logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीमदप्पयदीक्षितविरचितम् श्री गङ्गाधराष्टकम् - Srimad Appayya Dikshithar's Sri Gangadhara Ashtakam

Srimad Appayya Dikshithar's 
Sri Gangadhara Ashtakam


॥श्री गङ्गाधराष्टकम् ॥

क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यंआनान् सुरान्
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निश्शङ्कं निजलीलया कबळयन्लोकान् रक्षादरा
दार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥१॥

क्षीरं स्वादु निपीय मातुलगृहे ग्तवा स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवा
नार्तत्राणपसयणस्स भगवान्गङ्गाधरो मे गतिः ॥२॥

मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयंअपालयत्करुणया लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेषऽभीष्टं रथाङ्गन्ददावा
र्तत्राणपरायणस्स भगवान्गङ्गाधरो मे गतिः ॥३॥

सोढुं द्रोणजयद्रथादिरथिकैस्सैन्यं महात्कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधय
त्रार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥४॥

बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं धातुं समुद्यत्करम् ।
दृष्ट्वानम्यविरिञ्चिरम्यनगरे पूजां त्वदीयाम्भज
न्नार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥५॥

सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके
ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन्यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणा
दार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥६॥

श्रौतस्मार्तपथो पराङ्मुखमपि प्रोद्यन्महापाताकं
विश्वाधीशमपत्यंएव गतिरित्यालापवन्तं सकृत् ।
रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥७॥

गाङ्गं वेगमवाप्य मान्यविबुधैस्सोढुं पुरा या चितो
दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयन्पावनी
मार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥८॥

॥इति श्रीमदप्पयदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥

 

Related Content

ਸ਼੍ਰਿਇ ਕਾਲਭੈਰਵਾਸ਼੍ਹ੍ਟਕਂ - Kaalabhairavaashtakam

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

विश्वनाथाष्टकम - vishvanathashtakam

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram