logo

|

Home >

Scripture >

scripture >

Marathi

Om symbol स्कन्द महापुराण - skanda-mahapuranaOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Skanda mahapurana स्कन्द महापुराण This Page is courtesy of Sanskrit Documents List. Please send your corrections This stotra is also available in devanAgari PDF skanda mahApurANa स्कन्द महापुराण Skandapurana Chapters 1-25 स्कन्दपुरन छप्तेर्स १-२५ .. स्कन्दपुराण १ २.. स्कंदपुराण अध्याय १ ||स्पु००१००११|| नमः परमदेवाय त्रैगुण्याविजितात्मने । ||स्पु००१००१२|| सर्वतो योगरूपाय संसाराभावहेतवे ॥ ||स्पु००१००२१|| स्थितिसंरोधसर्गाणां हेतवे.अन्तःप्रसारिणे । ||स्पु००१००२२|| श्हड्विंशाय प्रधानाय महादेवाय धीमते ॥ ||स्पु००१००३१|| प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे । ||स्पु००१००३२|| प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥ ||स्पु००१००४१|| मुनयः संशितात्मानस्तपसा क्षीणकल्मश्हाः । ||स्पु००१००४२|| तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥ ||स्पु००१००५१|| पौराणिकमपश्यन्त सूतं सत्यपरायणम । ||स्पु००१००५२|| स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम ॥ ||स्पु००१००६१|| दृश्ह्ट्वा ते सूतमायान्तमृश्हयो हृश्ह्टमानसाः । ||स्पु००१००६२|| आशास्यासनसंवेशं तद्योग्यं समकल्पयन ॥ ||स्पु००१००७१|| स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान । ||स्पु००१००७२|| प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥ ||स्पु००१००८१|| तमासीनमपृच्च्हन्त मुनयस्तपसैधिताः । ||स्पु००१००८२|| ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम ॥ ||स्पु००१००९१|| कथितं भारताख्यानं पुराणं च परं त्वया । ||स्पु००१००९२|| तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥ ||स्पु००१०१०१|| सर्वागमपरार्थज्ञः सत्यधर्मपरायणः । ||स्पु००१०१०२|| द्विजपूजारतो नित्यं तेन पृच्च्हां त्वमर्हसि ॥ ||स्पु००१०१११|| भारताख्यानसदृशं पुराणाद्यद्विशिश्ह्यते । ||स्पु००१०११२|| तत्त्वा पृच्च्हाम वै जन्म कार्त्तिकेयस्य धीमतः ॥ ||स्पु००१०१२१|| इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः । ||स्पु००१०१२२|| स्कन्दसंभवशुश्रूश्हासंजातौत्सुक्यमानसाः ॥ ||स्पु००१०१३१|| एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः । ||स्पु००१०१३२|| प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम ॥ ||स्पु००१०१४१|| शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम । ||स्पु००१०१४२|| ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम ॥ ||स्पु००१०१५१|| मुमुक्षया परं स्थानं याते शुकमहात्मनि । ||स्पु००१०१५२|| सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥ ||स्पु००१०१६१|| दृश्ह्ट्वैव स महेशानं व्यासो.अभूद्विगतव्यथः । ||स्पु००१०१६२|| विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥ ||स्पु००१०१७१|| मेरुशृश्ण्गे.अथ ददृशे ब्रह्मणः सुतमग्रजम । ||स्पु००१०१७२|| सनत्कुमारं वरदं योगैश्वर्यसमन्वितम ॥ ||स्पु००१०१८१|| विमाने रविसंकाशे तिश्ह्ठन्तमनलप्रभम । ||स्पु००१०१८२|| मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥ ||स्पु००१०१९१|| वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः । ||स्पु००१०१९२|| सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम ॥ ||स्पु००१०२०१|| दृश्ह्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम । ||स्पु००१०२०२|| ववन्दे परया भक्त्या साक्षादिव पितामहम ॥ ||स्पु००१०२११|| ब्रह्मसूनुरथ व्यासं समायातं महौजसम । ||स्पु००१०२१२|| परिश्ह्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम ॥ ||स्पु००१०२२१|| दिश्ह्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात । ||स्पु००१०२२२|| अपेतशोकः सम्प्राप्तः पृच्च्हस्व प्रवदाम्यहम ॥ ||स्पु००१०२३१|| श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः । ||स्पु००१०२३२|| इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम ॥ ||स्पु००१०२४१|| कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः । ||स्पु००१०२४२|| किंनिमित्तं कुतो वास्य इच्च्हाम्येतद्धि वेदितुम ॥ ||स्पु००१०२५१|| कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम । ||स्पु००१०२५२|| उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः । ||स्पु००१०२५३|| सुपर्ण्याश्चाथ मात.णां कृत्तिकानां कथं च सः ॥ ||स्पु००१०२६१|| कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः । ||स्पु००१०२६२|| भूतसंमोहनं ह्येतत्कथयस्व यथातथम ॥ ||स्पु००१०२७०|| सूत उवाच । ||स्पु००१०२७१|| एवं स पृश्ह्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः । ||स्पु००१०२७२|| उवाच सर्वं सर्वज्ञो व्यासायाक्लिश्ह्टकारिणे । ||स्पु००१०२७३|| तच्च्हृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥ ||स्पु००१९९९९|| इति स्कन्दपुराणे प्रथमो.अध्यायः ॥ स्कंदपुराण अध्याय २ ||स्पु००२००१०|| सनत्कुमार उवाच । ||स्पु००२००११|| प्रपद्ये देवमीशानं सर्वज्ञमपराजितम । ||स्पु००२००१२|| महादेवं महात्मानं विश्वस्य जगतः पतिम ॥ ||स्पु००२००२१|| शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः । ||स्पु००२००२२|| स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥ ||स्पु००२००३१|| तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः । ||स्पु००२००३२|| पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम ॥ ||स्पु००२००४१|| देहावतारो देवस्य रुद्रस्य परमात्मनः । ||स्पु००२००४२|| प्राजापत्याभिश्हेकश्च हरणं शिरसस्तथा ॥ ||स्पु००२००५१|| दर्शनं श्हट्कुलीयानां चक्रस्य च विसर्जनम । ||स्पु००२००५२|| नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम ॥ ||स्पु००२००६१|| ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा । ||स्पु००२००६२|| शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥ ||स्पु००२००७१|| सत्या विवादश्च तथा दक्षशापस्तथैव च । ||स्पु००२००७२|| मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम ॥ ||स्पु००२००८१|| देवानां वरदानं च वसिश्ह्ठस्य च धीमतः । ||स्पु००२००८२|| पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥ ||स्पु००२००९१|| वसिश्ह्ठकौशिकाभ्यां च वैरोद्भवसमापनम । ||स्पु००२००९२|| वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम ॥ ||स्पु००२०१०१|| रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः । ||स्पु००२०१०२|| गणानां दर्शनं चैव कथनं चाप्यशेश्हतः ॥ ||स्पु००२०१११|| कालीव्याहरणं चैव तपश्चरणमेव च । ||स्पु००२०११२|| सोमनन्दिसमाख्यानं वरदानं तथैव च ॥ ||स्पु००२०१२१|| गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च । ||स्पु००२०१२२|| कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥ ||स्पु००२०१३१|| गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः । ||स्पु००२०१३२|| अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥ ||स्पु००२०१४१|| निसुम्भसुम्भनिर्याणं महिश्हस्य वधस्तथा । ||स्पु००२०१४२|| अभिश्हेकश्च कौशिक्या वरदानमथापि च ॥ ||स्पु००२०१५१|| अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम । ||स्पु००२०१५२|| हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥ ||स्पु००२०१६१|| बलिसंयमनं चैव देव्याः समय एव च । ||स्पु००२०१६२|| देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥ ||स्पु००२०१७१|| देवानां वरदानं च शुक्रस्य च विसर्जनम । ||स्पु००२०१७२|| सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम ॥ ||स्पु००२०१८१|| शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता । ||स्पु००२०१८२|| आर्यावरप्रदानं च शैलादिस्तव एव च ॥ ||स्पु००२०१९१|| देवस्यागमनं चैव वृत्तस्य कथनं तथा । ||स्पु००२०१९२|| पतिव्रतायाश्चाख्यानं गुरुशुश्रूश्हणस्य च ॥ ||स्पु००२०२०१|| आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृश्ह्यता । ||स्पु००२०२०२|| दूतस्यागमनं चैव संवादो.अथ विसर्जनम ॥ ||स्पु००२०२११|| अन्धकासुरसंवादो मन्दरागमनं तथा । ||स्पु००२०२१२|| गणानामागमश्चैव संख्यानश्रवणं तथा ॥ ||स्पु००२०२२१|| निग्रहश्चान्धकस्याथ युद्धेन महता तथा । ||स्पु००२०२२२|| शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥ ||स्पु००२०२३१|| भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा । ||स्पु००२०२३२|| रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम ॥ ||स्पु००२०२४१|| उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः । ||स्पु००२०२४२|| निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम ॥ ||स्पु००२०२५१|| त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च । ||स्पु००२०२५२|| देवसेनाप्रदानं च सेनापत्याभिश्हेचनम ॥ ||स्पु००२०२६१|| नारदस्यागमश्चैव तारकप्रेश्हितस्य ह । ||स्पु००२०२६२|| वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥ ||स्पु००२०२७१|| महिश्हस्य वधश्चैव क्रौञ्चस्य च निबर्हणम । ||स्पु००२०२७२|| शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥ ||स्पु००२०२८१|| देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च । ||स्पु००२०२८२|| प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च । ||स्पु००२०२८३|| महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥ ||स्पु००२०२९१|| एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत । ||स्पु००२०२९२|| बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम ॥ ||स्पु००२९९९९|| इति स्कन्दपुराणे द्वितीयो.अध्यायः ॥ स्कंदपुराण अध्याय ३ ||स्पु००३००१०|| सनत्कुमार उवाच । ||स्पु००३००११|| शृणुश्ह्वेमां कथां दिव्यां सर्वपापप्रणाशनीम । ||स्पु००३००१२|| कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम । ||स्पु००३००१३|| यां श्रुत्वा पापकर्मापि गच्च्हेच्च परमां गतिम ॥ ||स्पु००३००२१|| न नास्तिकाश्रद्दधाने शठे चापि कथंचन । ||स्पु००३००२२|| इमां कथामनुब्रूयात्तथा चासूयके नरे ॥ ||स्पु००३००३१|| इदं पुत्राय शिश्ह्याय धार्मिकायानसूयवे । ||स्पु००३००३२|| कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत । ||स्पु००३००३३|| कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥ ||स्पु००३००४१|| पुरा ब्रह्मा प्रजाध्यक्षः अण्डे.अस्मिन्सम्प्रसूयते । ||स्पु००३००४२|| सो.अज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥ ||स्पु००३००५१|| अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत । ||स्पु००३००५२|| न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥ ||स्पु००३००६१|| पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता । ||स्पु००३००६२|| प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥ ||स्पु००३००७१|| स दत्त्वा ब्रह्मणे शम्भुः स्रश्ह्टृत्वं ज्ञानसंहितम । ||स्पु००३००७२|| विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥ ||स्पु००३००८१|| तदेश्होपनिश्हत्प्रोक्ता मया व्यास सनातना । ||स्पु००३००८२|| यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम ॥ ||स्पु००३००९१|| ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै । ||स्पु००३००९२|| तमात्मस्थं ये.अनुपश्यन्ति धीरास्तेश्हां शान्तिः शाश्वती नेतरेश्हाम ॥ ||स्पु००३०१०१|| स व्यास पितरं दृश्ह्ट्वा स्वदीप्त्या परया युतम । ||स्पु००३०१०२|| पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥ ||स्पु००३०१११|| महता योगतपसा युक्तस्य सुमहात्मनः । ||स्पु००३०११२|| अचिरेणैव कालेन पिता सम्प्रतुतोश्ह ह ॥ ||स्पु००३०१२१|| दर्शनं चागमत्तस्य वरदो.अस्मीत्युवाच ह । ||स्पु००३०१२२|| स तुश्ह्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम ॥ ||स्पु००३०१३१|| नमः परमदेवाय देवानामपि वेधसे । ||स्पु००३०१३२|| स्रश्ह्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥ ||स्पु००३०१४१|| एकस्मै शक्तियुक्ताय अशक्तिरहिताय च । ||स्पु००३०१४२|| अनन्तायाप्रमेयाय इन्द्रियाविश्हयाय च ॥ ||स्पु००३०१५१|| व्यापिने व्याप्तपूर्वाय अधिश्ह्ठात्रे प्रचोदिने । ||स्पु००३०१५२|| कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥ ||स्पु००३०१६१|| प्रधानचोदकायैव गुणिनां शान्तिदाय च । ||स्पु००३०१६२|| दृश्ह्टिदाय च सर्वेश्हां स्वयं वै दर्शनाय च ॥ ||स्पु००३०१७१|| विश्हयग्राहिणे चैव नियमस्य च कारिणे । ||स्पु००३०१७२|| मनसः करणानां च तत्रैव नियमस्य च ॥ ||स्पु००३०१८१|| भूतानां गुणकर्त्रे च शक्तिदाय तथैव च । ||स्पु००३०१८२|| कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च । ||स्पु००३०१८३|| अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम ॥ ||स्पु००३०१९१|| तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः । ||स्पु००३०१९२|| तुश्ह्टो.अब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥ ||स्पु००३०२०१|| यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते । ||स्पु००३०२०२|| तस्माद्ब्रह्मेति लोकेश्हु नाम्ना ख्यातिं गमिश्ह्यसि ॥ ||स्पु००३०२११|| यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर । ||स्पु००३०२१२|| तस्मात्पितामहत्वं ते लोके ख्यातिं गमिश्ह्यति ॥ ||स्पु००३०२२१|| प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम । ||स्पु००३०२२२|| तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥ ||स्पु००३०२३१|| एवमुक्त्वा स देवेशो मूर्तिमत्यो.असृजत्स्त्रियः । ||स्पु००३०२३२|| यास्ताः प्रकृतयस्त्वश्ह्टौ विशेश्हाश्चेन्द्रियैः सह । ||स्पु००३०२३३|| भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥ ||स्पु००३०२४१|| तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा । ||स्पु००३०२४२|| एतमद्याभिश्हेकेण सम्पादयत मा चिरम ॥ ||स्पु००३०२५१|| ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम । ||स्पु००३०२५२|| अभिश्हिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥ ||स्पु००३०२६१|| तत्रैवं योगिनः सूक्ष्मं दृश्ह्ट्वा दिव्येन चक्षुश्हा । ||स्पु००३०२६२|| पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम ॥ ||स्पु००३०२७१|| रुद्रः स्रश्ह्टा हि सर्वेश्हां भूतानां तव च प्रभो । ||स्पु००३०२७२|| अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥ ||स्पु००३०२८१|| स देवस्तोश्हितः सम्यक्परमैश्वर्ययोगधृक । ||स्पु००३०२८२|| ब्रह्माणमग्रजं पुत्रं प्राजापत्ये.अभ्यश्हेचयत ॥ ||स्पु००३०२९१|| यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज । ||स्पु००३०२९२|| देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम ॥ ||स्पु००३०३०१|| सर्वेश्हां मनसि सदावतिश्ह्ठमानो जानानः शुभमशुभं च भूतनाथः । ||स्पु००३०३०२|| तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम ॥ ||स्पु००३९९९९|| इति स्कन्दपुराणे तृतीयो.अध्यायः ॥ स्कंदपुराण अध्याय ४ ||स्पु००४००१०|| सनत्कुमार उवाच । ||स्पु००४००११|| प्राजापत्यं ततो लब्ध्वा प्रजाः स्रश्ह्टुं प्रचक्रमे । ||स्पु००४००१२|| प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥ ||स्पु००४००२१|| स कुर्वाणस्तथा सृश्ह्टिं शक्तिहीनः पितामहः । ||स्पु००४००२२|| सृश्ह्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥ ||स्पु००४००३१|| सृश्ह्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः । ||स्पु००४००३२|| तेजसा जगदाविश्य आजगाम तदन्तिकम । ||स्पु००४००३३|| स्रश्ह्टा तस्य जगन्नाथो.अदर्शयत्स्वतनौ जगत ॥ ||स्पु००४००४१|| स्वयमागत्य देवेशो महाभूतपतिर्हरः । ||स्पु००४००४२|| व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा । ||स्पु००४००४३|| शम्भुः प्राह वरं वत्स याचस्वेति पितामहम ॥ ||स्पु००४००५१|| तं ब्रह्मा लोकसृश्ह्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत । ||स्पु००४००५२|| स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः । ||स्पु००४००५३|| मूढो.अयमिति संचिन्त्य प्रोवाच वरदः स्वयम ॥ ||स्पु००४००६१|| आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे । ||स्पु००४००६२|| मन्मूर्तिस्तनयस्तस्माद्भविश्ह्यति ममाज्ञया ॥ ||स्पु००४००७१|| स च ते पुत्रतां यात्वा मदीयो गणनायकः । ||स्पु००४००७२|| रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिश्ह्यति ॥ ||स्पु००४००८१|| सर्वविद्याधिपत्यं च योगानां चैव सर्वशः । ||स्पु००४००८२|| बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥ ||स्पु००४००९१|| मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः । ||स्पु००४००९२|| धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥ ||स्पु००४०१०१|| कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा । ||स्पु००४०१०२|| संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम । ||स्पु००४०१०३|| एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविश्ह्यति ॥ ||स्पु००४०१११|| एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि । ||स्पु००४०११२|| ब्रह्मा चक्रे तदा चेश्ह्टिं पुत्रकामः प्रजापतिः ॥ ||स्पु००४०१२१|| स जुह्वञ्च्ह्रमसंयुक्तः प्रतिघातसमन्वितः । ||स्पु००४०१२२|| समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥ ||स्पु००४०१३१|| समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः । ||स्पु००४०१३२|| पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ॥ ||स्पु००४०१४१|| तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम । ||स्पु००४०१४२|| प्रेरितं देवदेवेन निपपात हविर्भुजि ॥ ||स्पु००४०१५१|| क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम । ||स्पु००४०१५२|| प्रेश्हितो गणपो रुद्रः सद्य एवाभवत्तदा ॥ ||स्पु००४०१६१|| तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम । ||स्पु००४०१६२|| भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥ ||स्पु००४०१७१|| नीललोहित इत्येव तेनासावभवत्प्रभुः । ||स्पु००४०१७२|| त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं च्हादयन्निव ॥ ||स्पु००४०१८१|| शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः । ||स्पु००४०१८२|| स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम ॥ ||स्पु००४०१९१|| ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिश्ह्ठितम । ||स्पु००४०१९२|| असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥ ||स्पु००४०२०१|| सो.अपि योगं समास्थाय ऐश्वर्येण समन्वितः । ||स्पु००४०२०२|| लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥ ||स्पु००४०२११|| ब्रह्मणो.अपि ततः पुत्रा दक्षधर्मादयः शुभाः । ||स्पु००४०२१२|| असृजन्त प्रजाः सर्वा देवमानुश्हसंकुलाः ॥ ||स्पु००४०२२१|| अथ कालेन महता कल्पे.अतीते पुनः पुनः । ||स्पु००४०२२२|| प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥ ||स्पु००४०२३१|| प्रतिश्ह्ठितायां वार्त्तायां प्रवृत्ते वृश्ह्टिसर्जने । ||स्पु००४०२३२|| प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥ ||स्पु००४०२४१|| ब्रह्मणः श्हट्कुलीयास्ते ऋश्हयः संशितव्रताः । ||स्पु००४०२४२|| मरीचयो.अत्रयश्चैव वसिश्ह्ठाः क्रतवस्तथा ॥ ||स्पु००४०२५१|| भृगवो.अश्ण्गिरसश्चैव तपसा दग्धकिल्बिश्हाः । ||स्पु००४०२५२|| ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणो.अन्तरे ॥ ||स्पु००४०२६१|| भगवन्नन्धकारेण महता स्मः समावृताः । ||स्पु००४०२६२|| खिन्ना विवदमानाश्च न च पश्याम यत्परम ॥ ||स्पु००४०२७१|| एतं नः संशयं देव चिरं हृदि समास्थितम । ||स्पु००४०२७२|| त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥ ||स्पु००४०२८१|| किं परं सर्वभूतानां बलीयश्चापि सर्वतः । ||स्पु००४०२८२|| केन चाधिश्ह्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥ ||स्पु००४०२९१|| कः स्रश्ह्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः । ||स्पु००४०२९२|| को.अस्मान्सर्वेश्हु कार्येश्हु प्रयुनक्ति महामनाः ॥ ||स्पु००४०३०१|| कस्य भूतानि वश्यानि कः सर्वविनियोजकः । ||स्पु००४०३०२|| कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥ ||स्पु००४०३११|| एवमुक्तस्ततो ब्रह्मा सर्वेश्हामेव संनिधौ । ||स्पु००४०३१२|| देवानां च ऋश्हीणां च गन्धर्वोरगरक्षसाम ॥ ||स्पु००४०३२१|| यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः । ||स्पु००४०३२२|| पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः । ||स्पु००४०३२३|| उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥ ||स्पु००४०३३१|| स चापि तपसा शक्यो द्रश्ह्टुं नान्येन केनचित । ||स्पु००४०३३२|| स स्रश्ह्टा सर्वभूतानां बलवांस्तन्मयं जगत । ||स्पु००४०३३३|| तस्य वश्यानि भूतानि तेनेदं धार्यते जगत ॥ ||स्पु००४०३४१|| ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥ ||स्पु००४०३५०|| ऋश्हय ऊचुः । ||स्पु००४०३५१|| किं तन्महत्तपो देव येन दृश्येत स प्रभुः । ||स्पु००४०३५२|| तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥ ||स्पु००४०३६०|| पितामह उवाच । ||स्पु००४०३६१|| सत्त्रं महत्समासध्वं वाश्ण्मनोदोश्हवर्जिताः । ||स्पु००४०३६२|| देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिश्ह्यथ ॥ ||स्पु००४०३७१|| ततो मनोमयं चक्रं स सृश्ह्ट्वा तानुवाच ह । ||स्पु००४०३७२|| क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम ॥ ||स्पु००४०३८१|| यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः । ||स्पु००४०३८२|| ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन ॥ ||स्पु००४०३९१|| तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत । ||स्पु००४०३९२|| नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम ॥ ||स्पु००४०४०१|| तत्पूजितं देवमनुश्ह्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः । ||स्पु००४०४०२|| यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥ ||स्पु००४०४११|| विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः । ||स्पु००४०४१२|| गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥ ||स्पु००४९९९९|| इति स्कन्दपुराणे चतुर्थो.अध्यायः ॥ स्कंदपुराण अध्याय ५ ||स्पु००५००१०|| सनत्कुमार उवाच । ||स्पु००५००११|| तन्नैमिशं समासाद्य ऋश्हयो दीप्ततेजसः । ||स्पु००५००१२|| दिव्यं सत्त्रं समासन्त महद्वर्श्हसहस्रिकम ॥ ||स्पु००५००२१|| एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः । ||स्पु००५००२२|| ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥ ||स्पु००५००३१|| तन्निश्ह्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः । ||स्पु००५००३२|| सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥ ||स्पु००५००४१|| तेश्हां तं भावमालक्ष्य मातरिश्वा महातपाः । ||स्पु००५००४२|| सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः । ||स्पु००५००४३|| ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ॥ ||स्पु००५००५१|| तं ते दृश्ह्ट्वार्चयित्वा च मातरिश्वानमव्ययम । ||स्पु००५००५२|| आसीनमासने पुण्ये ऋश्हयः संशितव्रताः । ||स्पु००५००५३|| पप्रच्च्हुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥ ||स्पु००५००६१|| स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च । ||स्पु००५००६२|| वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥ ||स्पु००५००७१|| अश्ह्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा । ||स्पु००५००७२|| पितृसर्गं तथाशेश्हं ब्रह्मणो मानमेव च ॥ ||स्पु००५००८१|| चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा । ||स्पु००५००८२|| स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेश्हतः । ||स्पु००५००८३|| वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम ॥ ||स्पु००५००९१|| एतत्सर्वमशेश्हेण कथयामास स प्रभुः । ||स्पु००५००९२|| दिव्यं वर्श्हसहस्रं च तेश्हां तदभियात्तथा ॥ ||स्पु००५०१०१|| अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा । ||स्पु००५०१०२|| यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥ ||स्पु००५०१११|| न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी । ||स्पु००५०११२|| कालबाहूर्वर्श्हकरा दिवसाश्ण्गुलिधारिणी ॥ ||स्पु००५०१२१|| कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा । ||स्पु००५०१२२|| कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥ ||स्पु००५०१३१|| च्हन्दोविचितिमध्या च मीमांसानाभिरेव च । ||स्पु००५०१३२|| पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥ ||स्पु००५०१४१|| आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः । ||स्पु००५०१४२|| लोकवेदशरीरा च रोमभिश्च्हान्दसैः शुभैः ॥ ||स्पु००५०१५१|| श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाश्हिणी । ||स्पु००५०१५२|| वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥ ||स्पु००५०१६१|| तस्यान्ते.