कल्कि कृतं शिव स्तोत्रम्
गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम् ।
त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥१॥
योगाधीशं कामनाशं कराळं गङ्गासङ्गक्लिन्नमूर्धानमीशम्।
जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रभालं नमामि ॥२॥
श्मशानस्थं भूतवेताळसङ्गं नानाशस्त्रैः खड्गशूलादिभिश्च ।
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥३॥
यो भूतादिः पञ्चभूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः ।
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥४॥
स्थितो विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून्धर्मसेतून्बिभर्ति ।
ब्रह्माद्यंशे योऽभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥५॥
यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन् ।
शीतांशुः खे तारकासङ्ग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥६॥
यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यंबु कालः प्रमाता ।
मेरुर्मध्ये भुवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥७॥
इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं संपूर्णम् ॥