logo

|

Home >

Scripture >

scripture >

Sanskrit

अनादि कल्पेश्वर स्तोत्रम् - Anadikalpeshvara Stotram

Anadikalpeshvara Stotram

 

अनादि कल्पेश्वर स्तोत्रम् - PDF


अनादिकल्पेश्वरस्तोत्रम् ।

कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावरः सः ।
सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥१॥

कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी ।
काशीनिवासी विजयप्रकाशी  योऽनादिकल्पेश्वर एव सोऽसौ ॥२॥ 

त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी ।
कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ॥३॥ 

लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः ।
विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥४॥ 

लिङ्गं परिच्छेत्तुमधोगतस्य नाराणश्चोपरि लोकनाथः ।
बभूवतुस्तावपि नो समर्थो योऽनादिकल्पेश्वर एव सोऽसौ ॥५॥ 

यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्व सोऽत्र ।
कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ ॥६॥ 

सकृच्च धाणोऽवनमय्य शीर्षं यस्याग्रतः सोऽप्यलभत्समृद्धिम् ।
देवेन्द्रसंपत्त्यविकाङ्गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ ॥७॥ 

गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य ।
श्रुतिश्च नूनं चकितं बभाषे योऽनादिकल्पेश्वर एव सोऽसौ ॥८॥ 

अनादि कल्पेश उमेश एतत् स्तवाष्टकं यः पठति त्रिकालम् ।
सधौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत् ॥९॥ 

इति श्रीवासुदेवानन्दसरस्वतीकृतमनादिकल्पेश्वरस्तोत्रं संपूर्णम् ॥

Related Content

Abhayankaram Shivaraksha Stotram

Anaadi Kalpeshvara Stotram - Romanized

aparaadhabhanjanastotram

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

bhaktasharaNastotram