logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशिवमीडेस्तवरत्नम - shivamide stava Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


shivamIDe stava शिवमीडेस्तवरत्नम This Page is courtesy of Sanskrit Documents List. Please send your corrections This stotra is also available in devanAgari PDF shivamIDestavaratnam .. शिवमीडेस्तवरत्नम .. स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम . अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम .. १.. यः क्रीडार्थं विश्वमशेषं निजशक्त्या सृष्ट्वा स्वस्मिन क्रीडति देवो.अप्यनवद्यः . निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २.. एको देवो भाति तरङ्गेष्विव भानुः नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम . शुद्धो बुद्धो निर्मलरूपो निरवद्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ३.. देवाधीशं सर्ववरेण्यं हृदयाब्जे नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या . शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ४.. श्रौतैः स्मार्तैः कर्मशतैश्चपि य ईशो दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः . संविद्रूपस्वैकविचारादधिगम्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ५.. कर्माध्यक्षः कामिजनानां फलदाता कर्तृत्वाहंकारविमुक्तो निरपेक्षः . देहातीतो दृश्यविविक्तो जगदीशः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ६.. नान्तर्बाह्ये नोभयतो वा प्रविभक्तं यं सर्वज्ञं नापि समर्थो निगमादिः . तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ७.. यद्भासार्को भाति हिमांशुर्दहनो वा दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः . यस्माद भाति व्यष्टिसमष्ट्यात्मकमेतत तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ८.. आशादेशाद्यव्यवधानो विभुरेकः सर्वाधारः सर्वनियन्ता परमात्मा . पूर्णानन्दः सत्त्ववतां यो हृदि देवः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ९.. को.अहं देवः किं जगदेतत प्रविचाराद दृश्यं सर्वं नश्वररूपं गुरुवाक्यात . सिद्धे चैवं यः खलु शेषः प्रतिपन्नः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १०.. सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेदः . जल्पन्त्येवं स्वच्च्हधियो.अपि प्रभुमेकं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ११.. यस्माद भीतो वाति च वायुस्त्रिपुरेषु ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः . चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १२.. मायाकार्यं जन्म च नाशः पुरजेतुः नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात . निर्णीतार्थो नित्यविमुक्तो निरपायः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १३.. नायं देहो नेन्द्रियवर्गो न च वायुः नेदं दृश्यं जात्यभिमानो न च बुद्धिः . इत्थं श्रुत्या यो गुरुवाक्यात प्रतिलब्धः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १४.. स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं ह्रस्वं शुक्लं कृष्णमखण्डो.अव्ययरूपः . प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १५.. यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या\- स्तिर्यञ्चो.अपि स्थावरभेदाः प्रभवन्ति . तत्तत्कार्यप्राभववन्तः सुखिनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १६.. यस्मिञ्ज्ञाते ज्ञातमशेषं भुवनं स्याद यस्मिन दृष्टे भेदसमूहो लयमेति . यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १७.. द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम . आशां श्रोत्रं लोमसमूहं तरुवल्लीः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १८.. प्राणायामैः पूतधियो यं प्रणवान्तं संधायात्मन्यव्यपदेश्यं निजबोधम . जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १९.. यच्च्ह्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम . यद ध्यातव्यं सत्यमखण्डं निरवद्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २०.. यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं नित्यानन्दं तं फलपाणिः समुपैति . भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २१.. पृथव्यम्बवग्निस्पर्शनखानि प्रविलाप्य स्वस्मिन मत्या धारनया वा प्रणवेन . यच्च्हिष्टं तद ब्रह्म भवामीत्यनुभूतं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २२.. लीने चित्ते भाति च एको निखिलेषु प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम . सत्यासत्ये सत्यमभूच्च व्यतिरेकात तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २३.. चेतःसाक्षी प्रत्यगभिन्नो विभुरेकः प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः . सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २४.. सर्वे कामा यस्य विलीना हृदि संस्थाः तस्योदेति ब्रह्मरविर्यो हृदि तत्र . विद्याविद्या नास्ति परे च श्रुतिवाक्यात तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २५.. स त्यागेशः सर्वगुहान्तः परिपूर्णो वक्ता श्रोता वेदपुराणप्रतिपाद्यः . इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २६.. नित्यं भक्त्या यः पठतीदं स्तवरत्नं तस्याविद्या जन्म च नाशो लयमेतु . किं चात्मनं पश्यतु सत्यं निजबोधं सर्वान कामान स्वं लभतां स प्रियरूपम .. २७.. इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं शिवमीडेस्तवरत्नं संपूर्णम ..

Related Content

শিৱ স্তৱঃ - shiva stavah

ৱেদসার শিৱস্তৱ স্তোত্রম (ছংকরাচার্য ৱিরচিতো) - Vedasaara Sh

শিৱস্তৱরাজঃ - Shivastavarajah

শংভুস্তৱঃ - Shambhustavah

Shivastavah