This Page is courtesy of Sanskrit Documents List. Please send your corrections
shrI shivaananda lahari श्री शिवानन्द लहरी कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः\- फलाभ्यां भक्तेश्हु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन\- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम.ह ॥ १॥ गलन्ती शंभो त्वच्चरितसरितः किल्बिश्हरजो दलन्ती धीकुल्यासरणिश्हु पतन्ती विजयताम.ह । दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोहृदभुवि शिवानन्दलहरी ॥ २॥ त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम.ह । महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३॥ सहस्रं वर्तन्ते जगति विबुधाः क्शुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम.ह । हरिब्रह्मादीनामापि निकटभाजामसुलभं चिरं याचे शंभो तव पदांभोजभजनम.ह ॥ ४॥ स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मन्त्रे वा स्तुतिनटनहास्येश्ह्वचतुरः । कथं राघ्य़ां प्रीतिर्भवति मयि को.अहं पशुपते पशुं मां सर्वघ्य़ प्रथित कृपया पालय विभो ॥ ५॥ घटो वा मृत्पिण्डो.अप्यणुरपि च धूमो.अग्निरचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम.ह । वृथा कण्ठक्शोभं वहसि तरसा तर्कवचसा पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६॥ मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ । तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान.ह कैर्वा परमशिव जाने परमतः ॥ ७॥ यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि\- र्जले पैश्ह्टे क्शीरं भवति मृगतृश्ह्णासु सलिलम.ह । तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८॥ गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः । समर्प्यैकं चेतः सरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९॥ नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम.ह । सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी\- विहारासक्तं चेद.ह्धृदयमिह किं तेन वपुश्हा ॥ १०॥ वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा यः कश्चिद्भवतु भव किं तेन भवति । यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११॥ गुहायां गेहे वा बहिरपि वने वा.अद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम.ह । सदा यस्यैवान्तःकरणमपि शंभो तव पदे स्थितं चेद्योगो.असौ स च परमयोगी स च सुखी ॥ १२॥ असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम.ह । मदन्यः को दीनस्तव कृपणरक्शातिनिपुण\- स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३॥ प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्यो.अहं तेश्हामपि किमुत बन्धुत्वमनयोः । त्वयैव क्शन्तव्याः शिव मदपराधाश्च सकलाः प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४॥ उपेक्शा नो चेत.ह किं न हरसि भवद.ह्ध्यानविमुखां दुराशाभूयिश्ह्ठां विधिलिपिमशक्तो यदि भवान.ह । शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितम.ह ॥ १५॥ विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर\- श्चतुश्ह्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान.ह । विचारः को वा मां विशद कृपया पाति शिव ते कटाक्शव्यापारः स्वयमपि च दीनावनपरः ॥ १६॥ फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्ने.अपि स्वामिन.ह भवदमलपादाब्जयुगलम.ह । कथं पश्येयं मां स्थगयति नमः संभ्रमजुश्हां निलिम्पानां श्रोणिर्निजकनकमाणिक्यमकुटैः ॥ १७॥ त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः । कियद्वा दाक्शिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्शां वहसि करुणापूरितदृशा ॥ १८॥ दुराशाभूयिश्ह्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके । मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम.ह ॥ १९॥ सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः । कपालिन.ह भिक्शो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २०॥ धृतिस्तंभाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम.ह । स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन.ह शक्त्या सह शिवगणैः सेवित विभो ॥ २१॥ प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्तस्सन.ह भ्रमति बहुधा तस्करपते । इमं चेतश्चोरं कथमिह सहे शंकर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम.ह ॥ २२॥ करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विश्ह्णुत्वं दिशसि खलु तस्याः फलमिति । पुनश्च त्वां द्रश्ह्टुं दिवि भुवि वहन.ह पक्शिमृगता\- मदृश्ह्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३॥ कदा वा कैलासे कनकमणिसौधे सहगणै\- र्वसन.ह शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः । विभो साम्ब स्वामिन.ह परमशिव पाहीति निगदन.ह विधातईणां कल्पान.ह क्शणमिव विनेश्ह्यामि सुखतः ॥ २४॥ स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्शस्य ककुदि । स्थितं नीलग्रीवं त्रिनयनमुमाश्लिश्ह्टवपुश्हं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम.