logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवमानसपूजास्तोत्रम् - Shivamanasapuja Stotram

 

sanskrit PDF


रत्नैः कल्पितमासनं हिमजलैः स्नानं च  दिव्यांबरं नानारत्नविभूषितं मृगमदामोदांकितं चन्दनम् । 
जातीचंपक बिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रंभाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरि मृदंग काहलकला गीतं च नृत्यं तथा । 
साष्टांगं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाःशरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । 
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥४॥

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्री महादेव शंभो ॥५॥

इति श्रीमच्छंकराचार्यविरचितं शिवमानसपूजास्तोत्रं समाप्तम् ॥

Related Content

upamanyukrutam shivastotram

shivabhujanga prayaata stotram

Sadashiva Pancharatnam

Vishveshvara Neeraajanam

nirvana-dasakam