logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशिवसहस्रनाम - shiva sahasranamam Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shiva sahasranamam शिवसहस्रनाम This Page is courtesy of Sanskrit Documents List. Please send your corrections shiva sahasranAmam शिवसहस्रनाम .. ॐ .. स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः . सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः .. १.. जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः . हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः .. २.. प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः . श्मशानचारी भगवान.ह खचरो गोचरो.अर्दनः .. ३.. अभिवाद्यो महाकर्मा तपस्वी भूत भावनः . उन्मत्तवेश्हप्रच्च्हन्नः सर्वलोकप्रजापतिः .. ४.. महारूपो महाकायो वृश्हरूपो महायशाः . महा.अ.अत्मा सर्वभूतश्च विरूपो वामनो मनुः .. ५.. लोकपालो.अन्तर्हितात्मा प्रसादो हयगर्दभिः . पवित्रश्च महांश्चैव नियमो नियमाश्रयः .. ६.. सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः . सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः .. ७.. चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः . अद्रिरद{}र्यालयः कर्ता मृगबाणार्पणो.अनघः .. ८.. महातपा घोर तपा.अदीनो दीनसाधकः . संवत्सरकरो मन्त्रः प्रमाणं परमं तपः .. ९.. योगी योज्यो महाबीजो महारेता महातपाः . सुवर्णरेताः सर्वघ्य़ः सुबीजो वृश्हवाहनः .. १०.. दशबाहुस्त्वनिमिश्हो नीलकण्ठ उमापतिः . विश्वरूपः स्वयं श्रेश्ह्ठो बलवीरो.अबलोगणः .. ११.. गणकर्ता गणपतिर्दिग्वासाः काम एव च . पवित्रं परमं मन्त्रः सर्वभाव करो हरः .. १२.. कमण्डलुधरो धन्वी बाणहस्तः कपालवान.ह . अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान.ह .. १३.. स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः . उश्ह्णिश्ही च सुवक्त्रश्चोदग्रो विनतस्तथा .. १४.. दीर्घश्च हरिकेशश्च सुतीर्थः कृश्ह्ण एव च . सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः .. १५.. अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि . उर्ध्वरेतोर्ध्वलिंग उर्ध्वशायी नभस्तलः .. १६.. त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः . अहश्चरो.अथ नक्तं च तिग्ममन्युः सुवर्चसः .. १७.. गजहा दैत्यहा लोको लोकधाता गुणाकरः . सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः .. १८.. कालयोगी महानादः सर्ववासश्चतुश्ह्पथः . निशाचरः प्रेतचारी भूतचारी महेश्वरः .. १९.. बहुभूतो बहुधनः सर्वाधारो.अमितो गतिः . नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः .. २०.. घोरो महातपाः पाशो नित्यो गिरि चरो नभः . सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः .. २१.. अमर्श्हणो मर्श्हणात्मा यघ्य़हा कामनाशनः . दक्शयघ्य़ापहारी च सुसहो मध्यमस्तथा .. २२.. तेजो.अपहारी बलहा मुदितो.अर्थो.अजितो वरः . गंभीरघोश्हो गंभीरो गंभीर बलवाहनः .. २३.. न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः . सुदीक्श्णदशनश्चैव महाकायो महाननः .. २४.. विश्ह्वक्सेनो हरिर्यघ्य़ः संयुगापीडवाहनः . तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवित.ह .. २५.. विश्ह्णुप्रसादितो यघ्य़ः समुद्रो वडवामुखः . हुताशनसहायश्च प्रशान्तात्मा हुताशनः .. २६.. उग्रतेजा महातेजा जयो विजयकालवित.ह . ज्योतिश्हामयनं सिद्धिः संधिर्विग्रह एव च .. २७.. शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली . वैणवी पणवी ताली कालः कालकटंकटः .. २८.. नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयो.अगमः . प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः .. २९.. विमोचनः सुरगणो हिरण्यकवचोद्भवः . मेढ्रजो बलचारी च महाचारी स्तुतस्तथा .. ३०.. सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः . व्यालरूपो बिलावासी हेममाली तरंगवित.ह .. ३१.. त्रिदशस्त्रिकालधृक.ह कर्म सर्वबन्धविमोचनः . बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः .. ३२.. सांख्यप्रसादो सुर्वासाः सर्वसाधुनिश्हेवितः . प्रस्कन्दनो विभागश्चातुल्यो यघ्य़भागवित.ह .. ३३.. सर्वावासः सर्वचारी दुर्वासा वासवो.अमरः . हेमो हेमकरो यघ्य़ः सर्वधारी धरोत्तमः .. ३४.. लोहिताक्शो महा.अक्शश्च विजयाक्शो विशारदः . संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः .. ३५.. मुख्यो.अमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः . सर्वकामप्रसादश्च सुबलो बलरूपधृक.ह .. ३६.. सर्वकामवरश्चैव सर्वदः सर्वतोमुखः . आकाशनिधिरूपश्च निपाती उरगः खगः .. ३७.. रौद्ररूपों.अशुरादित्यो वसुरश्मिः सुवर्चसी . वसुवेगो महावेगो मनोवेगो निशाचरः .. ३८.. सर्वावासी श्रियावासी उपदेशकरो हरः . मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः .. ३९.. पक्शी च पक्शिरूपी चातिदीप्तो विशांपतिः . उन्मादो मदनाकारो अर्थार्थकर रोमशः .. ४०.. वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः . सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः .. ४१.. भिक्शुश्च भिक्शुरूपश्च विश्हाणी मृदुरव्ययः . महासेनो विशाखश्च श्हश्ह्टिभागो गवांपतिः .. ४२.. वज्रहस्तश्च विश्ह्कंभी चमूस्तंभनैव च . ऋतुरृतु करः कालो मधुर्मधुकरो.अचलः .. ४३.. वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः . ब्रह्मचारी लोकचारी सर्वचारी सुचारवित.ह .. ४४.. ईशान ईश्वरः कालो निशाचारी पिनाकधृक.ह . निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः .. ४५.. नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः . भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः .. ४६.. चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च . लिंगाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः .. ४७.. बीजाध्यक्शो बीजकर्ता.अध्यात्मानुगतो बलः . इतिहास करः कल्पो गौतमो.अथ जलेश्वरः .. ४८.. दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः . लोक कर्ता पशु पतिर्महाकर्ता महौश्हधिः .. ४९.. अक्शरं परमं ब्रह्म बलवान.ह शक्र एव च . नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः .. ५०.. बहुप्रसादः स्वपनो दर्पणो.अथ त्वमित्रजित.ह . वेदकारः सूत्रकारो विद्वान.ह समरमर्दनः .. ५१.. महामेघनिवासी च महाघोरो वशीकरः . अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः .. ५२.. वृश्हणः शंकरो नित्यो वर्चस्वी धूमकेतनः . नीलस्तथा.अंगलुब्धश्च शोभनो निरवग्रहः .. ५३.. स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः . उत्संगश्च महांगश्च महागर्भः परो युवा .. ५४.. कृश्ह्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनाम.ह . महापादो महाहस्तो महाकायो महायशाः .. ५५.. महामूर्धा महामात्रो महानेत्रो दिगालयः . महादन्तो महाकर्णो महामेढ्रो महाहनुः .. ५६.. महानासो महाकंबुर्महाग्रीवः श्मशानधृक.ह . महावक्शा महोरस्को अन्तरात्मा मृगालयः .. ५७.. लंबनो लंबितोश्ह्ठश्च महामायः पयोनिधिः . महादन्तो महादंश्ह्ट्रो महाजिह्वो महामुखः .. ५८.. महानखो महारोमा महाकेशो महाजटः . असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः .. ५९.. स्नेहनो.अस्नेहनश्चैवाजितश्च महामुनिः . वृक्शाकारो वृक्श केतुरनलो वायुवाहनः .. ६०.. मण्डली मेरुधामा च देवदानवदर्पहा . अथर्वशीर्श्हः सामास्य ऋक.ह्सहस्रामितेक्शणः .. ६१.. यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा . अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः .. ६२.. उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः . नाभिर्नन्दिकरो भाव्यः पुश्ह्करस्थपतिः स्थिरः .. ६३.. द्वादशस्त्रासनश्चाद्यो यघ्य़ो यघ्य़समाहितः . नक्तं कलिश्च कालश्च मकरः कालपूजितः .. ६४.. सगणो गण कारश्च भूत भावन सारथिः . भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः .. ६५.. अगणश्चैव लोपश्च महा.