ह ॥ २५॥ कदा वा त्वां दृश्ह्ट्वा गिरिश तव भव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन.ह । समाश्लिश्ह्याघ्राय स्फुटजलजगन्धान.ह परिमला\- नलाभ्यां ब्रह्माद्यैर्मुदमनुभविश्ह्यामि हृदये ॥ २६॥ करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजा.अमरसुरभिचिन्तामणिगणे । शिरस्थे शीतांशौ चरणयुगलस्थे.अखिलशुभे कमर्थं दास्ये.अहं भवतु भवदर्थं मम मनः ॥ २७॥ सारूप्यं तव पूजने शिव महादेवेति संकीर्तने सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाश्हणे । सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन.ह कृतार्थो.अस्म्यहम.ह ॥ २८॥ त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्शां मे दिश चाक्शुश्हीं सकरुणां दिव्यैश्चिरं प्रार्थितां शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९॥ वस्त्रोद्धूतविधौ सहस्रकरता पुश्ह्पार्चने विश्ह्णुता गन्धे गन्धवहात्मता.अन्नपचने बर्हिर्मुखाध्यक्शता । पात्रे काञ्चनगर्भतास्ति मयि चेद.ह बालेन्दुचूडामणे शुश्रूश्हां करवाणि ते पशुपते स्वामिन.ह त्रिलोकीगुरो ॥ ३०॥ नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन.ह कुक्शिगतान.ह चराचरगणान.ह बाह्यस्थितान.ह रक्शितुम.ह । सर्वामर्त्यपलायनौश्हधमतिज्वालाकरं भीकरं निक्शिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१॥ ज्वालोग्रः सकलामरातिभयदः क्श्वेलः कथं वा त्वया दृश्ह्टः किं च करे धृतः करतले किं पक्वजंबूफलम.ह । जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूश्हणमयं शंभो महात्मन.ह वद ॥ ३२॥ नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम.ह । स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत.ह किं प्रार्थनीयं तदा ॥ ३३॥ किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव\- द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते । भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान.ह ॥ ३४॥ योगक्शेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो दृश्ह्टादृश्ह्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः । सर्वघ्य़स्य दयाकरस्य भवतः किं वेदितव्यं मया शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम.ह ॥ ३५॥ भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम.ह । सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन.ह पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन.ह ॥ ३६॥ आम्नायाम्बुधिमादरेण सुमनस्संघाः समुद्यन्मनो मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः । सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७॥ प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिःप्रसन्नः शिवः सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमोमोचकः । चेतः पुश्ह्करलक्शितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८॥ धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः कालाः सुखाविश्ह्कृताः । घ्य़ानानन्दमहौश्हधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९॥ धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै\- रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः । हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्शान.ह मम सेवकस्य भगवन.ह विश्वेश भीतिः कुतः ॥ ४०॥ पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय स्तोत्रध्याननतिप्रदक्शिणसपर्यालोकनाकर्णने । जिह्वाचित्तशिरोङ.ह्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाघ्य़ापय तन्निरूपय मुहुर्मामेव मा मे.अवचः ॥ ४१॥ गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद.ह्गुण\- स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः । विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२॥ मा गच्च्ह त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे । वर्तन्ते बहुशो मृगा मदजुश्हो मात्सर्यमोहादय\- स्तान.ह हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि ॥ ४३॥ करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनो.अस्तजन्तुः । गिरिशो विशदाकृतिश्च चेतः\- कुहरे पञ्चमुखोस्ति मे कुतो भीः ॥ ४४॥ च्हन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते । चेतःपक्शिशिखामणे त्यज वृथासंचारमन्यैरलं नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५॥ आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै\- राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते । नित्यं भक्तिवधूगणैश्च रहसि स्वेच्च्हाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६॥ शंभुध्यानवसन्तसंगिनि हृदारामे.अघजीर्णच्च्हदाः स्रस्ता भक्तिलताच्च्हटा विलसिताः पुण्यप्रवालश्रिताः । दीप्यन्ते गुणकोरका जपवचःपुश्ह्पाणि सद्वासना घ्य़ानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७॥ नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं स्वच्च्हं सद.ह्द्विजसेवितं कलुश्हहृत्सद्वासनाविश्ह्कृतम.