logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशिवभुजङ्गप्रयातस्तोत्रम - Shivabhujanga Prayata StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivabhujanga Prayata Stotram शिवभुजङ्ग प्रयात स्तोत्रम यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥१॥ यदा दुर्निवारव्यथोऽहं शयनो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात ॥२॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥३॥ यदा पश्यतां मामसौ वेत्ति नास्मानयं हास एवेति वाचो वदेयुः । तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम ॥४॥ यदा पारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि दूरम । तदा तं निरुन्धन कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ॥५॥ यदा रौरवादीन स्मरन्नेव भीत्या व्रजाम्येव मोहं पतिष्यामि घोरे। तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ॥६॥ यदा श्वेतपत्रायतालङ्घ्यशक्ते कृतान्ताद्भयं भक्तवात्सल्यभावात । तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥७॥ इदानीमिदानीं मतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि । कथं नाम मा भून्मनोवृत्तिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥८॥ अमर्यादमेवामुमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । स्तुतौ तावदस्यां तवैव प्रसादाद्भवानीपते निर्मयोऽहं भवानि ॥९॥ जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ केन । भवन्तं विना मे गतिर्नैव शंभो दयाळो न जागर्ति किं वा दया ते ॥१०॥ शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची । ममेशान मागान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥११॥ त्वमप्यंब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्त्यै। बृहत्क्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम ॥१२॥ अनेन स्तवेनादरादम्बिकेश परां भक्तिमातन्वता ये नमन्ति । मृतौ निर्भयास्ते ह्यनन्तं लभन्ते हृदंभोजमध्ये समासीनमीशं ॥१३ ॥ अकण्ठे कळङ्कादनङ्गे भुजङ्गादपाणौ कपालादभालेऽनलाक्षात । अमौलौ शशाङ्कादहं देवमन्यं न मन्ये न मन्ये न मन्ये न मन्ये ॥१४॥ किरीटे निशीशो ललाटे हुताशो भुजे भोगिराजो गळे कालिमा च । तनौ कामिनी यस्य तुल्यं न देवं न जाने न जाने न जाने न जाने ॥१५॥ अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि यस्मात ॥१६। शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहं शिवादन्यथा दैवतं नाभिजाने । महादेव शंभो गिरीश त्रिशूलिन त्वयीदं समस्तं विभातीति यस्मात ॥१७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचितं शिवभुजङ्गप्रयातस्तोत्रं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্