अ.अत्मा सर्वपूजितः . शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिश्हेवितः .. ६६.. आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः . शाखो विशाखस्ताम्रोश्ह्ठो ह्यमुजालः सुनिश्चयः .. ६७.. कपिलो.अकपिलः शूरायुश्चैव परो.अपरः . गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्य़ेयः सुसारथिः .. ६८.. परश्वधायुधो देवार्थ कारी सुबान्धवः . तुंबवीणी महाकोपोर्ध्वरेता जलेशयः .. ६९.. उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः . सर्वांगरूपो मायावी सुहृदो ह्यनिलो.अनलः .. ७०.. बन्धनो बन्धकर्ता च सुबन्धनविमोचनः . सयघ्य़ारिः सकामारिः महादंश्ह्ट्रो महा.अ.अयुधः .. ७१.. बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरो.अधनः . अमरेशो महादेवो विश्वदेवः सुरारिहा .. ७२.. अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा . अजैकपाच्च कापाली त्रिशंकुरजितः शिवः .. ७३.. धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा . धाता शक्रश्च विश्ह्णुश्च मित्रस्त्वश्ह्टा ध्रुवो धरः .. ७४.. प्रभावः सर्वगो वायुरर्यमा सविता रविः . उदग्रश्च विधाता च मान्धाता भूत भावनः .. ७५.. रतितीर्थश्च वाग्मी च सर्वकामगुणावहः . पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः .. ७६.. बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी . कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः .. ७७.. सर्वाशयो दर्भशायी सर्वेश्हां प्राणिनांपतिः . देवदेवः मुखो.असक्तः सदसत.ह सर्वरत्नवित.ह .. ७८.. कैलास शिखरावासी हिमवद.ह गिरिसंश्रयः . कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः .. ७९.. वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्च्हदः . सारग्रीवो महाजत्रु रलोलश्च महौश्हधः .. ८०.. सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः . सिंहनादः सिंहदंश्ह्ट्रः सिंहगः सिंहवाहनः .. ८१.. प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः . सारंगो नवचक्रांगः केतुमाली सभावनः .. ८२.. भूतालयो भूतपतिरहोरात्रमनिन्दितः .. ८३.. वाहिता सर्वभूतानां निलयश्च विभुर्भवः . अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः .. ८४.. धृतिमान.ह मतिमान.ह दक्शः सत्कृतश्च युगाधिपः . गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः .. ८५.. हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम.ह . प्रतिश्ह्ठायी महाहर्श्हो जितकामो जितेन्द्रियः .. ८६.. गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः . महागीतो महानृत्तोह्यप्सरोगणसेवितः .. ८७.. महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः . आवेदनीय आवेशः सर्वगन्धसुखावहः .. ८८.. तोरणस्तारणो वायुः परिधावति चैकतः . संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः .. ८९.. नित्यात्मसहायश्च देवासुरपतिः पतिः . युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः .. ९०.. आश्हाढश्च सुश्हाडश्च ध्रुवो हरि हणो हरः . वपुरावर्तमानेभ्यो वसुश्रेश्ह्ठो महापथः .. ९१.. शिरोहारी विमर्शश्च सर्वलक्शण भूश्हितः . अक्शश्च रथ योगी च सर्वयोगी महाबलः .. ९२.. समाम्नायो.असमाम्नायस्तीर्थदेवो महारथः . निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः .. ९३.. रत्न प्रभूतो रक्तांगो महा.अर्णवनिपानवित.ह . मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः .. ९४.. आरोहणो निरोहश्च शलहारी महातपाः . सेनाकल्पो महाकल्पो युगायुग करो हरिः .. ९५.. युगरूपो महारूपो पवनो गहनो नगः . न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः .. ९६.. बहुमालो महामालः सुमालो बहुलोचनः . विस्तारो लवणः कूपः कुसुमः सफलोदयः .. ९७.. वृश्हभो वृश्हभांकांगो मणि बिल्वो जटाधरः . इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः .. ९८.. निवेदनः सुधाजातः सुगन्धारो महाधनुः . गन्धमाली च भगवान.