ह । शंभुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरं किं क्शुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८॥ आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता । उच्च्हैर्मानसकायमानपटलीमाक्रम्य निश्ह्कल्मश्हा नित्याभीश्ह्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९॥ सन्ध्यारंभविजृम्भितं श्रुतिशिरस्थानान्तराधिश्ह्ठितं सप्रेमभ्रमराभिराममसकृत.ह सद्वासनाशोभितम.ह । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविश्ह्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितं ॥ ५०॥ भृंगीच्च्हानटनोत्कटः करमदिग्राही स्फुरन्माधवा\- ह्लादो नादयुतो महासितवपुः पञ्चेश्हुणा चादृतः । सत्पक्शः सुमनोवनेश्हु स पुनः साक्शान्मदीये मनो\- राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभु: ॥ ५१। कारुण्यामृतवर्श्हिणं घनविपद.ह्ग्रीश्ह्मच्च्हिदाकर्मठं विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्च्हाकृतिम.ह । नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं शंभो वाञ्च्हति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ ५२॥ आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता\- .अनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते । श्यामां शैलसमुद्भवां घनरुचिं दृश्ह्ट.ह्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३॥ सन्ध्याघर्मदिनात्ययो हरिकराघातप्रभूतानक\- ध्वानो वारिदगर्जितं दिविश्हदां दृश्ह्टिच्च्हटा चञ्चला । भक्तानां परितोश्हबाश्ह्पविततिर्वृश्ह्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४॥ आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगतः संरक्शणोद्योगिने । ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५५॥ नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्शचिन्मूर्तये । मायासृश्ह्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे सायं ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६॥ नित्यं स्वोदरपोश्हणाय सकलानुद्दिश्य वित्ताशया व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो । मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर\- स्तिश्ह्ठस्येव हि तेन वा पशुपते ते रक्शनीयो.अस्म्यहम.ह ॥ ५७॥ एको वारिजबान्धवः क्शितिनभो व्याप्तं तमोमण्डलं भित्वा लोचनगोचरो.अपि भवति त्वं कोटिसूर्यप्रभः । वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम\- स्तत्सर्वं व्यपनीय मे पशुपते साक्शात प्रसन्नो भव ॥ ५८॥ हंसः पद्मवनं समिच्च्हति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा । चेतो वाञ्च्हति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम.ह ॥ ५९॥ रोधस्तोयहृतः श्रमेण पथिकश्च्हायां तरोर्वृश्ह्टितो भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम.ह । दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम.ह ॥ ६०॥ अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्शितिरुहं सिन्धुः सरिद्वल्लभम.ह । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिश्ह्ठति सदा सा भक्तिरित्युच्यते ॥ ६१॥ आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतच्च्हादनं वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः । रुद्राक्शैर्भसितेन देव वपुश्हो रक्शां भवद्भावना\- पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्शति ॥ ६२॥ मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूश्हांबुनिश्हेचनं पुररिपोर्दिव्याभिश्हेकायते । किंचिद्भक्शितमांसशेश्हकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३॥ वक्शस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं भूभृत्पर्यटनं नमस्सुरशिरःकोटीरसंघर्श्हणम.ह । कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपते मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ॥ ६४॥ वक्शस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते । दृश्ह्ट्वा मुक्तिवधूस्तनोति निभृताश्लेश्हं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम.ह ॥ ६५॥ क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत.ह । शंभो स्वस्य कुतूहलस्य करणं मच्चेश्ह्टितं निश्चितं तस्मान्मामकरक्शणं पशुपते कर्तव्यमेव त्वया ॥ ६६॥ बहुविधपरितोश्हबाश्ह्पपूर\- स्फुटपुलकाङ्कितचारुभोगभूमिम.ह । चिरपदफलकाङ्क्शिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥ ६७॥ अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोश्ह्ठमावसन्तीम.ह । सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम.ह ॥ ६८॥ जडता पशुता कलङ्किता कुटिलचरत्वं च नास्ति मयि देव । अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम.ह ॥ ६९॥ अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरो.अस्ति ॥ ७०॥ आरूढभक्तिगुणकुञ्चितभावचाप\- युक्तैः शिवस्मरणबाणगणैरमोघैः । निर्जित्य किल्बिश्हरिपून.ह विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराजलक्श्मीम.ह ॥ ७१॥ ध्यानाञ्जनेन समवेक्श्य तमःप्रदेशं भित्वा महाबलिभिरीश्वरनाममन्त्रैः । दिव्याश्रितं भुजगभूश्हणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२॥ भूदारतामुदवहद्यदपेक्शया श्री\- भूदार एव किमतः सुमते लभस्व । केदारमाकलितमुक्तिमहौश्हधीनां पादारविन्दभजनं परमेश्वरस्य । ७३॥ आशापाशक्लेशदुर्वासनादि\- भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः । आशाशाटीकस्य पादारविन्दं चेतःपेटीं वासितां मे तनोतु ॥ ७४॥ कल्याणिनां सरसचित्रगतिं सवेगं सर्वेङ्गितघ्य़मनघं ध्रुवलक्शणाढ्यम.ह । चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृश्हभाधिरूढ ॥ ७५॥ भक्तिर्महेशपदपुश्ह्करमावसन्ती कादम्बिनीव कुरुते परितोश्हवर्श्हम.ह । संपूरितो भवति यस्य मनस्त्तटाक\- स्तज्जन्मसस्यमखिलं सफलं च ना.अन्यत.ह ॥ ७६॥ बुद्धिःस्थिरा भवितुमीश्वरपादपद्म\- सक्ता वधूर्विरहिणीव सदा स्मरन्ती । सद्भावनास्मरणदर्शनकीर्तनादि संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७॥ सदुपचारविधिश्ह्वनुबोधितां सविनयां सहृदयं सदुपाश्रिताम.ह । मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥ ७८॥ नित्यं योगिमनः सरोजदलसञ्चारक्शमस्त्वत्क्रमः शंभो तेन कथं कठोरयमराड.ह्वक्शःकवाटक्शतिः । अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय\- त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९। एश्ह्यत्येश्ह जनिं मनो.अस्य कठिनं तस्मिन्नटानीति म\- द्रक्शायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः । नोचेद्दिव्यगृहान्तरेश्हु सुमनस्तल्पेश्हु वेद्यादिश्हु प्रायः सत्सु शिलातलेश्हु नटनं शंभो किमर्थं तव ॥ ८०॥ कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः । कंचित.ह कंचिदवेक्शनैश्च नुतिभिः कंचिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन.ह स मुक्तः खलु ॥ ८१॥ बाणत्वं वृश्हभत्वमर्धवपुश्हा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ । त्वत्पादे नयनार्पणं च कृतवान.ह त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत.ह को वा तदान्यो.अधिकः ॥ ८२॥ जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र । अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३॥ शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये । सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वम.ह ॥ ८४॥ जलधिमथनदक्शो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः । अशनकुसुमभूश्हावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५॥ पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्शित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम.ह । जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न ते.अहं विभो न घ्य़ातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ ८६॥ अशलं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्शः । मम दास्यसि किं किमस्ति शंभो तव पादाम्बुजभक्तिमेव देहि ॥ ८७॥ यदा कृतांभोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः । भवानि ते लङ्घितपद्मसंभवः तदा शिवार्चास्तवभावनक्शमः ॥ ८८॥ नतिभिर्नुतिभिस्त्वमीशपूजा\- विधिभिर्ध्यानसमाधिभिर्न तुश्ह्टः । धनुश्हा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥ ८९॥ वचसा चरितं वदामि शंभो\- रहमुद्योगविधासु ते.अप्रसक्तः । मनसा कृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥ ९०॥ आद्या.अविद्या हृद्गता निर्गतासी\- द्विद्या हृद्या हृद्गता त्वत्प्रसादात.ह । सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ॥ ९१॥ दूरीकृतानि दुरितानि दुरक्शराणि दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि । सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्शैः ॥ ९२॥ सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि । स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम.ह ॥ ९३॥ सा रसना ते नयने तावेव करौ स एव कृतकृत्यः । या ये यौ यो भर्गं वदतीक्शेते सदार्चतः स्मरति ॥ ९४॥ अतिमृदुलौ मम चरणा- वतिकठिनं ते मनो भवानीश । इति विचिकित्सां संत्यज शिव कथमासीद्गिरौ तथा प्रवेशः ॥ ९५॥ धैर्याङ्कुशेन निभृतं रभसादाकृश्ह्य भक्तिशृङ्खलया । पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६॥ प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेश्ह मनः करी गरीयान.ह । परिगृह्य नयेन भक्तिरज्ज्वा परम स्थाणुपदं दृढं नयामुम.ह ॥ ९७॥ सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिःसंस्तूयमानां सरसगुणयुतां लक्शितां लक्शणाढ्याम.ह । उद्यद्भूश्हाविशेश्हामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ ९८॥ इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया । हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शंभो स्वामिन.ह कथय मम वेद्यो.असि पुरतः ॥ ९९॥ स्तोत्रेणालमहं प्रवच्मि न मृश्हा देवा विरिञ्चादयः स्तुत्यानं गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः । माहात्म्याग्रविचारणप्रकरणे धानातुश्हस्तोमव\- द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥ १००॥ ॥ इति श्रीमच्च्हङ्कराचार्यविरचित शिवानन्दलहरी समाप्ता ॥