logo

|

Home >

Scripture >

scripture >

Sanskrit

हिमालयकृतं शिवस्तोत्रम् - Himalaya Krutam Shiva Stotram

Himalaya Krutam Shiva Stotram

 

हिमालयकृतं शिवस्तोत्रम् - PDF


हिमालय कृतं शिव स्तोत्रम्

हिमालय उवाच ॥

त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः ।
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥१॥

त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥२॥

नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।
येषु रूपेपु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥३॥

सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् ।
सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥४॥

वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः ।
इन्द्रस्त्वं देवराजश्च कालो मृत्युर्यमस्तथा ॥ ५॥

मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ।
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ॥ ६॥

विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः    ।
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ॥ ७॥

वाक् त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः  स्वयम् ।
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः ॥ ८॥

इत्येवमुक्त्वाशैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् ।
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ॥ ९॥

स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ॥ १०॥

अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ।
भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम् ॥ ११॥

चिरकालगतं वस्तु लभते सहसा ध्रुवम् ।
राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः ॥ १२॥

कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे ।
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ॥ १३॥

रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ।
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ १४॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रम् सम्पूर्णम् ॥

 

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shr

चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnam

aparaadhabhanjanastotram