logo

|

Home >

Scripture >

scripture >

Marathi

Om symbol श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotramOm symbol

Shri daxinamurti stotram

 

श्री दशिणामूर्ति स्तोत्रम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shrI daxiNAmUrti stotram 
श्री दशिणामूर्ति स्तोत्रम

अपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले ।
तद्दाम दाशिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम ॥ १ ॥

अद्राशमशीणदयानिधानमाचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम ॥ २ ॥

विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम ।
निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम ॥ ३ ॥

अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम ।
कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम ॥ ४ ॥

ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः ।
ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु ॥ ५ ॥

कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्दमूर्तिम ।
आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम ॥ ६ ॥

स्वदशजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम ।
अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम ॥ ७ ॥

तत्त्वार्थमन्तेवसतामृषीणां युवा.अपि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासाम ॥ ८ ॥

एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडामणिराविरस्तु ॥ ९ ॥

आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम ।
आलोकये कञ्चन देशिकेन्द्रमघ्य़ानवाराकरबाडवाग्निम ॥ १० ॥

चारुस्मित सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम ।
उपासते केचन योगिनस्त्वामुपात्तनादानुभवप्रमोदम ॥ ११ ॥

उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः ।
तं दशिणामूर्तितनुं महेशमुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस ॓-॓
     न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीशितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
     देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैर्पूर्णकामैरमरेरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे ।
दीशितं जडधियामनुग्रहे दशिणाभिमुखमेव दैवतम ॥ १५ ॥

मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये ।
जगदीन्द्रजालरचनापटियसे महसे नमो.अस्तु वटमूलवासिने ॥ १६ ॥

व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम ॥ १७ ॥

उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि ।
उअदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥

यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धश्शाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम ॥ १९ ॥

	॥ दशिणामूर्तिस्तोत्रं संपूर्णम ॥

Related Content

Dakshinamurti Upanishad

Various hymns on Lord Shri Daxinamurti

upamanyukrutam shivastotram

shivabhujanga prayaata stotram

shivastutiH (langkeshvara virachitaa)