपातरमणीयेयं श्रीर्मदान्धकरी चला ।
असारसंसृतौ काशीं सा हि श्रीरमृता सताम् ॥७॥

काशी गङ्गाऽन्नपूर्णा च विश्वेशाद्याश्च देवताः ।
अवन्तु बालमज्ञं मामुशतीरिव मातरः ॥८॥

सदैव दुःखकारिणीं न संसृतिं हि कामये
शिवप्रियां सुखप्रदां परां पुरीं हि कामये ।
स्वभक्तदुःखहारकं मनोरथप्रपूरकं
शिवं सदा मुदा भजे महेरणाय चक्षसे ॥९॥

स्वसेवकसुतादीनां पालनं कुर्वते नृपाः ।
पास्येवास्मांस्तु विश्वेश गीर्वाणः पाहि नः सुतान् ॥१०॥

निषेव्य काशिकां पुरीं सदाशिवं प्रपूज्य वै
गुरोर्मुखारविन्दतः सदादिरूपमद्वयम् ।
विचार्य रूपमात्मनो निषेध्य नश्वरं जडं
चिदात्मना तमोभिदं धनेन हन्मि वृश्चिकम् ॥११॥

हे भागीरथि हे काशि हे विश्वेश्वर ते सदा ।
कलयामि स्तवं श्रेष्ठमेष रारन्तु ते हृदि ॥१२॥

विश्वनाथ सदा काश्यां देह्यस्मभ्यं धनं परम् ।
पुरा युद्धेषु दैत्यानां विद्महे त्वां धनञ्जयम् ॥१३॥

अविनाशि पुरा दत्तं भक्तेभ्यो द्रविणं त्वया ।
काशिविश्वेशगङ्गे त्वामथ ते स्तुम्नमीमहे ॥१४॥

संसारदाववह्नौ मां पतितं दुःखितं तव ।
विश्वेश पाहि गङ्गाद्यैरागत्य वृषभिः सुतम् ॥१५॥

काशीं प्रति वयं याम दयया विश्वनाथ ते ।
तत्रैव वासं कुर्याम वृक्षे न वसतिं वयः ॥१६॥

हे सरस्वति हे गङ्गे हे कालिन्दि सदा वयम् ।
भजामामृतरूपं तं यो वः शिवतमो रसः ॥१७॥

विश्वनाथेदमेव त्वां याचाम सततं वयम् ।
स्थित्वा काश्यामध्वरे त्वां हविष्मन्तो जरामहे ॥१८॥

सर्वासु सोमसंस्थासु काश्यामिन्द्रस्वरूपिणे ।
हे विश्वेश्वर ते नित्यं सोमं चोदामि पीतये ॥१९॥

काश्यां रौद्रेषु चान्येषु यजाम त्वां मखेषु वै ।
हे विश्वेश्वर देवैस्त्वं रारन्धि सवमेषु नः ॥ २०॥

मां मोहाद्या दुर्जनाश्च बाधन्ते निष्प्रयोजनम् ।
विश्वेश्वर ततो मे त्वां वरुत्रीं धिषणां वह ॥२१॥

रुद्राक्षभस्मधारी त्वां काश्यां स्तौमीश संस्तवैः ।
त्वत्पादांबुजभृङ्गं मां न स्तोतारं निदेकरः ॥२२॥

विहाय चञ्चलं वधूसुतादिकं हि दुःखदं
त्वदीयकामसंयुता भवेम काशिकापुरी ।
स्वसेवकार्तिनाशक प्रकृष्टसंविदर्पक
भवैव देव सन्ततं ह्युतत्वमस्मयुर्वसो ॥२३॥

विश्वेश काश्यां गङ्गायां स्नात्वा त्वां रम्यवस्तुभिः ।
पूजयाम वयं भक्त्या कुशिकासो अवस्यवः ॥२४॥

विश्वेश नित्यमस्मभ्यं भयमुत्पादयन्ति ये ।
तेषां विधायोपमर्दं ततो नो अभयं कृधि ॥२५॥

राक्षसानां स्वभावोऽयं बाध्या विश्वेश जीवकाः ।
भक्तानुकंपया शंभो सर्वं रक्षो निबर्हय ॥२६॥

विश्वेश्वर सदा भीतः संसारर्णवज्जनात् ।
मां पालय सदेति त्वां पुरुहूतमुपब्रुवे ॥२७॥

