logo

|

Home >

Scripture >

scripture >

Sanskrit

परमात्माष्टकम् - Paramatma Ashtakam

Paramatma Ashtakam


परमात्मा अष्टकम् ।

परमात्मंस्तव प्राप्तौ कुशलोऽस्मि न संशयः ।
तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥१॥ 

यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम् ।
तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥२॥ 

भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो ।
तव स्मृति यदा याति तदा याति बहिर्मुखम् ॥३॥ 

प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः ।
तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥४॥ 

शोकमोहौ मानमदौ तवाज्ञानाद्भवन्ति वै ।
यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥५॥ 

कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा ।
मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम् ॥६॥ 

मायया ते विमूढोऽस्मि न पश्यामि हिताहितम् ।
संसारापारपाथोधौ पतितं मां समुद्धर ॥७॥ 

परमात्मंस्त्वयि सदा मम स्यान्निश्चला मतिः ।
संसारदुःखगहनात्त्वं सदा रक्षको मम॥८॥ 

परात्मन इदं स्तोत्रं मोहविच्छेदकारकम् ।
ज्ञानदं च भवेन्नृणां योगानन्देन निर्मितम् ॥९॥ 

इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं संपूर्णम् ॥


 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana