सूत उवाच ॥
एकदा नारदो योगी परानुग्रहतत्परः ।
विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥१॥
तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् ।
प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥२॥
नारद उवाच ॥
ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम् ।
कृपया परया देव यत्पृच्छामि तदुच्यताम् ॥३॥
श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च ।
तथापि मन्मनो याति सन्देहं मोहकारणम् ॥४॥
सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते ।
सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥५॥
वेदोपनिषदां सारमायुःश्रीजयवर्धनम् ।
मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ ६॥
इमं मत्संशयं तात त्वं भेत्तासि न कश्चन ।
ब्रुहि कारुण्यभावेन मह्यं शुश्रूषवे हि तम् ॥७॥
श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः ।
देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥८॥
ब्रह्मोवाच ॥
साधु पृष्टं महाप्राज्ञ लोकानुग्रह तत्पर ।
सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥९॥
प्रणवं पूर्वमुव्च्चार्य नमःशब्दं समुच्चरेत् ।
सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥१०॥
एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः ।
सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥११॥
अनेन मन्त्रराजेन नाशयितुं न शक्यते ।
तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥१२॥
अयं संसारदावाग्निर्मोहसागरवाडवः ।
तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥१३॥
मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः ।
सकृदुच्चरणादस्य सायुज्यमुक्तिमाप्नुयात् ॥१४॥
किं पुनर्वक्ष्यते पुत्र स्वाचारपरिनिष्ठितः ।
सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप॥१५॥
ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यतेऽचिरात् ।
वेदोपनिषदुक्तं च योगगम्यं सनातनम् ॥१६॥
इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः ।
स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥१७॥
नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् ।
रक्तवर्णमष्टदळं चन्द्रसूर्यादिशोभितम् ॥१८॥
समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा ।
तन्मध्ये शङ्करं ध्यायेद्देवदेवं जगद्गुरुम् ॥१९॥
कर्पूरसदृशं चन्द्रशेखरं शूलपाणिनम् ।
त्रिलोचनं महादेवं द्विभुजं भस्मभूषितम् ॥२०॥
परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् ।
सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥२१॥
नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम् ।
ग्रैवेयादिप्रबन्धाढ्यं पार्वतीसहितं पुरम् ॥२२॥
कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम्
इन्द्रेण पूजितं यक्षराजेन व्यजितं विभुम् ॥२३॥
प्रेतराजस्तुतं नीरनाथेन नामितं मुहुः ।
ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥२४॥
ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् ।
सर्वपापक्षयकरं जयसंपत्तिवर्धनम् ॥२५॥
अनेन सदृशं तात नास्ति संसारतारकम् ।
सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया॥ २६॥
कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते ।
तत्सर्वे नाशमायाति ध्यानात्सत्यं वचो मम ॥२७॥
वेदशास्त्रपुराणानि सेतिहासानि यानि च ।
ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥२८॥
प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् ।
अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥२९॥
ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छ्न्दः प्रकीर्तितम् ।
शिवो व दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥३०॥
कीलकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा ।
नियोगः सर्वशिद्ध्यर्थं मुक्तिकामाय वै मतः ॥३१॥
शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके ।
ऋष्यादीनि क्रमाद्युञ्जेत्साङ्गुष्ठाङ्गुलिभिः सुत ॥३२॥
मन्त्रन्यासं ततः कुर्याच्छृणु चैकाग्रमानसः ।
षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥३३॥
हृदये च शिरस्येव शिखायां कवचे यथा ।
नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट् क्रमात् ॥३४॥
नमः स्वाहा वषट् हुं च सवौषट् फट्क्रमो वदेत् ।
मन्त्रन्यासमिमं कृत्वा स्तवन्यासं समाचरेत् ॥३५॥
शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् ।
भवं चैव क्रमादेवमङ्गुष्ठादिहृदादिषु ॥३६॥
सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत ।
नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥३७॥
शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् ।
सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥३८॥
कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् ।
कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥३९॥
परेशं परमं देवं परंब्रह्म परात्परम् ।
परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥४०॥
लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् ।
लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥४१॥
शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् ।
प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥४२॥
भूतेशं भूतनाथं च भूतप्रेतविनाशनम् ।
भूधरं भूपतिं शान्तं शूलपाणिमहं भजे ॥४३॥
कैलासवासिनं रौद्रं फणिराजविभूषणम् ।
फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥४४॥
नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् ।
दिगंबरं दिशाधीशं नमामि विषभूषणम् ॥४५॥
मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् ।
सत्पतिं निर्मलं शंभुं नतोऽस्मि सकलार्थदम् ॥४६॥
विश्वेशं विश्वनाथं च विश्वपालनतत्परम् ।
विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥४७॥
गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् ।
विद्युत्कोटिप्रतीकाशं वन्देऽहं पार्वतीपतिम् ॥४८॥
स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् ॥
त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥४९॥
अव्यक्तमक्षरं दान्तं मोहसागरतारकम् ।
स्तुतिप्रियं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥५०॥
अमलं निर्मलं नाथमपमृत्युभयापहम्
भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥५१॥
हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गळम् ।
गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥ ५२॥
आनन्दकारिणं सौम्यं सुन्दरं भुवनेश्वरम् ।
काशिप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥५३॥
श्मशानवासिनं भव्यं ग्रहपीडाविनाशनम् ।
महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥५४॥
ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् ।
अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥५५॥
वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम्।
सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥५६॥
द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् ।
अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥५७॥
शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् ।
लिङ्गमूर्तिं सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥५८॥
अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् ।
योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥५९॥
अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् ।
परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥६०॥
आनन्दं निर्भयं भक्तवाञ्छितार्थप्रदायकम् ।
भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥६१॥
सोमप्रियं सोमनाथं यक्षराजनिषेवितम् ।
सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥६२॥
अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्त्वम् ।
चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥६३॥
वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् ।
कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥६४॥
गणाधिनाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् ।
सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥६५॥
विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् ।
मृत्युञ्जयं भालवोलोचनं च चेतः सदा चिन्तय देवदेवम् ॥६६॥
कपालिनं सर्पकॄतावतंसं मनोवचोगोचरमम्बुजाक्षम् ।
क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥६७॥
सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् ।
अनन्तबाहूदरमस्तकाक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥६८॥
सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च ।
त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥६९॥
आनन्दमूर्तिं सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् ।
यज्ञादिनाथं परमप्रकाशं नमामि विश्वंभरमीशितारम् ॥७०॥
इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः ।
पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥७१॥
सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् ।
माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥७२॥
सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् ।
पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥७३॥
गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा ।
विश्वासघातचारी च खाद्यपेयादिदूषकः ॥७४॥
कोटिजन्मार्जितैः पापैरसङ्ख्यातैश्च वेष्टितः
अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥७५॥
महारोगयुतो वापि मृत्युग्रहयुतस्तथा ।
त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥७६॥
राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् ।
मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥७७॥
लक्षपाठाद्भवेच्चैव शिव एव न संशयः।
बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥७८॥
पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे पीठे संस्थितमिन्दुशेखरमहर्नाथादिसंसेवितम् ।
पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं
त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥७९॥
इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः संपूर्णः ॥