logo

|

Home >

Scripture >

scripture >

Sanskrit

ईश्वर प्रार्थना स्तोत्रम् - Ishvara Prarthana Stotram

Ishvara Prarthana Stotram

 

ईश्वर प्रार्थना स्तोत्रम् - PDF


ईश्वरप्रार्थनास्तोत्रम्

ईश्वरं शरणं यामि क्रोधमोहादिपीडितः ।
अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ १॥ 

प्रभुस्त्वं जगतां स्वामिन् वश्यं सर्वं तवास्ति च ।
अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥२॥ 

ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः ।
तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥३॥ 

त्वं पिता त्वं च मे माता त्वं बन्धुः करुणानिधे ।
त्वां विना नहि चान्योऽस्ति मम दुःखविनाशकः ॥४॥ 

अन्तकाले त्वमेवासि मम दुःख विनाशकः ।
तस्माद्वै शरणोऽहं ते रक्ष मां हे जगत्पते ॥५॥ 

पितापुत्रादयः सर्वे संसारे सुखभागिनः ।
विपत्तौ परिजातायां कोऽपि वार्ताम् न पृच्छति ॥६॥ 

कामक्रोधादिभिर्युक्तो लोभमोहादिकैरपि ।
तान्विनश्यात्मनो वैरीन् पाहि मां परमेश्वर ॥७॥ 

अनेके रक्षिताः पूर्वं भवता दुःखपीडिताः ।
क्व गता ते दया चाद्य  पाहि मां हे जगत्पते ॥८॥ 

न त्वां विना कश्चिदस्ति संसारे मम रक्षकः ।
शरणं  त्वां प्रपन्नोऽहं त्राहि मां परमेश्वर ॥९॥

ईश्वर प्रार्थनास्तोत्रं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिसंयुक्तस्तस्येशः संप्रसीदति ॥१०॥ 

इति श्रीयोगानन्दतीर्थविरचितं ईश्वरप्रार्थनास्तोत्रं संपूर्णम् ॥

 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr