logo

|

Home >

Scripture >

scripture >

Sanskrit

पशुपति अष्टकम् - Pashupati Ashtakam

Pashupati Ashtakam

 

पशुपति अष्टकम् - PDF


पशुपति अष्टकम् ।

पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥१॥

न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥२॥

मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्  ॥३॥

शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्  ॥४॥

नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं भजत रे  मनुजा गिरिजापतिम्  ॥५॥

मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् ।
प्रळयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्  ॥६॥

मदमपास्य चिरं हृदि संस्थितं मरणजन्मजरामयपीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम्  ॥७॥

हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कॄतम् ।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्  ॥८॥

पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।
पठति संश‍ृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् ॥९॥

इति श्रीपशुपत्यष्टकम् संपूर्णम् ॥

 

Related Content

upamanyukrutam shivastotram

shivabhujanga prayaata stotram

shivastutiH (langkeshvara virachitaa)

Sadashiva Mahendra StSadashiva Mahendra Stutihutih

Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaach