logo

|

Home >

Scripture >

scripture >

Sanskrit

चन्द्रचूडालाष्टकम् - Chandrachoodaalaa Ashtakam

Chandrachoodaalaa Ashtakam

 

चन्द्रचूडालाष्टकम् - PDF


चन्द्रचूडाला अष्टकम्

यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् ।
प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥१॥ 

यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् ।
शमदमसाधनसंपल्लभ्यं प्रणमामि चन्द्रचूडालम् ॥२॥ 

यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः ।
कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥३॥ 

नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् ।
नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥४॥ 

नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् ।
स्तुतमादिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥५॥ 

जन्तोस्तव पादपूजनकरणात्करपद्मगाः पुमर्थाः स्युः ।
मुरहरपूजितपादं तमहं प्रणमामि चन्द्रचूडालम् ॥६॥ 

चेतसि चिन्तयतां यत्पदपद्मं सत्वरं वक्त्रात् ।
निःसरति वाक्सुधामा तमहं प्रणमामि चन्द्रचूडालम् ॥७॥ 

नम्राज्ञानतमस्ततिदूरीकरणाय नेत्रलक्ष्माद्यः ।
धत्तेऽग्निचन्द्रसूर्यांस्तमहं प्रणमामि चन्द्रचूडालम् ॥८॥ 

अष्टकमेतत्पठतां स्पष्टतरं कष्टनाशनं पुंसाम् ।
अष्ट ददाति हि सिद्धीरिष्टसमष्टीश्च चन्द्रचूडालः ॥९॥ 

इति चन्द्रचूडालाष्टकं संपूर्णम् ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr