logo

|

Home >

Scripture >

scripture >

Sanskrit

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम् - Apamrutyuharam Mahamrutyunjjaya Stotram

Apamrutyuharam Mahamrutyunjjaya Stotram


अपमृत्युहरं महामृत्युञ्जय स्तोत्रम्

ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः अनुष्टुप् छन्दः 
श्रीमृत्युञ्जयो देवता गौरी शक्तिः मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं
च जपे विनियोगः ।

अथ ध्यानम् ॥

चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं
मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभुम् ।

कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्तं विश्वविमोहनं पशुपतिं मॄत्युञ्जयं भावयेत् ।

ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्य़ति ॥१॥

नीलकण्ठं कालमूर्तिं कालज्ञं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्य़ति ॥२॥

नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥

वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥४॥

देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥

त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥

भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥

अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८॥

आनन्दं परमं नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९॥

अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०॥

प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११॥

व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२॥

गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३॥

गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥६॥

अनाधः परमानन्दं कैवल्यपदगामिनि ।
नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥७॥

स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् ।
नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥८॥

उत्पत्तिस्थितिसंहारं कर्तारमीश्वरं गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥९॥

मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मॄत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१०॥

शतावर्तं प्रकर्तव्यं सङ्कटे कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥

मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥१२॥

तावतस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यं मनुं जपेत् ॥१३॥

नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥१४॥

इति श्रीमार्कणडेयपुराणे मार्कण्डेयकृतमपमृत्युहरं
    महा मृत्युञ्जयस्तोत्रं संपूर्णम् ॥

 

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shr

चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnam

aparaadhabhanjanastotram