logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolश्री विश्वनाथ सुप्रभातमsree vishwanath suprabhatOm symbol

श्री विश्वनाथ सुप्रभातम

Please send your corrections

shrI vishvanAtha suprabhAtam श्री विश्वनाथ सुप्रभातम उत्तिष्ट भैरवस्वामिन काशिकापुरपालक । श्रीविश्वनाथभक्तानां संपूरय मनोरथम ॥ १ ॥ स्नानाय गाङ्गसलिले.अथ समर्चनाय विश्वेश्वरस्य बहुभक्तजना उपेताः । श्रीकालभैरव लसन्ति भवन्निदेशं उत्तिष्ट दर्शय दशां तव सुप्रभातम ॥ २॥ यागव्रतादिबहुपुण्यवशं यथा त्वं पापात्मनामपि तथा सुगतिप्रदा.असि । कारुण्यपूरमयि शैलसुतासपत्नि मातर्भगीरथसुते तव सुप्रब्ब्भातम ॥ ३ ॥ दुग्धप्रवाहकमनीयतरङ्गभङ्गे पुण्यप्रवाहपरिपाथितभक्तसङ्घे । नित्यं तपस्विजनसेवितपादपद्मे गङ्गे शरण्यशिवदे तव सुप्रभातम ॥ ४ ॥ वाराणसीस्थितगजानन दुण्ठिराज संप्रार्थितेष्टफलदानसमर्थमूर्ते । उत्तिष्ट विघ्नविरहाय भजामहे त्वां श्रीपार्वतीतनय भोस्तव सुप्रभातम ॥ ५ ॥ पूजास्पद प्रथममेव सुरेशु मध्ये संपूरणे कुशल भक्तमनोरथानाम । गीर्वाणबृन्दपरिपूजितपादपद्म संजायतां गणपते तव सुप्रभातम ॥ ६ ॥ कात्यायनि प्रमथनाथशरीरभागे भक्तालिगीतमुखरीकृतपादपद्मे । ब्रह्मादिदेवगणवन्दितदिव्यशौर्ये श्रीविश्वनाथदयिते तव सुप्रभातम ॥ ७ ॥ प्रातः प्रसीद विमले कमलायताक्शि कारुण्यपूर्णहृदये नमतां शरण्ये । निर्धूतपापनिचये सुरपूजिताङ्घ्रे श्रीविश्वनाथदयिते तव सुप्रभातम ॥ ८ ॥ सस्यानुकूलजलवर्षणकार्यहेतोः शाकम्भरीति तव नाम भुवि प्रसिद्दम । सस्यातिजातमिह शुष्यति चान्नपूर्णे उत्तिष्ट सर्वफलदे तव सुप्रभातम ॥ ९ ॥ सर्वोत्तमं मानवजन्म लब्ध्वा हिनस्ति जीवान भुवि मर्त्यवर्गः । तद्दारणायाशु जहीहि निद्रां देव्यन्नपूर्णे तव सुप्रभातम ॥१०। शईकण्ठ कण्ठधृतपन्नग नीलकण्ठ सोत्कण्ठभक्तनिवहोपहितोपकण्ठ । उत्तिष्ट सर्वजनमङ्गलसाधनाय विश्वप्रजाप्रथितभद्र जहीहि निद्राम ॥ ११ ॥ गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते वेदान्तवेद्य सकलेश्वर विश्वमूर्ते । कूटस्थनित्य निखिलागमगीतकीर्ते देवासुरार्चित विभो तव सुप्रभातम ॥ १२ ॥ श्रीविश्वनाथकरुणामृतपूर्णसिन्धो शीतांशुखण्डसमलंकृतभव्यचूड । भस्माङ्गरागपरिशोभितसर्वदेह वाराणसीपुरपते तव सुप्रभातम ॥ १३ ॥ देवादिदेव त्रिपुरान्तक दिव्यभाव गङ्गाधर प्रमथवन्दित सुन्दराङ्ग । नागेन्द्रहार नतभक्तभयापहार वाराणसीपुरपते तव सुप्रभातम ॥ १४ ॥ वेदान्तशास्त्रविशदीकृतदिव्यमूर्ते प्रत्यूषकालमुनिपुङ्गवगीतकीर्ते । त्वय्यर्पितार्जितसमस्तसुरक्शणस्य वाराणसीपुरपते तव सुप्रभातम ॥ १५ ॥ कैलासवासमुनिसेवितपादपद्म गङ्गाजलौघपरिषिक्तजटाकलाप । वाचामगोचरविभो जटिलत्रिनेत्र वाराणसीपुरपते तव सुप्रभातम ॥ १६ ॥ श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र श्रीनीलकण्ठ नृकपालकलापमाल । श्रीविश्वनाथमृदुपङ्कजमञ्जुपाद श्रीकाशिकापुरपते तव सुप्रभातम ॥ १७ ॥ काशी त्रितापहरणी शिवसद्मभूता शर्मेश्वरी त्रिजगतां सुपुरीषु हृद्या । विद्याकलासु नवकौशलदानशीला श्रीकाशिकापुरपते तव सुप्रभातम ॥ १८ ॥ श्रीविश्वनाथ तव पादयुगं स्मरामि गङ्गामघापहरणीं शिरशा नमामि । वाचं तवैव यशसा.अनघ भूषयामि  वाराणसीपुरपते तव सुप्रभातम ॥ १९ ॥ नारीनतेश्वरयुतं निजचारुरूपं स्त्रीगौरवं जगति वर्धयितुं तनोषि । गङ्गां हि धारयसि मूर्ध्नि तथैव देव वाराणसीपुरपते तव सुप्रभातम ॥ २० ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ * ॐ मङ्गलं भगवान शम्भो मङ्गलम व‍ईषभध्वज । मङ्गलं पार्वतीनाथ मङ्गलं भक्तवत्सल ॥ * * एतत श्लोकद्वयं प्राचीनकविक‍ईतम ।

Related Content

শ্রীকাশীৱিশ্ৱনাথস্তোত্রম - Shri Kashivishvanatha Stotram

Shiva - Suprabhatam

Vishwanatha Ashtakam

ವಿಶ್ವನಾಥಾ ಅಷ್ಟಕಮ್

ಶ್ರೀಕಾಶೀವಿಶ್ವನಾಥಸ್ತೋತ್ರಮ್ - Shri Kashivishvanatha Stotram