इदं विमृश्यनश्वरं जडं सदैव दुःखदं
समर्चितुं शिवं गताः पराः पुरीं यतो द्विजाः ।
ततोऽभिगम्य तां पुरीं समर्च्य वस्तुभिः परैः
शिवं स्वभक्तमुक्तिदं तमिल्यखित्व ईमहे ॥२८॥

काश्यां वयं सदैव त्वां यजाम सकलैर्मखैः ।
विश्वेश्वर त्वं समग्रैर्देवैरासत्सि बर्हिषि ॥२९॥

यक्षेश्वरेण रक्षितं श्रेष्ठं धनमखेषु ते ।
देहि व्ययाय शङ्कर ह्यस्मभ्यमप्रतिष्कृतः ॥३०॥

मत्पूर्वजा महाशैवा भस्मरुद्राक्षधारिणः ।
विश्वेश्वर सुरेषु त्वामद्वशमिव येमिरे ॥३१॥

शंभोर्विधाय येऽर्चनं तिष्ठन्ति तत्परा यदा ।
तान् शङ्करो गिरे द्रुतं यूथेन वृष्णिरेजति ॥३२॥

त्वां पूजयामीश सुरं मानसैर्दिव्यवस्तुभिः ।
हे विश्वेश्वर देवैस्त्वं सोम रारन्धि नो हृदि ॥३३॥

प्रादुर्भवसि सद्यस्त्वं क्लेशो भक्तजने यदा ।
ततोऽहं क्लेशवान् कुर्वे सद्योजाताय वै नमः ॥३४॥

वामदेवेति मनू रम्यतां यस्य सञ्जगौ ।
ईशस्तस्मात्कियते वामदेवाय ते नमः ॥३५॥

दयासिन्धो दीनबन्धो योऽस्तीश वरदः करः ।
अस्माकं वरदानेन स युक्तस्तेऽस्तु दक्षिणः ॥३६॥

दुष्टभीतस्य मे नित्यं करस्तेऽभयदायकः ।
महेशाभयदाने स्यादुत सव्यः शतक्रतो ॥३७॥

महेश्वरीयपदपद्मसेवकः पुरन्दरादिपदनिःस्पृहः सदा ।
जनोऽस्ति यः सततदुर्गतः प्रभो पृणक्षि वसुना भवीयसा ॥३८॥

रक्षणाय नास्ति मे त्वां विनेश साधनम् ।
निश्चयेन हे शिव त्वामवस्युराचके ॥३९॥

रोगैर्दुःखैर्वैरिगणैश्च युक्तास्त्वद्दासत्वाच्छङ्कर तत्सहस्व ।
रम्यं स्तोत्रं रोषकरं वचो वा यत्किञ्चाहं त्वायुरिदं वदामि ॥४०॥

ध्यायाम वस्तु शङ्करं याचाम धाम शङ्करम् ।
कुर्याम कर्म शङ्करं वोचेम शन्तमं हृदे ॥४१॥

माता तातः स्वादिष्ठं च पौष्टिकं मन्वाते वाक्यं बालस्य कुत्सितम् ।
यद्वत्तद्वाक्यं मेऽस्तु शंभवे स्वादोः स्वादीयो रुद्राय बन्धनम् ॥४२॥

शिवं सुगन्धिसंयुतं स्वभक्तपुष्टिवर्धनम् ।
सुदीनभक्तपालकं त्रियम्बकं यजामहे ॥४३॥

देव देव गिरिजावल्लभ त्वं पाहि पाहि शिव शंभो महेश ।
यद्वदामि सततं स्तोत्रवाक्यं तज्जुषस्व कृधि मा देववन्तम् ॥४४॥

त्यक्त्वा सदा निष्फलकार्यभारं धॄत्वा सदा शङ्करनामसारम् ।
हे जीव जन्मान्तकनाशकारं यक्ष्यामहे सौमनसाय रुद्रम् ॥४५॥

स्थित्वा काश्यां निर्मलगङ्गातोये स्नात्वा संपूज्य त्रिदशेश्वरं वै ।
तस्य स्तोत्रं पापहरैस्तु देव भद्रं कर्णेभिः शृणुयाम देवाः ॥४६॥

वाराणस्यां शङ्करं सुराढ्यं संपूज्येशं वसुभिः सुकान्तैः ।
अग्रे नृत्यन्तः शिवस्य रूपं भद्रं पश्येमाक्षभिर्यजत्राः ॥४७॥

इच्छामस्त्वां पूजयितुं वयं विश्वेश सन्ततम् ॥
प्रयच्छ नो धनं श्रेष्ठं यशसं वीरवत्तमम् ॥४८॥

