॥ आर्तिहर स्तोत्रम् ॥
श्रीशम्भो मयि करुणा शिशिरां दृष्टिं दिशन् सुधावृष्टिम् ।
सन्तापमपाकुरु मे मन्ता परमेशे तव दयायाः स्याम् ॥१
अवसीदामि यदार्तिभिरनुगुणमिदमोकसोऽम्हसां खलु मे ।
तवसन्नवसीदामि यदन्तकशासन न तत्तवानुगुणम् ॥ २
देव स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम् ।
कलयसिशिवपाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम् ॥३
आदिशयाघकृतौ मामन्त्तर्यामिन्नसावघात्मेति ।
आर्तिषु मज्जयसे मां किं ब्रूयां तव कृपैक पात्रमहम् ॥ ४
मन्दाग्रणीरहं तव मयि करुणां घटयितुं विभो नालम् ।
आक्रष्टं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिमि ॥ ५
त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोऽहं ईस्वरस्त्वमसि ।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया नत्वाम् ॥६
आश्रीतमार्ततरं मामुपेक्षसे किमिति शिव न किं दयसे ।
श्रितगोप्तादीनार्ति हृदिति खलु शंसन्ति जगति सन्तस्त्वाम् ॥७
प्रहराहरेतिवादी फणितमदाख्य इति पालितो भवता ।
शिवपाहीति वदोऽहं श्रितो न किं त्वां कथं न पाल्यस्ते ॥ ८
शरणं व्रज शिवमार्तीस्स तव हरेदिति सतां गिराहं त्वाम् ।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान् माम् ॥ ९
॥ इति श्री श्रीदरवेङ्कटेशार्य कृतिषु आर्तिहरस्तोत्रं समाप्तम् ॥