logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवस्तुतिः (लङ्केश्वर विरचिता) - Shivastutih (Langkeshvara Virachitaa)

Shivastutih 
(Langkeshvara Virachitaa)

 

शिवस्तुतिः (लङ्केश्वर विरचिता) - PDF


शिवस्तुतिः 
(लङ्केश्वरविरचिता)

गले कलितकालिमः  प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १॥ 

वृषोपरि परिस्फुरद्धवळधाम धाम श्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥२॥ 

उदित्वरविलोचनत्रयविसुत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् ।
षिकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥३॥ 

विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥४॥

भवद्भवनदेहलीनिकटतुण्डदण्डाहतित्रुटन्मुकुटकोटिमिर्मघवदादिमिर्भूयते व्रजेम 
भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथामहे ॥५॥

त्वदर्चनपरायणप्रमथकन्यकालुंठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धसीमन्तीनीप्रकीर्णसुमनोमनोरमणमेरुणा मेरुणा॥६॥ 

न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथाऽस्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भवानि पूजापरः ॥७॥ 

विभूषणसुरापगाशुचितरालवालावलीवलद्वहलसी करप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी निमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥८॥ 

बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं बटुविभृश्यमानां भजे ॥९॥

त्वदीयसुरवाहिनीविमलवारिधाराबलज्जटागहनगाहिनी मतिरियं मम क्रामतु ।
उपोत्तमसरित्तटीविटपिताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥१०॥ 

इति लङ्केश्वरविरचिता शिवस्तुतिः संपूर्णा॥ 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr

রাবণকৃতং শিবতাণ্ডব স্তোত্রম্ - Ravanakrutam Shivatandava Sto