शिवानन्दलहरीस्तोत्रम् ।
पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान् सुवेशान् स्वर्णालङ्करणकलिताञ्चित्रसद्रुशान् ।
स्वयं साक्षी द्रष्टेत्यपि च कलयंस्तैः सह रमन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१॥
वने वृक्षान्पश्यन् दलफलभरान्नम्रमुशिखान्घनच्छायाछन्नान् बहुलकलकूजद्विजगणान् ।
भक्षन् घस्रे रात्राववनितलतल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥२॥
कदाचित्प्रासादे क्वचिदपि तु सौधे च धवळे कदाकाले शैले क्वचिदपि च कूले च सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥३॥
क्वचिद्वालैः सार्धे करतलजतालैश्च हसितैः क्वचिद्वै तारुण्याङ्कितचतुरनार्या सह रमन् ।
क्वचिद्वैद्धश्चिन्तां क्वचिदपि तदन्यैश्च विलपन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥४॥
कदाचिद्विद्वद्भिर्विविधसुपुरानन्दरसिकैः कदाचित्काव्यालङ्कृतरसरसालैः कविवरैः ।
वदन्वादांस्तकैंरनुमितिपरैस्तार्किकवरैर्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ ५॥
कदा ध्यानाभ्यासैः क्वचिदपि सपर्या विकसितैः सुगन्धै सत्पुष्पैः क्वचिदपि दलैरेव विमलैः ।
प्रकुर्वन्देवस्य प्रमुदितमनाः संस्तुतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥६॥
शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटतपनस्यापि च कदा ।
पठन्वै नामालिं नयनरचितानन्दसलिलो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥७॥
कदा गङ्गांभोभिः क्वचिदपि च कूपोत्थितजलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।
भजन्स्नानैर्भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥८॥
कदाचिज्जागृत्यां विषयकरणैः संव्यवहरन् कदाचित्स्वनस्थानपि च विषयानेव च भजन् ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥९॥
कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
मनस्वी निःशङ्कः स्वजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१०॥
कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तियुगतस्तमोवॄत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी क्वचिदपि मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥११॥
कदाचिन्मौनस्थः क्वचिदपि च व्याख्याननिरतः कदाचित्सानन्दं हसति रमसत्यक्तवचसा ।
कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१२॥
कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्क्षिपंस्तासां क्वापि स्वयमपि च गृह्वन्स्वमुखतः ।
महाद्वैतं रूपं निजपरविहीनं प्रकटयन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१३॥
क्वचिच्छैवैः सार्धं क्वचिदपि च शाक्तैः सह वसन् कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।
कदागाणापत्यैर्गत सकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१४॥
निराकारम् क्वापि क्वचिदपि च साकारममलम् निजं शैवं रूपं विविधगुणभेदेन बहुधा ।
कदाश्चर्यं पश्यन्किमिदमिति हॄष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१५॥
कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं महावाक्यार्थानामवगतसमभ्यासवशतः ।
गतद्वैताभावः शिव शिव शिवेत्येव विलपन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१६॥
इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपासुधापाङ्गावाप्यां सहजसुखवाप्यामनुदिनम् ।
मुहुर्मज्जन्मज्जन् भजति सुकृती चेन्नरवरस्तदा योगी त्यागी कविरिति वदन्तीह कवयः ॥१७॥
मौने मौनी गुणिनि गुणवान् पण्डिते पण्डितश्च दीने दीनः सुखिनि सुखवान् भोगिनि प्राप्तभोगः ।
मूर्खे मूर्खो युवतिषु युवा वाग्मिनि प्रौढवाग्मी धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः ॥१८॥
इति श्रीमच्छङ्कराचार्यविरचितां श्रीशिवानन्दलहरीस्तोत्रं संपूर्णं