logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशिवभुजङ्ग प्रयात स्तोत्रम - Shivabhujanga Prayaata StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivabhujanga Prayaata Stotram शिवभुजङ्ग प्रयात स्तोत्रम । गलद्दानगण्डं मिलद्भृङ्गखण्डं चलच्चारुशुण्डं जगत्राणशौण्डं । लसद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम॥१॥ अनाद्यन्तमाद्यं परन्तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महः शैवमीडे ॥२॥ स्वशक्त्यादि शक्त्य्न्तसिंहासनस्थं मनोहारिसर्वांगरत्नादिभूषम । जटाहींदुगंगास्थिशश्यर्कमौलिं परं शक्तिमित्रं नुमः पञ्चवक्त्रम ॥३॥ शिवेशानतत्पूरुषाघोरवामादिभिर्ब्रह्मभिर्हृन्मुखैः षड्भिरंगैः । अनौपम्यषट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥४॥ प्रवाळप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहः श्याममर्धम । गुणस्यूतमेकं वपुश्चेकमन्तः स्मरामि स्मरापत्तिसंपत्तिहेतुम ॥५॥ स्वसेवासमायात देवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम । नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानीविभाव्यम ॥६॥ जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन । महः स्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥७॥ महादेव देवेश देवाधिदेव स्मरारे पुरारे यमारे हरेति । ब्रुवाणः स्मरिष्वामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥८॥ विरूपाक्ष विश्वेश विद्यादिकेश त्रयीमूल शंभो शिव त्र्यंबक त्वम । प्रसीद स्मर त्राहि पश्याव पुण्य क्षमस्वाप्नुहि त्र्यक्ष पाहि त्वमस्मान ॥९॥ त्वदन्यः शरण्यः प्रपन्न्स्य नेति प्रसीद स्मरन्नव हन्यास्तु दैन्यम । न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयाळो दयां सन्निधेहि ॥१०॥ अयं दानकालस्त्वहं दानपात्रं भवान्नाथ दाता त्वदन्यन्न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात ॥११॥ पशुं वेत्सि चेन्मां त्वमेवाधिरूढः कळंकीति वा मूर्ध्नि धत्से त्वमेव । द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गकृताः शर्व सर्वेऽपि धन्याः ॥१२॥ न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश । तदा हि प्रसन्नोऽसि कस्यापि कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ॥१३॥ स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलंबे । त्रसन्तं सुतं त्रातुमग्रे मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम ॥१४॥ अकण्ठे कळङ्कादनङ्गे भुजङ्गादपाणौ कपालादभालेऽनलाक्षात । अमौलौ शशाङ्कादवामे कळत्रादहं देवमन्यं न मन्ये न मन्ये ॥१५॥ शिरोद्दष्टिहृद्रोगशूलप्रमेहज्वरार्शोजरायक्ष्महिक्काविषार्तान । त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ दरिद्रोऽस्म्यभद्रोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि भिन्नोऽस्मि चाहम । भवान्प्राणिनामन्तरात्मासि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम ॥१६॥ त्वदक्ष्णोः कटाक्षः पतेत त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणीते । किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षामभूषाविशेषैः ॥१७॥ भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्ने मखघ्ने । शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायाम्बिकायै नमस्यम्बकाय ॥१८॥ भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यद्दष्ट्यानुगं माम । शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥१९॥ यदा कर्णरन्ध्रं व्रजेत्कालवाहद्विषत्कण्ठघण्टाघणाकारनादः । वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वम ॥२०॥ यदा दारुणा भाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो॥२१॥ यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृता व्यक्तवाणिः । तदा जह्रुकन्याजलालङ्कऋतं ते जटामण्डलं मन्मनोमन्दिरं स्यात ॥२२॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीद्दशीयं दशेति । तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३॥ यदा पश्यतां मामसौ वेत्ति नास्मानयं श्वास एवेति वाचो भवेयुः । तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम ॥२४॥ यदा यातनादेह सन्देहवाही भवेदात्मदेहे न मोहो महान्मे । तदा काशशीतांशुसङ्काशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥२५॥ यदा पारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम । तदा तं निरुब्धन्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥२६॥ यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम । तदा मामहो नाथ तस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ॥२७॥ यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात । तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेताद्दशं मे ॥२८॥ इदानीमिदानीं मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि । कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥२९॥ अमर्यादमेवाहमाऽऽबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि ॥३०॥ जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथदेव । भवन्तं विना मे गतिर्नैव शंभो दयाळो न जागर्ति किं वा दया ते ॥ ३१॥ शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची । महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥३२॥ त्वमत्यम्ब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्तौ । बहुक्लेशभाजं पदाम्भोजपोते भवाब्धौ निमग्नं नयस्वाद्यपारम ॥ ३३॥ अनुद्यल्ललाटाक्षिवह्निप्ररोहैरवामस्फुरच्चारुवामोरुशोभैः । अनङ्गभ्रमद्भोगिभूषाविशेषरचन्द्रार्घचूडैरलं दैवतैर्नः ॥ ३४॥ अकण्ठे कलङ्कादनङ्गे भुजङ्गादपाणौ कपालादभालेऽनलाक्षात । अमौलौ शशाङ्कादवामे कळत्रादहं देवमन्यं न मन्ये न मन्ये ॥३५॥ महादेव शंभो गिरीश त्रिशूलिंस्त्वयीदं समस्तं विभातीति यस्मात । शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहम ॥३६॥ यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन यदेकान्तमन्ते । स कर्मादिहीनः स्वयंज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहम ॥३७॥ किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च । तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने ॥ ३८॥ अनेन स्तवेनादरादम्बिकेशं परां भक्तिमासाद्य यं ये नमन्ति । मृतौ निर्भयास्ते जनास्तं भजन्ते हृदम्भोजमध्ये सदासीनमीशम ॥ ३९॥ भुजङ्गप्रियाकल्प शम्भो मयैवं भुजङ्गप्रयातेन वृत्तेन क्लृप्तम । नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्काराचार्य विरचितं शिवभुजङ्ग प्रयातस्तोत्रं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্