shiva upaniShad शिव उपनिषद कैलासशिखरासीनमशेषामरपूजितम । कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम ॥ १-१॥ संपूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः । सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १-२॥ ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः । ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात ॥ १-३॥ एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता । मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १-४॥ महादेव उवाच पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः । देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १-५॥ आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नईणामिह । तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम ॥ १-६॥ ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः । सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १-७॥ सारादपि महासारं शिवोपनिषदं परम । अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम ॥ १-८॥ शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः । उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १-९॥ अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः । यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ १-१०॥ गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च । भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १-११॥ पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम । पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ १-१२॥ सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः । मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात ॥ १-१३॥ षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे । सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ १-१४॥ यस्माच्छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः । तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ १-१५॥ पशुपाशपरः शान्तः परमज्ञानदेशिकः । शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ १-१६॥ एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम । विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १-१७॥ सकृदुच्चारितं येन शिव इत्यक्षरद्वयम । बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ १-१८॥ द्व्यक्षरः शिवमन्त्रो .अयं शिवोपनिषदि स्मृतः । एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ १-१९॥ नामसंकीर्तणादेव शिवस्याशेषपातकैः । यतः प्रमुच्यते क्षिप्रं मन्त्रो .अयं द्व्यक्षरः परः ॥ १-२०॥ यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत । एकाक्षरं वा सततं स याति परमं पदम ॥ १-२१॥ मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम । अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम ॥ १-२२॥ विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः । आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १-२३॥ हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम । हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १-२४॥ पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम । अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम ॥ १-२५॥ कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम । पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १-२६॥ धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः । प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम ॥ १-२७॥ इति दिव्योपचारैश्च संपूज्य परमं शिवम । जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १-२८॥ ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः । मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १-२९॥ तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम । शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात ॥ १-३०॥ ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम । भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १-३१॥ तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः । सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १-३२॥ स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम । ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १-३३॥ विद्या संकीर्तनीया हि येषां कर्म न विद्यते । ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत ॥ १-३४॥ शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम । विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १-३५॥ शिवयोगी शिवज्ञानी शिवजापी तपो.अधिकः । क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १-३६॥ कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः । लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १-३७॥ ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥ अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत । गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २-१॥ यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः । लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २-२॥ भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः । तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम ॥ २-३॥ भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः । पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम ॥ २-४॥ अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः । ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २-५॥ एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २-६॥ नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः । विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम ॥ २-७॥ गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते । गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम ॥ २-८॥ प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः । भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २-९॥ मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत । गर्भादर्धेन विस्तारमायामं च सुशोभनम ॥ २-१०॥ गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत । गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २-११॥ जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना । प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २-१२॥ मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता । प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम ॥ २-१३॥ प्राकारं तत्समन्ताच्च गुपुरादालभूषितम । प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम ॥ २-१४॥ नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ । प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम ॥ २-१५॥ पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत । प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम ॥ २-१६॥ स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम । तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम ॥ २-१७॥ स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम । कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम ॥ २-१८॥ शमीन्धनकुशस्थानमायुधानां च नैरृतम । सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत ॥ २-१९॥ श्रीमदायतनं शम्भोर्योगिनां विजने वने । शिवस्यायतने यावत्समेताः परमाणवः ॥ २-२०॥ मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे । महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २-२१॥ कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम । लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २-२२॥ पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत । पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥ २-२३॥ अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम । शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २-२४॥ एवं मध्ये .अवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु । अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २-२५॥ प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात । महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत ॥ २-२६॥ गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम । यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम ॥ २-२७॥ दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत । सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम ॥ २-२८॥ कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत । रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २-२९॥ एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु । कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २-३०॥ कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः । विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः । तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात ॥ २-३१॥ ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥ अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः । शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम ॥ ३-१॥ गृहस्येशानदिग्भागे कार्यमुत्तरतो .अपि वा । खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३-२॥ शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः । दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत ॥ ३-३॥ हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम । चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम ॥ ३-४॥ गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम । उदगर्वाक्च्छ्रितां किंचिच्चतुःशीर्षकसंयुताम ॥ ३-५॥ त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम । तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३-६॥ शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः । मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत ॥ ३-७॥ शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः । स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम ॥ ३-८॥ षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च । गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत ॥ ३-९॥ त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने । सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम ॥ ३-१०॥ सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत । आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ ३-११॥ वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन । तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम ॥ ३-१२॥ निर्दोषं सुलभं चैव पूजयेत्सततं बुधः । यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३-१३॥ तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः । प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः । तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३-१४॥ ॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥ अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम । पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४-१॥ तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम । पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४-२॥ द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम । तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४-३॥ दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम । सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम ॥ ४-४॥ द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम । अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४-५॥ गवाक्षकद्वयं कार्यमपिधानं सुशोभनम । धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४-६॥ आग्नेयभागात्परितः कार्या जालगवाक्षकाः । ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४-७॥ शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः । चतुरश्रवेदि॑॑(का)॑॑ श्रीमन्मेखलात्रयभूषितम ॥ ४-८॥ कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम । शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम ॥ ४-९॥ जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत । बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम ॥ ४-१०॥ ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत । चतुःप्रेगीवकोपेतम एकप्रेगीवकेन वा ॥ ४-११॥ सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम । शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम ॥ ४-१२॥ बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा । तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४-१३॥ कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः । द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४-१४॥ अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना । दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४-१५॥ रुद्रमातृगणानां च दिक्पतीनां च सर्वदा । सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत ॥ ४-१६॥ वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका । वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम ॥ ४-१७॥ अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे । व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४-१८॥ प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम । पुष्पारामजलोपेतं प्राकारान्तं च कारयेत ॥ ४-१९॥ मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम । भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४-२०॥ शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम । शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम ॥ ४-२१॥ ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः । धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४-२२॥ गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः । अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत ॥ ४-२३॥ इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत । अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ४-२४॥ कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः । कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात ॥ ४-२५॥ नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः । हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४-२६॥ ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः । इच्छया क्रीडते तावद्यावदाभूतसंप्लवम ॥ ४-२७॥ ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम । दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात ॥ ४-२८॥ ततः संपृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान । तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात ॥ ४-२९॥ अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते । पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४-३०॥ सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात । ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४-३१॥ इत्येतदखिलं कार्यं फलमुक्तं समासतः । उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम ॥ ४-३२॥ सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम । कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम ॥ ४-३३॥ यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता । तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ ४-३४॥ एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम । वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत ॥ ४-३५॥ यावत्केसरसंख्यानं कुसुमस्यानले हुतम । तावद्युगसहस्राणि शिवलोके महीयते ॥ ४-३६॥ नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम । यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम ॥ ४-३७॥ यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः । पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम ॥ ४-३८॥ हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः । पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम ॥ ४-३९॥ पलाशाअङ्कुरजारिष्ट- पालाल्यः समिधः शुभाः । पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात ॥ ४-४०॥ पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत । तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४-४१॥ तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः । कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४२॥ शमीसमित्फलं देयमब्दानपि च लक्षकम । शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४-४३॥ तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता यावती भवेत । तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४४॥ यावत्सुरौषधीरज्ञस तिलतुल्यफलं स्मृतम । इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम ॥ ४-४५॥ लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः । दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४-४६॥ पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम । क्षीरवृक्षसमृद्धे .अग्नौ फलं सार्धार्धिकं भवेत ॥ ४-४७॥ असमिद्धे सधूमे च होमकर्म निरर्थकम । अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४-४८॥ न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत । शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत ॥ ४-४९॥ एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात । तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान ॥ ४-५०॥ स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च । याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४-५१॥ एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः । सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४-५२॥ अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः । आभूतसंप्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान ॥ ४-५३॥ ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानमुत्तमम । प्रसादादीश्वरस्यैव मुच्यते भवसागरात ॥ ४-५४॥ शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति । सो .अपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत ॥ ४-५५॥ शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः । ते .अपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४-५६॥ शिवयज्ञमहावेद्या जायते ये न सन्ति वा । ते .अपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४-५७॥ पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत । होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४-५८॥ सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम । प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम ॥ ४-५९॥ इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत । दूर्वया बिल्वपत्त्रैर्वा समिधः संप्रकीर्तिताः ॥ ४-६०॥ अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा । तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४-६१॥ परिधीनामभावेन शरैर्वंशैश्च कल्पयेत । इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४-६२॥ गोमयानामभावेन महत्यम्भसि होमयेत । अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४-६३॥ विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः । छागस्य दक्षिणे कर्णे कुशमूले च होमयेत ॥ ४-६४॥ स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे । अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४-६५॥ आपत्काले .अपि यः कुर्याच्छिवाग्नेर्मनसार्चनम । स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात ॥ ४-६६॥ प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः । बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४-६७॥ ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥ अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम । सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम ॥ ५-१॥ अग्निरूपेण रुद्रेण स्वतेजः परमं बलम । भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम ॥ ५-२॥ यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम । रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५-३॥ यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम । अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५-४॥ आहारमर्धभुक्तं च कीटकेशादिदूषितम । तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५-५॥ आरण्यं गोमयकृतं करीषं वा प्रशस्यते । शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५-६॥ स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना । गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५-७॥ सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम॑॑(दुःखोपार)॑॑ । शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम ॥ ५-८॥ भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा । मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५-९॥ पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम । शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम ॥ ५-१०॥ जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम । पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः ॥ ५-११॥ शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च । भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम ॥ ५-१२॥ भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम । जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम ॥ ५-१३॥ अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम । नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५-१४॥ स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम । असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम ॥ ५-१५॥ त्रिकालं वारुणस्नानादनारोग्यं प्रजायते । आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम ॥ ५-१६॥ संध्यात्रये .अर्धरात्रे च भुक्त्वा चान्नविरेचने । शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५-१७॥ भस्मास्तृते महीभागे समे जन्तुविवर्जिते । ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५-१८॥ एकरात्रोषितस्यापि या गतिर्भस्मशायिनः । न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५-१९॥ गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः । यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात ॥ ५-२०॥ शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत । हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५-२१॥ गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा । शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत ॥ ५-२२॥ संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च । यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ ५-२३॥ शिवभस्मनि यावन्तः समेताः परमाणवः । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५-२४॥ एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः । मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५-२५॥ तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान । ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात ॥ ५-२६॥ भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम । अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५-२७॥ भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने । ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम ॥ ५-२८॥ इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम । त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात ॥ ५-२९॥ भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने । कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५-३०॥ आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम । मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम ॥ ५-३१ ॥ आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम । अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ ५-३२॥ मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत । ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम ॥ ५-३३॥ गवां खुरपुटोत्खात- पवनोद्धूतरेणुना । कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ ५-३४॥ व्यभ्रे .अर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः । आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम ॥ ५-३५॥ उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत । अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५-३६॥ पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च । तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५-३७॥ न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः । पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५-३८॥ आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत । क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५-३९॥ यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम । यैव योगाभियुक्तानां गतिः सैव क्षमावताम ॥ ५-४०॥ ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः । निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत ॥ ५-४१॥ मेध्यामेध्यरसं यद्वदपि वत्स विना करैः । नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५-४२॥ एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत । अशुद्धभावः स्नातो .अपि पूजयन्नाप्नुयात्फलम ॥ ५-४३॥ जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः । ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम ॥ ५-४४॥ अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम । तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५-४५॥ यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते । तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम ॥ ५-४६॥ मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते । करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम ॥ ५-४७॥ वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम । शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम ॥ ५-४८॥ देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा । उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५-४९॥ प्राचीनावीतिना कार्यं पितईणां तिलवारिणा । तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५-५०॥ सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा । प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५-५१॥ पितईणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत । उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम ॥ ५-५२॥ ॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥ अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत । यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत ॥ ६-१॥ यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत । शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६-२॥ यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत । गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ ६-३॥ श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे । वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत ॥ ६-४॥ कपित्थमेकं यः पक्वमीश्वराय निवेदयेत । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-५॥ एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत । वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ ६-६॥ एकं वटफलं पक्वं यः शिवाय निवेदयेत । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-७॥ यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम । शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६-८॥ यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम । तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६-९॥ द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत । भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ ६-१०॥ यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम । तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६-११॥ द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च । तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६-१२॥ यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे । अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६-१३॥ बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च । जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६-१४॥ पनसं नारिकेलं वा शिवाय विनिवेदयेत । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-१५॥ पुरुषं च प्रियालं च मधूककुसुमानि च । जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६-१६॥ निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले । दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६-१७॥ क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत । वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-१८॥ वालुकात्रपुसादीनि यः फलानि निवेदयेत । शिवाय गुरवे वापि पक्वं च करमर्दकम ॥ ६-१९॥ दशवर्षसहस्राणि रुद्रलोके महीयते । बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६-२०॥ दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च । एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६-२१॥ निवेदयति शर्वाय शृणु यत्फलमाप्नुयात । एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ ६-२२॥ पञ्चवर्षसहस्राणि रुद्रलोके महीयते । गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम ॥ ६-२३॥ निवेदयीत शर्वाय तस्य पुण्यफलं शृणु । यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत ॥ ६-२४॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत ॥ ६-२५॥ गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु । इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६-२६॥ साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम । निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६-२७॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । निवेद्य फाणितं शुद्धं शिवाय गुरवे .अपि वा ॥ ६-२८॥ रसात्सहस्रगुणितं फलं प्राप्नोति मानवः । गुडस्य फलमेकं यः शिवाय विनिवेदयेत ॥ ६-२९॥ अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते । खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम ॥ ६-३०॥ खण्डात्सहस्रगुणितं शर्कराया निवेदने । मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत ॥ ६-३१॥ कल्पकोटिं नरः साग्रं शिवलोके महीयते । परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम ॥ ६-३२॥ मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात । अशेषफलदानेन यत्पुण्यं परिकीर्तितम ॥ ६-३३॥ तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने । पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६-३४॥ निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु । कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६-३५॥ पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते । दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत ॥ ६-३६॥ सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु । महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६-३७॥ तत्पुण्यं सकलं प्राप्य शिवलोके महीयते । यदिष्टमात्मनः किंचिदन्नपानफलादिकम ॥ ६-३८॥ तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता । न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित ॥ ६-३९॥ किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते । न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम ॥ ६-४०॥ पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम । सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम ॥ ६-४१॥ अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात । तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६-४२॥ तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना । यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम ॥ ६-४३॥ नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम । यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६-४४॥ तावद्वर्षसहस्राणि सुरलोके महीयते । पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥ ६-४५॥ दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात । यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम ॥ ६-४६॥ तावदब्दायुतानां स लोके भोगानवाप्नुयात । यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत ॥ ६-४७॥ तावन्ति वर्षलक्षाणि शिवलोके महीयते । यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत ॥ ६-४८॥ ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु । यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत ॥ ६-४९॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम ॥ ६-५०॥ इत्येतानि सुगन्धीनि फलानि विनिवेदयेत । फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६-५१॥ कामिकेन विमानेन क्रीडते स शिवे पुरे । त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६-५२॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत ॥ ६-५३॥ वर्षकोट्यष्टकं भोगैः शिवलोके महीयते । यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत ॥ ६-५४॥ मोदते स शिवे लोके वर्षकोटीश्चतुर्दश । मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६-५५॥ प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः । माणिक्य