logo

|

Home >

Scripture >

scripture >

Sanskrit

सदाशिव पञ्चरत्नम् - Sadashiva Pancharatnam

Sadashiva Pancharatnam

 

सदाशिव पञ्चरत्नम् - PDF


सदाशिवपञ्चरत्नम् ।

यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥१॥ 

योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् ।
भस्मच्छन्नानल इव जडाकृतिश्चरति तं  नौमि ॥२॥ 

यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥३॥ 

पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥४॥ 

उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि श्रॄण्वन् ।
खिद्यत्रुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥५॥ 

पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥६॥ 

इति सदाशिवपञ्चरत्नम् संपूर्णम् ॥ 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr