logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolकल्किकृतं शिवस्तोत्रम - Shivastotra by kalki avatar Om symbol

Shivastotra by kalki avatar

कल्किकृतं शिवस्तोत्रम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

Shivastotra by kalki avatar 
कल्किकृतं शिवस्तोत्रम

श्रीगणेशाय नमः .

गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम .
त्र्यक्शं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्शम .. १..

योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम .
जटाजूटाटोपरिक्शिप्तभावं महाकालं चन्द्रभालं नमामि .. २..

श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च .
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोको.अस्तमेति .. ३..

यो भूतादिः पञ्चभूतैः सिसृक्शुस्तन्मात्रात्मा कालकर्मस्वभावैः .
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि .. ४..

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति .
ब्रह्माद्यंशे यो.अभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि .. ५..

यस्याद्न्यया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन .
शीतांशुः खे तारकासंग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये .. ६..

यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता .
मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि .. ७..

इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं सम्पूर्णम.

Related Content