logo

|

Home >

Scripture >

scripture >

Marathi

Om symbol तत्त्वार्यास्तवः - Tattvaryastavah Hymn on Lord Nataraja at ChidambaramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Tattvaryastavah Hymn on Lord Nataraja at Chidambaram तत्त्वार्यास्तवः This Page is courtesy of Sanskrit Documents List. Please send your corrections The text is to be used for personal studies and research only. Any use for commercial purpose is prohibited as a 'gentleman's' agreement. tattvAryAstavaH Hymn on Lord Nataraja at Chidambaram .. तत्त्वार्यास्तवः .. शिवकामसुन्दरीशं शिवगण्‍गातीरकल्पितनिवेशम . शिवमाश्रये द्युकेशं शिवमिच्च्हन्मा वपुष्यभिनिवेशम .. १.. गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती . भक्ताशयानुवर्ती भवतु नटेशो.अखिलामयनिवर्ती .. २.. वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम . वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः .. ३.. हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः . घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति .. ४.. शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम . पीलूपमो.अन्धुजीर्यच्च्हालूराभः कथं विजानीयाम .. ५.. कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम . नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम .. ६.. तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने . चिल्लहरीमुल्ललयन वल्लभया भिल्लतल्लजो नटति .. ७.. वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः . वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन .. ८.. ढक्कानिनदैः सूत्राण्यण्‍गदनादैरहो महद्भाष्यम . व्याकरणस्य विवृण्वन नृत्यति भृत्यान कृतार्थयन मर्त्यान .. ९.. नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत . मन्ञुलतामञ्जुलतामहिते वस्तुं च तिल्लवने .. १०.. अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः . अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति .. ११.. मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः . ताण्डवमिषोद्धृतैकसवाण्‍घ्रिः सर्वान विबोधयति .. १२.. आपन्नलोकपालिनि कपालिनि स्त्रीकृताण्‍गपालिनि मे . शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे .. १३.. भिक्षुर्महेश्वरो.अपि श्रुत्या प्रोक्तः शिवो.अप्युग्रः . अपि भवहारी च भवो नटो.अपि चित्रं सभानाथः .. १४.. नृत्यन्नटेशमौलित्वण्‍गद्गण्‍गातरण्‍गशीकरिणः . भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः .. १५.. कनकसभासम्राजो नटनारम्भे झलंझलंझलिति . मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम .. १६.. पर्वतराजतनूजाकुचतटसंक्रान्तकुण्‍कुमोन्मिश्राः . नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मे.अण्‍गम .. १७.. नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः . आदिनटमौलितटिनीपृषतो गोत्रे.अत्र मे स्खलेयुः किम .. १८.. पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम . यः क्षयरसिकं कालं जितवान धत्ते च शिरसि कण्‍कालम .. १९.. तनुजायातनुजायासक्तानां दुर्लभं सभानाथम . नगतनया नगतनया वशयति दत्त्वा शरीरार्धम .. २०.. आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः . स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः .. २१.. कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम . कनकसभां गमयसि रे कनकसभां हा न यापयसि .. २२.. नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से . अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम .. २३.. कलितभवलण्‍घनानां किं करैव चित्सुखघनानाम . सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम .. २४.. निनिलीये मायायां न विलिये वा शुचा परं लीये . आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु .. २५.. अधिहेमसभं प्रसभं बिसभण्‍गवदान्यधन्यरुचम . श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम .. २६.. सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः . सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः .. २७.. पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा . कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः .. २८.. भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च . फललिप्सयाम्रभाजां च्हायासौरभ्यमाधव्य इव .. २९.. कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि . नटसि निरावृतिसुखितो जहि मायां त्वादृशो.अहमपि तत स्याम .. ३०.. आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे . त्वन्नटने.अपि हि नटनं वेदपुरानागमाः समादधति .. ३१.. वेधसि सर्वाधीशे.अमेधसि वा मादृशे सरूपकृता . रोधसि शिवगण्‍गाया बोधसिरा काचिदुल्लसति .. ३२.. हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः . भट्टारकं सभायाः किट्टात्मन्यण्‍गके त्यजन्ममताम .. ३३.. श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात . ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे .. ३४.. क्षुल्लककामकृते.अपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री . पीतामृतो.अप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः .. ३५.. सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम . अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि .. ३६.. षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम . आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम .. ३७.. .. इति श्रीतत्त्वार्यास्तवः संपूर्णः ..

Related Content

শিৱ স্তৱঃ - shiva stavah

ৱেদসার শিৱস্তৱ স্তোত্রম (ছংকরাচার্য ৱিরচিতো) - Vedasaara Sh

Ganapati Upanishad

পশুপতি অষ্টকম্

Shivastavah