अवभृथे प्लुत्य वायुना सह संगताः । ||स्पु००५०१६२|| तामपृच्च्हन्त का न्वेश्हा वायुं देवं महाधियम ॥ ||स्पु००५०१७१|| उवाच स महातेजा ऋश्हीन्धर्मानुभावितान । ||स्पु००५०१७२|| शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥ ||स्पु००५०१८१|| यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता । ||स्पु००५०१८२|| इयं सरस्वती नाम ब्रह्मलोकविभूश्हणा ॥ ||स्पु००५०१९१|| प्रथमं मर्त्यलोके.अस्मिन्युश्ह्मत्सिद्ध्यर्थमागता । ||स्पु००५०१९२|| नास्याः पुण्यतमा काचित्त्रिश्हु लोकेश्हु विद्यते ॥ ||स्पु००५०२००|| ऋश्हय ऊचुः । ||स्पु००५०२०१|| कथमेश्हा महापुण्या प्रवृत्ता ब्रह्मलोकगा । ||स्पु००५०२०२|| कारणं किं च तत्रासीदेतदिच्च्हाम वेदितुम ॥ ||स्पु००५०२१०|| वायुरुवाच । ||स्पु००५०२११|| अत्र वो वर्तयिश्ह्यामि इतिहासं पुरातनम । ||स्पु००५०२१२|| ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥ ||स्पु००५०२२१|| यज्ञैरिश्ह्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा । ||स्पु००५०२२२|| असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ||स्पु००५०२३१|| स दृश्ह्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः । ||स्पु००५०२३२|| अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ॥ ||स्पु००५०२४१|| देवादीन्मनुश्ह्यादींश्च दृश्ह्ट्वा दृश्ह्ट्वा महामनाः । ||स्पु००५०२४२|| अमन्यत न मे.अन्यो.अस्ति समो लोके न चाधिकः ॥ ||स्पु००५०२५१|| यो.अहमेताः प्रजाः सर्वाः सप्तलोकप्रतिश्ह्ठिताः । ||स्पु००५०२५२|| देवमानुश्हतिर्यक्षु ग्रसामि विसृजामि च ॥ ||स्पु००५०२६१|| अहं स्रश्ह्टा हि भूतानां नान्यः कश्चन विद्यते । ||स्पु००५०२६२|| नियन्ता लोककर्ता च न मयास्ति समः क्वचित ॥ ||स्पु००५०२७१|| तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः । ||स्पु००५०२७२|| उवाच चैनं दीप्तात्मा मैवं मंस्था महामते । ||स्पु००५०२७३|| अयं हि तव संमोहो विनाशाय भविश्ह्यति ॥ ||स्पु००५०२८१|| न युक्तमीदृशं ते.अद्य सत्त्वस्थस्यात्मयोनिनः । ||स्पु००५०२८२|| स्रश्ह्टा त्वं चैव नान्यो.अस्ति तथापि न यशस्करम ॥ ||स्पु००५०२९१|| अहं कर्ता हि भूतानां भुवनस्य तथैव च । ||स्पु००५०२९२|| करोमि न च संमोहं यथा त्वं देव कत्थसे ॥ ||स्पु००५०३०१|| तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो । ||स्पु००५०३०२|| अहमेव हि भूतानां धर्ता भर्ता तथैव च । ||स्पु००५०३०३|| मया सृश्ह्टानि भूतानि त्वमेवात्र विमुह्यसे ॥ ||स्पु००५०३११|| अथागात्तत्र संविग्नो वेदः परमदीप्तिमान । ||स्पु००५०३१२|| उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥ ||स्पु००५०३२१|| अहं श्रेश्ह्ठो महाभागौ न वदाम्यनृतं क्वचित । ||स्पु००५०३२२|| शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥ ||स्पु००५०३३१|| परमेशो महादेवो रुद्रः सर्वगतः प्रभुः । ||स्पु००५०३३२|| येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥ ||स्पु००५०३४१|| यज्ञो.अयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम । ||स्पु००५०३४२|| सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित ॥ ||स्पु००५०३५१|| तमेवंवादिनं देवो ब्रह्मा वेदमभाश्हत । ||स्पु००५०३५२|| अहं श्रुतीनां सर्वासां नेता स्रश्ह्टा तथैव च ॥ ||स्पु००५०३६१|| मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः । ||स्पु००५०३६२|| मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः । ||स्पु००५०३६३|| प्रायश्चित्तं चरध्वं वः किल्बिश्हान्मोक्ष्यथस्ततः ॥ ||स्पु००५०३७१|| एवमुक्ते तदा तेन महाञ्च्हब्दो बभूव ह । ||स्पु००५०३७२|| आदित्यमण्डलाकारमदृश्यत च मण्डलम । ||स्पु००५०३७३|| महच्च्हब्देन महता उपरिश्ह्टाद्वियत्स्थितम ॥ ||स्पु००५०३८१|| स चापि तस्माद्विभ्रश्ह्टो भूतलं समुपाश्रितः । ||स्पु००५०३८२|| हिमवत्कुञ्जमासाद्य नानाविहगनादितम । ||स्पु००५०३८३|| व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥ ||स्पु००५०३९१|| ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः । ||स्पु००५०३९२|| चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥ ||स्पु००५०४०१|| स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम । ||स्पु००५०४०२|| तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम । ||स्पु००५०४०३|| आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम ॥ ||स्पु००५०४११|| तं दृश्ह्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत । ||स्पु००५०४१२|| संवर्तकाग्निसदृशं ग्रसिश्ह्यत्तमवर्धत ॥ ||स्पु००५०४२१|| वर्धमानं तदा तत्तु वडवामुखसंनिभम । ||स्पु००५०४२२|| दीप्तिमच्च्हब्दवच्चैव देवो.असौ दीप्तमण्डलः ॥ ||स्पु००५०४३१|| हस्ताश्ण्गुश्ह्ठनखेनाशु वामेनावज्ञयैव हि । ||स्पु००५०४३२|| चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥ ||स्पु००५०४४१|| दीप्तिकृत्तशिराः सो.अथ दुःखेनोस्रेण चार्दितः । ||स्पु००५०४४२|| पपात मूढचेता वै योगधर्मविवर्जितः ॥ ||स्पु००५०४५१|| ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः । ||स्पु००५०४५२|| मण्डलस्थं महादेवमस्तौश्हीद्दीनया गिरा ॥ ||स्पु००५०४६०|| ब्रह्मोवाच । ||स्पु००५०४६१|| नमः सहस्रनेत्राय शतनेत्राय वै नमः । ||स्पु००५०४६२|| नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥ ||स्पु००५०४७१|| नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः । ||स्पु००५०४७२|| नमः सहस्रपादाय सर्वपादाय वै नमः ॥ ||स्पु००५०४८१|| सहस्रपाणये चैव सर्वतःपाणये नमः । ||स्पु००५०४८२|| नमः सर्वस्य स्रश्ह्ट्रे च द्रश्ह्ट्रे सर्वस्य ते नमः ॥ ||स्पु००५०४९१|| आदित्यवर्णाय नमः शिरसश्च्हेदनाय च । ||स्पु००५०४९२|| सृश्ह्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥ ||स्पु००५०५०१|| नमः सहस्रलिश्ण्गाय सहस्रचरणाय च । ||स्पु००५०५०२|| संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ॥ ||स्पु००५०५११|| अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च । ||स्पु००५०५१२|| व्यापिने सर्वसत्त्वानां पुरुश्हप्रेरकाय च ॥ ||स्पु००५०५२१|| इन्द्रियार्थविशेश्हाय तथा नियमकारिणे । ||स्पु००५०५२२|| भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥ ||स्पु००५०५३१|| त्वमेव स्रश्ह्टा लोकानां मन्ता दाता तथा विभो । ||स्पु००५०५३२|| शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥ ||स्पु००५०५४१|| तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह । ||स्पु००५०५४२|| स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥ ||स्पु००५०५५१|| चक्षुश्हा तेन स तदा ब्रह्मा लोकपितामहः । ||स्पु००५०५५२|| विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥ ||स्पु००५०५६१|| तस्य मध्यात्ततो वाचं महतीं समशृण्वत । ||स्पु००५०५६२|| गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम । ||स्पु००५०५६३|| विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम ॥ ||स्पु००५०५७१|| संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः । ||स्पु००५०५७२|| यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥ ||स्पु००५०५८१|| मदीयो गणपो यस्ते मन्मूर्तिश्च भविश्ह्यति । ||स्पु००५०५८२|| स प्राप्य परमं ज्ञानं मूढ त्वा विनयिश्ह्यति ॥ ||स्पु००५०५९१|| तस्येयं फलनिश्ह्पत्तिः शिरसश्च्हेदनं तव । ||स्पु००५०५९२|| मयैव कारिता तेन निर्वृतश्चाधुना भव ॥ ||स्पु००५०६०१|| तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते । ||स्पु००५०६०२|| शिरश्च्हेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे । ||स्पु००५०६०३|| स्तवेनानेन तुश्ह्टो.अस्मि किं ददानि च ते.अनघ ॥ ||स्पु००५०६११|| वायुरुवाच । ||स्पु००५०६१२|| ततः स भगवान्हृश्ह्टः प्रणम्य शुभया गिरा । ||स्पु००५०६१३|| उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम ॥ ||स्पु००५०६२१|| भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते । ||स्पु००५०६२२|| इच्च्हामि शिरसो ह्यस्य धारणं सर्वदा त्वया । ||स्पु००५०६२३|| ननु स्मरेयमेतच्च शिरसश्च्हेद

Related Content

Skanda Maha Purana

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

The Sutasamhita On The Saiva Agamas By M. Narayaswami Aiyar