महारुद्र स्तोत्रम्
वाण्या ओङ्काररूपिण्या अंत उक्तोऽस्य नान्यथा ।
सुरस्रिभुवनेशः स नः सर्वांतः स्थितोऽवतु ॥१॥
देवोऽयं सर्वदेवायः सूरिरुन्मत्तवत्स्थितः ।
वाहो बलीवर्दकोऽस्य याचकस्येष्टदः स तु ॥२॥
नंदिस्कंधाधिरूढोऽपि त्रिप्रमित्यतिगः स्वभूः ।
दशा यस्य न शंभुं तं संतं वंदेऽखिलात्मकम् ॥३॥
सद्योजातोऽष्टमूर्तिः स भूतबंदिस्ततो जितः ।
रक्ष मन्मथहन्नाथ तोकधर्माणमद्य माम् ॥४॥
स्वतो हेतोर्जगद्धेतो दयानाथांबिकापते ।
तीव्रासुहृत्रिविधहृत्तापान्मृत्योश्च मामव ॥५॥
कृतागसमपि त्राह्यत्रेर्मृत्योस्त्वं च मिषक्तमः ।
तत्संधिं भिंधि सर्वाकयोनेर्मुञ्चस्व मां शिव ॥६॥
श्रीद पुष्टिद ते व्याप्तं दिक्षु क्षीरनिभं यशः ।
रुङ्मार्ष्टिकृद्रक्ष मां त्वं गंगा यन्मूर्ध्नि चर्क्षराट् ॥७॥
द्रष्टा वसति सर्वत्र बत मामीक्षसे न किम् ।
स्तुतेर्धर्मेशशक्तिर्निरस्तमृत्योनमेजते ॥८॥
तिष्ठानंदद चित्ते मे समंतात् परिपालय ॥९॥
इति श्रीवासुदेवानंदसरस्वतीविरचितं महारुद्र स्तोत्रं संपूर्णम् ॥