ह उत्थानः सर्वकर्मणाम.ह .. ९९.. मन्थानो बहुलो बाहुः सकलः सर्वलोचनः . तरस्ताली करस्ताली ऊर्ध्व संहननो वहः .. १००.. च्हत्रं सुच्च्हत्रो विख्यातः सर्वलोकाश्रयो महान.ह . मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः .. १०१.. हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपात.ह . सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः .. १०२.. सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत.ह . पवित्रं त्रिमधुर्मन्त्रः कनिश्ह्ठः कृश्ह्णपिंगलः .. १०३.. ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक.ह . पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः .. १०४.. गभस्तिर्ब्रह्मकृद.ह ब्रह्मा ब्रह्मविद.ह ब्राह्मणो गतिः . अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः .. १०५.. ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः . चन्दनी पद्ममाला.अग{}र्यः सुरभ्युत्तरणो नरः .. १०६.. कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृक.ह . उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः .. १०७.. वरो वराहो वरदो वरेशः सुमहास्वनः . महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः .. १०८.. प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक.ह . सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः .. १०९.. चराचरात्मा सूक्श्मात्मा सुवृश्हो गो वृश्हेश्वरः . साध्यर्श्हिर्वसुरादित्यो विवस्वान.ह सविता.अमृतः .. ११०.. व्यासः सर्वस्य संक्शेपो विस्तरः पर्ययो नयः . ऋतुः संवत्सरो मासः पक्शः संख्या समापनः .. १११.. कलाकाश्ह्ठा लवोमात्रा मुहूर्तो.अहः क्शपाः क्शणाः . विश्वक्शेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिन्दितः .. ११२.. सदसद.ह व्यक्तमव्यक्तं पिता माता पितामहः . स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविश्ह्टपम.ह .. ११३.. निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः . देवासुरविनिर्माता देवासुरपरायणः .. ११४.. देवासुरगुरुर्देवो देवासुरनमस्कृतः . देवासुरमहामात्रो देवासुरगणाश्रयः .. ११५.. देवासुरगणाध्यक्शो देवासुरगणाग्रणीः . देवातिदेवो देवर्श्हिर्देवासुरवरप्रदः .. ११६.. देवासुरेश्वरोदेवो देवासुरमहेश्वरः . सर्वदेवमयो.अचिन्त्यो देवता.अ.अत्मा.अ.अत्मसंभवः .. ११७.. उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजो.अंबरः . ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्श्हभः .. ११८.. विबुधाग्रवरः श्रेश्ह्ठः सर्वदेवोत्तमोत्तमः . प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः .. ११९.. गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः . शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः .. १२०.. अभिरामः सुरगणो विरामः सर्वसाधनः . ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः .. १२१.. स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः . सिद्धार्थः सर्वभूतार्थो.अचिन्त्यः सत्यव्रतः शुचिः .. १२२.. व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः . विमुक्तो मुक्ततेजाश्च श्रीमान.ह श्रीवर्धनो जगत.ह .. १२३.. श्रीमान.ह श्रीवर्धनो जगत.ह ॐ नम इति.. shivasahasranaama Taken from Mahabharata 13th parva; Partly proofread from Ramakrishna Mission Book

Related Content

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

উপমন্যুকৃতং শিৱস্তোত্রম - Upamanyukrutam Shivastotram

হিমালয়কৃতং শিবস্তোত্রম্

অসিতকৃতং শিৱস্তোত্রম - Asitakrutam Shivastotram

কল্কিকৃতং শিৱস্তোত্রম - Kalkikrutam Shivastotram