logo

|

Home >

Scripture >

scripture >

Sanskrit

उपमन्युकृतं शिवस्तोत्रम् - Upamanyukrutam Shivastotram

Upamanyukrutam Shivastotram

 

उपमन्युकृतं शिवस्तोत्रम् - PDF


उपमन्युकृतं शिवस्तोत्रम् 

जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन ।
मदनान्तक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥१॥ 

सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ 

महतः परितः प्रसर्पतस्तमसो दर्शनमेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥ 

न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥४॥

त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु कीद्रुक्सितशर्करान्वितम् ॥५॥ 

सविषोऽप्यमृतायते भवाच्छवमुण्डाभरणोऽपि पावनः ।
भव एव भवान्तकः सतां समद्रुष्टिर्विषमोक्षणोऽपि सन् ॥६॥ 

अपि शूलधरो निरामयो द्रुढवैराग्यरतोऽपि रागवान् ।
अपि भैक्ष्यचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥७॥ 

वितरत्यभिवाञ्छितं द्रुशा परिद्रुष्टः किल कल्पपादपः ।
हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥८॥ 

सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥९॥ 

सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतम् ।
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥१०॥ 

मुनयो बहवोऽद्य धन्यतां गमिताः स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥११॥

प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥१२॥ 

बहवो भवताऽनुकंपिताः किमितीशान न माऽनुकंपसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥

अशुचिं यदि माऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते ।
उत शाठ्यमसाधुसङ्गिनं विषलक्ष्मासि न किं द्विजिह्वधृक् ॥१४॥ 

क्व द्दशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः ।
क्व नु तिष्ठसि रक्ष रक्ष मामयि शंभो शरणागतोऽस्मि ते ॥१५॥ 

विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरश्छिनद्मि वा ।
किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥१६॥ 

शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥१७॥ 

शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥१८॥ 

उपमन्युकृतं स्तवोत्तमं जपतः शंभुसमीपवर्तिनः ।
अभिवाञ्छितभाग्यसम्पदः परमायुः प्रददाति शङ्करः ॥१९॥ 

उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ ।
शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते ॥२०॥ 

इत्युपमन्युकृतं शिवस्तोत्रं संपूर्णम् ॥

 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram