This Page is courtesy of Sanskrit Documents List. Please send your corrections
shrI daxiNAmUrti stotram श्री दशिणामूर्ति स्तोत्रम अपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले । तद्दाम दाशिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम ॥ १ ॥ अद्राशमशीणदयानिधानमाचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम ॥ २ ॥ विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम ॥ ३ ॥ अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम । कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम ॥ ४ ॥ ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः । ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु ॥ ५ ॥ कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्दमूर्तिम । आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम ॥ ६ ॥ स्वदशजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम ॥ ७ ॥ तत्त्वार्थमन्तेवसतामृषीणां युवा.अपि यः सन्नुपदेष्टुमीष्टे । प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासाम ॥ ८ ॥ एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडामणिराविरस्तु ॥ ९ ॥ आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम । आलोकये कञ्चन देशिकेन्द्रमघ्य़ानवाराकरबाडवाग्निम ॥ १० ॥ चारुस्मित सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम । उपासते केचन योगिनस्त्वामुपात्तनादानुभवप्रमोदम ॥ ११ ॥ उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः । तं दशिणामूर्तितनुं महेशमुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥ कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस ॓-॓ न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीशितैः । मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥ अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रैरनपास्तनिद्रैर्पूर्णकामैरमरेरलं नः ॥ १४ ॥ दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे । दीशितं जडधियामनुग्रहे दशिणाभिमुखमेव दैवतम ॥ १५ ॥ मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदीन्द्रजालरचनापटियसे महसे नमो.अस्तु वटमूलवासिने ॥ १६ ॥ व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम ॥ १७ ॥ उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि । उअदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥ यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धश्शाङ्कमौलेः । ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम ॥ १९ ॥ ॥ दशिणामूर्तिस्तोत्रं संपूर्णम ॥