This Page is courtesy of Sanskrit Documents List. Please send your corrections
shivamaanasapuujaa .. शिवमानसपूजा .. रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूश्हितं मृगमदामोदाङ्कितं चन्दनम.ह . जातीचम्पकबिल्वपत्ररचितं पुश्ह्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम.ह .. १.. सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्श्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम.ह . शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु .. २.. च्हत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम.ह वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा . साश्ह्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो .. ३.. आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विश्हयोपभोगरचना निद्रा समाधिस्थितिः . सञ्चारः पदयोः प्रदक्शिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम.ह .. ४.. करचरण कृतं वाक्कायजं कर्मजं वा . श्रवणनयनजं वा मानसं वापराधम.ह . विहितमविहितं वा सर्वमेतत्क्शमस्व . जय जय करुणाब्धे श्रीमहादेवशम्भो .. ५.. .. इति श्रीमच्च्हङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता..