शिवभुजङ्ग प्रयात स्तोत्रम्
यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥१॥
यदा दुर्निवारव्यथोऽहं शयनो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥२॥
यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥३॥
यदा पश्यतां मामसौ वेत्ति नास्मानयं हास एवेति वाचो वदेयुः ।
तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥४॥
यदा पारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि दूरम् ।
तदा तं निरुन्धन् कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ॥५॥
यदा रौरवादीन् स्मरन्नेव भीत्या व्रजाम्येव मोहं पतिष्यामि घोरे।
तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ॥६॥
यदा श्वेतपत्रायतालङ्घ्यशक्ते कृतान्ताद्भयं भक्तवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥७॥
इदानीमिदानीं मतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि ।
कथं नाम मा भून्मनोवृत्तिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥८॥
अमर्यादमेवामुमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
स्तुतौ तावदस्यां तवैव प्रसादाद्भवानीपते निर्मयोऽहं भवानि ॥९॥
जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ केन ।
भवन्तं विना मे गतिर्नैव शंभो दयाळो न जागर्ति किं वा दया ते ॥१०॥
शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
ममेशान मागान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥११॥
त्वमप्यंब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्त्यै।
बृहत्क्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥१२॥
अनेन स्तवेनादरादम्बिकेश परां भक्तिमातन्वता ये नमन्ति ।
मृतौ निर्भयास्ते ह्यनन्तं लभन्ते हृदंभोजमध्ये समासीनमीशं ॥१३ ॥
अकण्ठे कळङ्कादनङ्गे भुजङ्गादपाणौ कपालादभालेऽनलाक्षात् ।
अमौलौ शशाङ्कादहं देवमन्यं न मन्ये न मन्ये न मन्ये न मन्ये ॥१४॥
किरीटे निशीशो ललाटे हुताशो भुजे भोगिराजो गळे कालिमा च ।
तनौ कामिनी यस्य तुल्यं न देवं न जाने न जाने न जाने न जाने ॥१५॥
अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि यस्मात् ॥१६।
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहं शिवादन्यथा दैवतं नाभिजाने ।
महादेव शंभो गिरीश त्रिशूलिन् त्वयीदं समस्तं विभातीति यस्मात् ॥१७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचितं शिवभुजङ्गप्रयातस्तोत्रं संपूर्णम् ॥