This Page is courtesy of Sanskrit Documents List. Please send your corrections
shivastotra by Swami Vivekanand शिवस्तोत्रम.ह ॐ नमः शिवाय. निखिलभुवनजन्मस्थमभङ्गप्ररोहाः अकलितमहिमानः कल्पिता यत्र तस्मिन.ह . सुविमलगगनाभे ईशसंस्थे.अप्यनीशे मम भवतु भवे.अस्मिन.ह भासुरो भावबन्धः .. निहतनिखिलमोहे.अधीशता यत्र रूढा प्रकटितपरप्रेम्ना यो महादेव संघ्य़ः . अशिथिलपरिरम्भः प्रेमरूपस्य यस्य प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम.ह .. वहति विपुलवातः पूर्व संस्काररूपः प्रमथति बलवृंदं घूर्णितेवोर्मिमाला . प्रचलति खलु युग्मं युश्ह्मदस्मत्प्रतीतम.ह अतिविकलितरूपं नौमि चित्तं शिवस्थम.ह .. जनकजनितभावो वृत्तयः संस्कृताश्च अगणनबहुरूपा यत्र एको यथार्थः . शमितविकृतवाते यत्र नांतर्बहिश्च तमहह हरमौडे चित्तवृत्तेर्निरोधम.ह .. गलिततिमिरमालः शुभ्रतेजःप्रकाशः धवलकमलशोभः घ्य़ानपुञ्जाट्टहासः . यमिजनहृदिगम्यः निश्ह्कलं ध्यायमानः प्रणतमवतु मं सः मानसो राजहंसः .. दुरितदलनदक्शं दक्शजादत्तदोश्हम.ह कलितकलिकलङ्कं कम्रकल्हारकांतम.ह . परहितकरणाय प्राणविच्च्हेदसूत्कम.ह नतनयननियुक्तं नीलकंठं नमामः .. - स्वामि विवेकानन्द.