काश्यामुषित्वा गङ्गायां स्रात्वा संपूज्य शङ्करम् ।
ध्यात्वा तच्चरणौ नित्यमलक्ष्मीर्नाशयाम्यहम् ॥४९॥

असत्पदं स्वहर्षदं न चान्यहर्षदायकं
सदा मुदा प्रसूर्यथा शृणोति भाषितं शिशोः ।
शिवापगाशिवाबलाशिवालयासमन्वित-
स्तथा शिवेश नः सुरैर्गिरमुपश्रुतिं चर ॥५०॥

सगरस्यात्मजा गङ्गे मताः सन्तारितास्त्वया ।
अगरस्यात्मजा तस्मात् किं न तारयसि ध्रुवम् ॥५१॥

प्रायिकोऽयं प्रवादोऽस्तु तरन्ति तव सन्निधौ ।
तारकं नाम ते गङ्गे सन्निधेः किं प्रयोजनम् ।५२॥

मीनैरायतलोचने वसुमुखीवाब्जेन रोमावलीयुक्तो
राजवतीव पद्ममुकुलैः शैवालवल्ल्या युतैः ।
उद्भास्वज्जघनेन वालपुलिनैरुद्यद्भुजेवोर्मिभिर्-
गर्तेनोज्ज्वलनाभिकेव विलसत्येषा परं जाह्नवी ॥५३॥

शृङ्गारितां जलचरैः शिवसुन्दराङ्ग-
सङ्गां सदापहृतविश्वधवान्तरङ्गाम्
भृङ्गाकुलांबुजगलन्मकरन्दतुन्द-
भृङ्गावलीविलसितां कलयेऽथ गङ्गाम् ॥५४॥  

विश्वेशोऽसि धनाधिपप्रियसखा किं चान्नपूर्णापतिर्-
जामाता धरणीमृतो निरुपमाष्टैश्वर्ययुक्तः स्वयम् ।
चत्वार्येव तथापि दास्यसि फलान्यात्माश्रयान्ते चिरं
तेभ्योऽतो बत युज्यते पशुपते लब्धावतारस्तव ॥५५॥

दोषाकरं वहसि मूर्ध्नि कलङ्कवन्तं कण्ठे द्विजिह्वमतिवकगतिं सुघोरम् ।
पापीत्ययं मयि कुतो न कृपां करोषि युक्तैव ते विषमद्दष्टिरतो महेश ।५६॥

अस्ति त्रिनेत्रमुडुराजकला ममेति  
गर्वायते ह्यतितरां बत विश्वनाथ ।
त्वद्वासिनो जननकाशिशशाङ्कचूडा-
भालेक्षणाश्च न भवन्ति जनाः कियन्तः ॥५७॥

कामं सन्त्यज नश्वरेऽत्र विषये वामं पदं मा विश
क्षेमं चात्मन आचर त्वमदयं कामं स्मरस्वान्तकम् ।
भीमं दण्डधरस्य योतिहृदयारामं शिरप्रोल्लस-
त्सोमं भावया विश्वनाथमनिशं सोमं सखे मानसे ॥५८॥

संपूज्य त्रिदशवरं सदाशिवं यो
विश्वेशस्तुतिलहरीं सदा पठेद्वै ।
कैलासे शिवपदकञ्जराजहंस
आकल्पं स हि निवसेच्छिवस्वरूपः ॥५९॥

अनेन प्रीयतां देवो भगवान् काशिकापतिः ।
श्रीविश्वनाथः पूर्वेषामस्माकं कुलदैवतम् ॥६०॥

इयं विश्वेशलहरी रचिता खण्डयज्वना ।
विश्वेशतुष्टिदा नित्यं वसतां हृदये सताम् ॥६१॥

नाम्ना गुणैश्चापि शिवैव माता तातः शिवस्त्रयम्बकयज्वनामा ।
मल्लारिदेवः कुलदैवतं मे श्रीकौशिकस्यास्ति कुले च जन्म ॥६२॥

इति श्रीगणेशदीक्षितात्मजत्र्यम्बकदीक्षिततनूजखण्डराजदीक्षितविरचिता विश्वेश्वरलहरी संपूर्णा ॥

Related Content

Shivananda lahari

Jeevanmuktandalahari Stotram

Sadashiva Pancharatnam

श्री शिवानन्द लहरी - shivaananda lahari

જીવન્મુક્તાનન્દલહરી સ્તોત્રમ - Jeevanmuktananda Lahari Stotr