logo

|

Home >

Scripture >

scripture >

Sanskrit

भक्तशरणस्तोत्रम् - Bhakta Sharana Stotram

Bhakta Sharana Stotram


भक्त शरण स्तोत्रम्

आर्द्रातःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥१॥ 

द्रष्ट्रुंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।
मा भीरस्त्विति शंभो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥२॥ 

प्रकरोति करुणयार्द्रान् शंभुर्नम्रानिति प्रबोधाय ।
घर्मोऽयं किल लोकानार्द्रान् कुरुतेऽद्य गौरीश ॥३॥ 

आर्द्रानटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम् ।
आर्द्रर्क्ष एवोत्सव माह शस्तं पुराणजालं तव पार्वतीश ॥४॥ 

बाणार्चने भगवतः परमेश्वरस्य
प्रीतिर्भवेन्निरुपमेति यतः पुराणैः
संबोध्यते परशिवस्य ततः करोत्ति
बाणार्चनं जगति भक्तियुता जनालिः॥५॥ 

यथान्धकं त्वं विनिहत्य शीघ्रं
लोकस्य रक्षामकरोः कृपाब्धे ।
तथाज्ञतां मे बिनिवार्य शीघ्रं
विद्यां प्रयच्छाशु सभाधिनाथ ॥६॥ 

इति भक्तशरणस्तोत्रं संपूर्णम् ॥


 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr